इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः
itthaṃstutastadā tena mucukundena dhīmatā |
prāheśaḥ sarvabhūtānāmanādinidhano hariḥ
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः ॥
21 श्लोक · 24 में से 38
मुचुकुन्द की स्तुति से प्रसन्न हरि उन्हें इच्छित दिव्य लोक, फिर पूर्वजन्म की स्मृति के साथ उत्तम कुल में जन्म और अन्त में मोक्ष का वर देते हैं। गुफा से निकलकर मुचुकुन्द मनुष्यों को छोटा देखकर समझते हैं कि कलियुग आ गया, और तप के लिए नर-नारायण के स्थान गन्धमादन चले जाते हैं। कृष्ण कालयवन के हाथी, घोड़े और रथ लेकर द्वारका में उग्रसेन को सौंप देते हैं। स्वजनों की याद में बलराम नन्द के व्रज जाते हैं जहाँ सब प्रेम से मिलते हैं। गोपियाँ प्रेम-भरे रोष से उन कृष्ण के बारे में पूछती हैं जो नगर के होकर उन्हें भूल गए, जबकि उन्होंने उनके लिए माता-पिता, भाई और पति तक त्याग दिए। बलराम कृष्ण के मधुर सन्देशों से उन्हें धीरज देते हैं और उनके बीच रहते हैं।
श्रीपराशर उवाच
इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः
itthaṃstutastadā tena mucukundena dhīmatā |
prāheśaḥ sarvabhūtānāmanādinidhano hariḥ
श्रीभगवानुवाच
यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः
yathābhivāñchitāndivyāngacchalokānnarādhipa |
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ
भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि
bhuktvā divyanmahā bhogānbhaviṣyasi mahākule |
jātismaro matprasādāttatomokṣamavāpsyasi
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान्
ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ |
guhāmukhādviniṣkrāntataḥsa dadarśālpakānnarān
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम्
tataḥ kaliyugaṃ matvā prāptaṃ taptuṃ nṛpastapaḥ |
naranārāyaṇasthānaṃ prayayau gandhamādanam
कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम्
kṛṣṇopi ghātayitvārimupāyena hi tadvalam |
jagrāha mathurāmetya hastyaśvasyandanojjvalam
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम्
ānīya cograsenāya dvāravatvāṃ nyavedayat |
parābhibhavaniḥ śaṅkaṃ babhūva ca yadoḥ kulam
बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्
baladevo'pi maitreya praśāntākhilavigrahaḥ |
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam
ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम्
tato gopāśca gopyaśca yathā pūrvamamitrajit |
tathaivābhyavadatpramṇā bahumānapuraḥsaram
स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा
sa kaiścitsaṃpariṣvaktaḥ kāṃścicca pariṣasvaje |
hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः
priyāṇyanekānyavadan gopāstatra halāyudham |
gopyaśca premakupitāḥ procuḥserṣyamathāparāḥ
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः
gopyaḥ papracchuraparā nāgarījanavallabham |
kaccidāste sukhaṃ kṛṣṇaścalapremalavātmakaḥ
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमान मधिकं करोति क्षणसौहृदः
asmacceṣṭāmapahasanna kaccitpurayoṣitām |
saubhāgyamāna madhikaṃ karoti kṣaṇasauhṛdaḥ
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति
kaccitsmarati naḥ kṛṣṇo gītānugamanaṃ kalam |
apyasau mātaraṃ draṣṭu sakṛdapyāgamiṣyati
अथ वा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर्विना तेन विनास्माकं भविष्यति
atha vā kiṃ tadālāpaiḥ kriyantāmaparāḥ kathāḥ |
yasyāsmabhirvinā tena vināsmākaṃ bhaviṣyati
पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।
संत्यक्तस्तत्कृतेस्माभिरकृतज्ञध्वजो हि सः
pitā mātā tathā bhrātā bhartā bandhujanaśca kim |
saṃtyaktastatkṛtesmābhirakṛtajñadhvajo hi saḥ
तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम्
tathāpi kaccidālāpamihāgamanasaṃśrayam |
karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः
dāmodaro'sau govindaḥ purastrīsaktamānasaḥ |
apetaprītirasmāsu durdarśaḥ pratibhāti naḥ
आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।
जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः
āmantritaśca kṛṣṇeti punardāmodareti ca |
jahasuḥsasvaraṃ gopyo hariṇā hṛtacetasaḥ
संदेशैः साममधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः
saṃdeśaiḥ sāmamadhuraiḥ premagarbhairagarvitaiḥ |
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ
गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर्व्रजभूमिषु
gopaiśca pūrvavadrāmaḥ parihāsamanoharāḥ |
kathāścakāra reme ca saha tairvrajabhūmiṣu
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)