चारुदेष्णां सुदेष्णञ्च चारुदेवञ्च वीर्य्यवान् ।
सुषेणं चारुगुप्तञ्च भद्रचारु तथापरम्
cārudeṣṇāṃ sudeṣṇañca cārudevañca vīryyavān |
suṣeṇaṃ cāruguptañca bhadracāru tathāparam
27 श्लोक · 28 में से 38
रुक्मिणी से कृष्ण के चारुदेष्ण, सुदेष्ण, चारुदेव आदि और पुत्र तथा चारुमती नाम की पुत्री होती है। उनकी सात और प्रमुख रानियाँ हैं, जिनमें कालिन्दी, मित्रविन्दा, जाम्बवती और सत्यभामा हैं, और सोलह हज़ार अन्य पत्नियाँ। प्रद्युम्न स्वयंवर में रुक्मी की पुत्री को पाते हैं; उनके पुत्र अनिरुद्ध का विवाह भोजकट में रुक्मी की पौत्री से होता है। वहाँ कलिंगराज रुक्मी को उकसाता है कि जुए के शौकीन पर अनाड़ी बलराम को हराओ। रुक्मी पहले दाँव जीतता है और कलिंगराज दाँत दिखाकर हँसता है। फिर बलराम जीतते हैं, पर रुक्मी झूठ बोलता है। आकाशवाणी कहती है कि जीत बलराम की है। क्रोध में बलराम चौसर के पट से रुक्मी को मारते हैं, कलिंगराज के दाँत तोड़ते हैं और सोने के खम्भे से रुक्मी के साथी राजाओं को गिरा देते हैं।
चारुदेष्णां सुदेष्णञ्च चारुदेवञ्च वीर्य्यवान् ।
सुषेणं चारुगुप्तञ्च भद्रचारु तथापरम्
cārudeṣṇāṃ sudeṣṇañca cārudevañca vīryyavān |
suṣeṇaṃ cāruguptañca bhadracāru tathāparam
चारुविन्दं सुचारुञ्च चारुञ्च बलिनां वरम् ।
रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा
cāruvindaṃ sucāruñca cāruñca balināṃ varam |
rukmiṇyajanayat putrān kanyāṃ cārumatīṃ tathā
अन्याश्व भार्य्याः कृष्णस्य बभूवुः स्प्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्रजिती तथा
anyāśva bhāryyāḥ kṛṣṇasya babhūvuḥ spta śobhanāḥ |
kālindī mitravindā ca satyā nāgrajitī tathā
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलभण्डना
devī jāmbavatī cāpi rohiṇī kāmarūpiṇī |
madrarājasutā cānyā suśīlā śīlabhaṇḍanā
सात्राजिती सत्यभीमा लक्ष्णा चारुहासिनी ।
षोड़शासन सहस्त्राणि स्त्रीणामन्यानि चक्रिणः
sātrājitī satyabhīmā lakṣṇā cāruhāsinī |
ṣor̤aśāsana sahastrāṇi strīṇāmanyāni cakriṇaḥ
प्रद्यु म्रोऽपि महावीर्य्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरस्थां जग्राह सा च तं तनय हरेः
pradyu mro'pi mahāvīryyo rukmiṇastanayāṃ śubhām |
svayaṃvarasthāṃ jagrāha sā ca taṃ tanaya hareḥ
यस्यामस्याभवत् पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणो क्रे द्धो वीर्य्योदधिररिन्दमः
yasyāmasyābhavat putro mahābalaparākramaḥ |
aniruddho raṇo kre ddho vīryyodadhirarindamaḥ
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रुक्मी तां स्पर्द्धन्नपि शौरिणा
tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ |
dauhitrāya dadau rukmī tāṃ sparddhannapi śauriṇā
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्रा भोजकटं द्रिज
tasyā vivāhe rāmādyā yādavā hariṇā saha |
rukmiṇo nagaraṃ jagmurnāmrā bhojakaṭaṃ drija
विवाहे तत्र निवृत्ते प्राद्यूम्नेः सुमहात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणां वाक्यमब्रु वन्
vivāhe tatra nivṛtte prādyūmneḥ sumahātmanaḥ |
kaliṅgarājapramukhā rukmiṇāṃ vākyamabru van
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
न जयामो बलं कस्मादू द्यूतेनैनं महाद्युते
anakṣajño halī dyūte tathāsya vyasanaṃ mahat |
na jayāmo balaṃ kasmādū dyūtenainaṃ mahādyute
तथेति तानाह नृपान् रुक्मी बलसमन्वितः ।
सभायां सह रामेण चक्र द्रू तञ्च वै तदा
tatheti tānāha nṛpān rukmī balasamanvitaḥ |
sabhāyāṃ saha rāmeṇa cakra drū tañca vai tadā
सहस्त्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्रितीयेऽपि पणे चान्यत् सहस्त्र रुक्मिणा जितम्
sahastramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ |
dritīye'pi paṇe cānyat sahastra rukmiṇā jitam
ततो दश सहस्त्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः
tato daśa sahastrāṇi niṣkāṇāṃ paṇamādade |
balabhadro'jayattāni rukmī dyūtavidāṃ varaḥ
ततो जहास खनवत् कलिङ्गाधिपतिर्द्रिज दन्तान् विदर्शयन् मूढ़ो रुक्मी चाह मदोद्धतः
tato jahāsa khanavat kaliṅgādhipatirdrija dantān vidarśayan mūr̤ho rukmī cāha madoddhataḥ
ग्रविज्ञोऽयं मया द्यूते बलदेवः पराजितः ।
मुधैवाक्षावलेपान्धो यः स्वं मेनेऽक्षकाविदम्
gravijño'yaṃ mayā dyūte baladevaḥ parājitaḥ |
mudhaivākṣāvalepāndho yaḥ svaṃ mene'kṣakāvidam
दृष्टा कलिङ्गराजं तं प्रकाशदशनाननम् ।
रुक्मिणञ्चपि दुव्वक्यिं कोपं चक्र हलायुधः
dṛṣṭā kaliṅgarājaṃ taṃ prakāśadaśanānanam |
rukmiṇañcapi duvvakyiṃ kopaṃ cakra halāyudhaḥ
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत्
glahaṃ jagrāha rukmī ca tadarthe'kṣānapātayat
अजयद् बलदेवस्तं प्राहोच्चैस्तं जितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल
ajayad baladevastaṃ prāhoccaistaṃ jitaṃ mayā |
mayeti rukmī prāhoccairalīkokteralaṃ bala
त्वयोक्तोऽ.यं ग्लहः सत्यं न ममैषोऽनुमोदितः ।
एवं त्वया चेदू विजितं मया न विजितं कथम्
tvayokto'.yaṃ glahaḥ satyaṃ na mamaiṣo'numoditaḥ |
evaṃ tvayā cedū vijitaṃ mayā na vijitaṃ katham
अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तदूकोपं वर्द्धयन्ती महात्मनः
athāntarikṣe vāguccaiḥ prāha gambhīranādinī |
baladevasya tadūkopaṃ varddhayantī mahātmanaḥ
जितं बलेन धर्म्मेण रुक्मिणो भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित् कृतं भवति कर्म्मा
jitaṃ balena dharmmeṇa rukmiṇo bhāṣitaṃ mṛṣā |
anuktvāpi vacaḥ kiñcit kṛtaṃ bhavati karmmā
ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं सुमहाबलः
tato balaḥ samutthāya kopasaṃraktalocanaḥ |
jaghānāṣṭāpadenaiva rukmiṇaṃ sumahābalaḥ
कलिङ्गराजञ्चादाय विस्फुरन्तं बलाद बलः ।
वभञ्च दन्तान् कुपितो यैः प्रकाशं जहास सः
kaliṅgarājañcādāya visphurantaṃ balāda balaḥ |
vabhañca dantān kupito yaiḥ prakāśaṃ jahāsa saḥ
आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान येऽन्ये तत्पक्षा बूभृतः कुपितो बलात
ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ |
jaghāna ye'nye tatpakṣā būbhṛtaḥ kupito balāta
ततो हाहाकृतं सर्व्वं पलायनपरं द्रिज तद्राजमणडलं भीतं बभूव कुपिते बले
tato hāhākṛtaṃ sarvvaṃ palāyanaparaṃ drija tadrājamaṇaḍalaṃ bhītaṃ babhūva kupite bale
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणी-बलयोर्भयात्
ततोऽनिरुद्धमादाय कृतोद्राहं द्रिजोत्तम द्रारकामाजगामाथ यदुचक्र द्रिजोत्तम
balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ |
novāca kiñcinmaitreya rukmiṇī-balayorbhayāt
tato'niruddhamādāya kṛtodrāhaṃ drijottama drārakāmājagāmātha yaducakra drijottama
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)