भीष्मकः कुणिडने राजा विदर्भविषयेऽभवत् ।
रूकमी तस्याभवत् पुत्रो रुविमणी च वराङ्गन
bhīṣmakaḥ kuṇiḍane rājā vidarbhaviṣaye'bhavat |
rūkamī tasyābhavat putro ruvimaṇī ca varāṅgana
15 श्लोक · 26 में से 38
विदर्भ के कुण्डिनपुर में भीष्मक राज करते हैं; उनकी सन्तानें रुक्मी और सुन्दरी रुक्मिणी हैं। कृष्ण और रुक्मिणी परस्पर प्रेम करते हैं, पर रुक्मी कृष्ण से द्वेष रखता है, और जरासन्ध के कहने पर रुक्मिणी का सम्बन्ध शिशुपाल से तय होता है। विवाह के लिए राजा कुण्डिनपुर पहुँचते हैं, और कृष्ण भी बलराम और यादवों के साथ आते हैं। विवाह से पहले ही हरि कन्या को हर ले जाते हैं। पौण्ड्रक, दन्तवक्र, शिशुपाल, जरासन्ध, शाल्व आदि आक्रमण करते हैं और हारते हैं। रुक्मी प्रतिज्ञा करता है कि केशव को मारे बिना कुण्डिन नहीं लौटूँगा; कृष्ण उसे हराकर गिरा देते हैं, पर रुक्मिणी के इकलौते भाई की भिक्षा माँगने पर छोड़ देते हैं। रुक्मी भोजकट बसाता है। कृष्ण राक्षस विधि से रुक्मिणी से विवाह करते हैं और प्रद्युम्न जन्म लेते हैं।
भीष्मकः कुणिडने राजा विदर्भविषयेऽभवत् ।
रूकमी तस्याभवत् पुत्रो रुविमणी च वराङ्गन
bhīṣmakaḥ kuṇiḍane rājā vidarbhaviṣaye'bhavat |
rūkamī tasyābhavat putro ruvimaṇī ca varāṅgana
रुक्मिणी चकमे कृष्णः सा च तं चारुहासिनी ।
नि ददौ याचते चैनां रुक्मी द्रेषेण चक्रिणो
rukmiṇī cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī |
ni dadau yācate caināṃ rukmī dreṣeṇa cakriṇo
ददौ च शिशुपालाय जरासन्धप्रदेशितः ।
भीष्मको रुक्मिणा सार्द्ध रुक्मिणीमुरुविक्रमः
dadau ca śiśupālāya jarāsandhapradeśitaḥ |
bhīṣmako rukmiṇā sārddha rukmiṇīmuruvikramaḥ
विवाहार्थं ततः सर्व्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः
vivāhārthaṃ tataḥ sarvve jarāsandhamukhā nṛpāḥ |
bhīṣmakasya puraṃ jagmuḥ śiśupālapriyaiṣiṇaḥ
कृष्णोऽपि बलभद्राद्यर्यादवैर्बहुभिर्वृतः ।
प्रययौ कुण्दिनं द्रष्टुं विवाहञ्चैव भूभृतः
kṛṣṇo'pi balabhadrādyaryādavairbahubhirvṛtaḥ |
prayayau kuṇdinaṃ draṣṭuṃ vivāhañcaiva bhūbhṛtaḥ
शोभाविनि विवाहे तु तां कन्यां ह्टतवान् हरिः ।
विपक्षभारमासज्य रामाद्य ष्वथ बन्धुषु
śobhāvini vivāhe tu tāṃ kanyāṃ hṭatavān hariḥ |
vipakṣabhāramāsajya rāmādya ṣvatha bandhuṣu
ततश्व पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः ।
शिशुपाल-जरासन्ध-शाल्वाद्याश्व महीभृतः
tataśva pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ |
śiśupāla-jarāsandha-śālvādyāśva mahībhṛtaḥ
कुपितास्ते हरिं हन्तुं चक्रु रुदूयोगमुत्तमम् ।
निर्ज्जिताश्व समागम्य रामाद्यर्यदुपुङ्गवैः
kupitāste hariṃ hantuṃ cakru rudūyogamuttamam |
nirjjitāśva samāgamya rāmādyaryadupuṅgavaiḥ
कुणिडनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुकमी च हन्तुं कृष्णमभिद्रुतः
kuṇiḍanaṃ na pravekṣyāmi ahatvā yudhi keśavam |
kṛtvā pratijñāṃ rukamī ca hantuṃ kṛṣṇamabhidrutaḥ
हत्वा बलं सनागाश्व-पत्ति-स्यन्दनसङ्कुलम् ।
निर्जितः पातितश्वोर्व्व्यां लीलयैव स चकिणा
hatvā balaṃ sanāgāśva-patti-syandanasaṅkulam |
nirjitaḥ pātitaśvorvvyāṃ līlayaiva sa cakiṇā
हन्तु कृतमतिः कृष्णो रुक्मिणां युद्धदुर्म्मदम् ।
प्रणम्य याचितो ब्रह्मन् रुविमण्या मगवान हरिः
hantu kṛtamatiḥ kṛṣṇo rukmiṇāṃ yuddhadurmmadam |
praṇamya yācito brahman ruvimaṇyā magavāna hariḥ
एक एव मम भ्राता न हन्तव्यस्त्वयाधुना ।
कोपं नियम्य देवेश भ्रातृभिक्षा प्रदीयताम्
eka eva mama bhrātā na hantavyastvayādhunā |
kopaṃ niyamya deveśa bhrātṛbhikṣā pradīyatām
इत्युक्तेन परित्यक्तः कृष्णेनाक्लिष्टकर्म्मणा ।
रुक्मी भोजकटं नाम पुरं कुत्वावसत् तदा
ityuktena parityaktaḥ kṛṣṇenākliṣṭakarmmaṇā |
rukmī bhojakaṭaṃ nāma puraṃ kutvāvasat tadā
निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् ।
राक्षसेन विवाहेन सम्प्रप्तां मधुसूदनः
nirjitya rukmiṇaṃ samyagupayeme sa rukmiṇīm |
rākṣasena vivāhena sampraptāṃ madhusūdanaḥ
तस्यां जज्ञ ऽथ प्रद्युम्रो मदनांश- स वीर्य्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम्
tasyāṃ jajña 'tha pradyumro madanāṃśa- sa vīryyavān |
jahāra śambaro yaṃ vai yo jaghāna ca śambaram
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)