पञ्चम अंश

अध्याय 32: श्रीकृष्ण के पुत्र और ऊषा का स्वप्न

24 श्लोक · 32 में से 38

इस अध्याय में क्या होता है

श्रीकृष्ण के पुत्र और ऊषा का स्वप्न

पराशर हरि के पुत्र गिनाते हैं: सत्यभामा से भानु, रोहिणी से दीप्तिमान, जाम्बवती से साम्ब, और दूसरी रानियों से और भी, यहाँ तक कि उनकी गिनती हज़ारों में है। अनिरुद्ध बलि के पौत्र बाणासुर की पुत्री ऊषा से विवाह करते हैं, और इसी कारण हरि और शंकर में युद्ध होता है जिसमें बाण की हज़ार भुजाएँ कटती हैं। मैत्रेय यह कथा सुनना चाहते हैं। एक बार ऊषा ने शम्भु के साथ पार्वती को देखकर वैसे पति की कामना की। गौरी कहती हैं कि वैशाख शुक्ल द्वादशी को जो पुरुष स्वप्न में आएगा, वही तुम्हारा पति होगा। वैसा ही होता है। जागकर वह मन्त्री की पुत्री, सखी चित्रलेखा को बताती है, जो यादवों के चित्र बनाती है, और अनिरुद्ध का चित्र देखकर ऊषा लजाकर कहती है: यही है।

पराशार उवाच

32.1

प्रद्यु म्राद्या हरेः पुत्रा रुक्मिण्याः कथितास्तव ।
भानुं भैमरिकञ्चैव सत्यभामा व्यजायत

pradyu mrādyā hareḥ putrā rukmiṇyāḥ kathitāstava |
bhānuṃ bhaimarikañcaiva satyabhāmā vyajāyata

32.2

दीप्तिमान् ताम्रपक्षाद्या रोहिणयां तनया हरेः ।
बभूवुर्जाम्बवत्याञ्च शाम्बाद्या बलशालिनः

dīptimān tāmrapakṣādyā rohiṇayāṃ tanayā hareḥ |
babhūvurjāmbavatyāñca śāmbādyā balaśālinaḥ

32.3

तनया भद्रविन्दाद्या नाग्रजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैव्यायान्त्वभवन् सुताः

tanayā bhadravindādyā nāgrajityāṃ mahābalāḥ |
saṃgrāmajitpradhānāstu śaivyāyāntvabhavan sutāḥ

32.4

वृकाद्याश्व सुता माद्रयां गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्मणा पुत्राः कालिन्द्याञ्च श्रुतादयः

vṛkādyāśva sutā mādrayāṃ gātravatpramukhān sutān |
avāpa lakṣmaṇā putrāḥ kālindyāñca śrutādayaḥ

32.5

अन्यासाञ्चैव भार्य्याणां समुतूपन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्त्रणां शतं तथा

anyāsāñcaiva bhāryyāṇāṃ samutūpannāni cakriṇaḥ |
aṣṭāyutāni putrāṇāṃ sahastraṇāṃ śataṃ tathā

32.6

प्रद्यु म्रः प्रथमस्तेषा सर्व्वेषां रुक्मिणीसुतः ।
प्रद्यु म्रादनिरुद्धोऽभूदू वजूस्तस्मादजायत

pradyu mraḥ prathamasteṣā sarvveṣāṃ rukmiṇīsutaḥ |
pradyu mrādaniruddho'bhūdū vajūstasmādajāyata

32.7

अनिरुद्धो रणो रुद्धो बलेः पौत्रीं महाबलः ।
वाणास्य तनयामूषामुपयेमे द्रिजोत्तम

aniruddho raṇo ruddho baleḥ pautrīṃ mahābalaḥ |
vāṇāsya tanayāmūṣāmupayeme drijottama

32.8

यत्र युद्धमभूदू घोरं हरि-शङ्करयोर्महत् ।
छिन्न सहस्त्र बाहूनां यत्र वाणस्य चक्रिणा

yatra yuddhamabhūdū ghoraṃ hari-śaṅkarayormahat |
chinna sahastra bāhūnāṃ yatra vāṇasya cakriṇā

मैत्रेय उवाच

32.9

कथं युद्धमभूदू ब्रह्मन्नुषार्थे हर-कृष्णयोः ।
कथं क्षयञ्च वाणस्य बाहूनां कृतवान् हरिः

kathaṃ yuddhamabhūdū brahmannuṣārthe hara-kṛṣṇayoḥ |
kathaṃ kṣayañca vāṇasya bāhūnāṃ kṛtavān hariḥ

32.10

एतत् सर्व्व महाभाग समाख्यातु त्वमर्हसि ।
महत् कौतूहलं जातं कथां श्रोतुमिमां हरेः

etat sarvva mahābhāga samākhyātu tvamarhasi |
mahat kautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ

पराशर उवाच

32.11

ऊषा वाणसुता विप्र पार्व्वतीं सह शम्भुना ।
क्रीड़न्तीमुपलक्ष्योच्चैः स्पृहाञ्चक्र तदाश्रयाम्

ūṣā vāṇasutā vipra pārvvatīṃ saha śambhunā |
krīr̤antīmupalakṣyoccaiḥ spṛhāñcakra tadāśrayām

32.12

ततः सकलाचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे

tataḥ sakalācittajñā gaurī tāmāha bhāminīm |
alamatyarthatāpena bhartrā tvamapi raṃsyase

32.13

इत्युक्ते सा तदा चक्र कदेति मतिमात्मनः ।
को वा भर्त्ता ममेत्येतां पुनरप्याह पार्व्वती

ityukte sā tadā cakra kadeti matimātmanaḥ |
ko vā bharttā mametyetāṃ punarapyāha pārvvatī

32.14

वैशाखशुक्लद्रादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्त्ता राजपुत्रि भविष्यति

vaiśākhaśukladrādaśyāṃ svapne yo'bhibhavaṃ tava |
kariṣyati sa te bharttā rājaputri bhaviṣyati

32.15

तस्यां तिथौ पुमान् खप्ने यथा देव्या उदीरितम् ।
तथैवाभिभवं चक्र रागञ्चक्र तथैव सा

tasyāṃ tithau pumān khapne yathā devyā udīritam |
tathaivābhibhavaṃ cakra rāgañcakra tathaiva sā

32.16

ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ।
क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम्

tataḥ prabuddhā puruṣamapaśyantī tamutsukā |
kva gato'sīti nirlajjā maitreyoktavatī sakhīm

32.17

वाणस्य मन्त्री कुम्भाणडश्वित्रलेशा तु तत्सुता ।
तस्याः सख्यभवत् सा च प्राह कोऽय त्वयोच्यते

vāṇasya mantrī kumbhāṇaḍaśvitraleśā tu tatsutā |
tasyāḥ sakhyabhavat sā ca prāha ko'ya tvayocyate

32.18

यदा लज्जाकुला नास्यै कथयामास सा सती ।
तदा विश्वासमानीय सर्व्वमेवाभ्यवादयत्

yadā lajjākulā nāsyai kathayāmāsa sā satī |
tadā viśvāsamānīya sarvvamevābhyavādayat

32.19

विदितार्थान्तु तामाह पुनरूषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम्

viditārthāntu tāmāha punarūṣā yathoditam |
devyā tathaiva tatprāptau yo'bhyupāyaḥ kuruṣva tam

32.20

ततः पटे सुरान् दैत्यान् गन्धर्व्वांश्व प्रधानतः ।
मनुष्यांश्वाबिलिख्यास्यै चित्रलेखा व्यदर्शयत्

tataḥ paṭe surān daityān gandharvvāṃśva pradhānataḥ |
manuṣyāṃśvābilikhyāsyai citralekhā vyadarśayat

32.21

अपास्य सा तु गन्धर्व्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु

apāsya sā tu gandharvvāṃstathoragasurāsurān |
manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu

32.22

कृष्ण-रामौ विलोक्यासौ सुभ्रु र्लज्जाजड़ेव सा ।
प्रद्यु म्रदर्शाने व्रीड़ा-दृष्टिं निन्येऽन्यतो द्रिज

kṛṣṇa-rāmau vilokyāsau subhru rlajjājar̤eva sā |
pradyu mradarśāne vrīr̤ā-dṛṣṭiṃ ninye'nyato drija

32.23

दृष्टमात्रे ततः कान्ते प्रद्यु म्रतनये द्रिज ।
दृष्ट्यात्यर्थविकाशिन्या लज्जा क्कापि निराकृता

dṛṣṭamātre tataḥ kānte pradyu mratanaye drija |
dṛṣṭyātyarthavikāśinyā lajjā kkāpi nirākṛtā

32.24

सोऽयं सोऽयमितीत्युक्त तया सा योगगामिनी ।
ययौ द्रारवतीमूषां समाश्वास्य ततः सखीम्

so'yaṃ so'yamitītyukta tayā sā yogagāminī |
yayau drāravatīmūṣāṃ samāśvāsya tataḥ sakhīm

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)