चतुर्थ अंश

अध्याय 8: आयु के पुत्र, धन्वन्तरि और काशी के राजा

इति श्रीविष्णुमाहापुराणे चतुर्थांशे अष्टमोऽध्यायः ॥

21 श्लोक · 8 में से 24

इस अध्याय में क्या होता है

आयु के पुत्र, धन्वन्तरि और काशी के राजा

पुरूरवा के ज्येष्ठ पुत्र आयु राहु की पुत्री से विवाह करते हैं, और उनके पाँच पुत्र होते हैं: नहुष, क्षत्रवृद्ध, रम्भ, रजि और अनेना। क्षत्रवृद्ध से सुहोत्र होते हैं, जिनके पुत्र काश्य, काश और गृत्समद हैं; गृत्समद के पुत्र शौनक चारों वर्णों की व्यवस्था चलाते हैं। काशी वंश में दीर्घतपा के पुत्र धन्वन्तरि हैं, जिन्हें भगवान नारायण ने पूर्वजन्म में वचन दिया था कि वे काशीराज के कुल में जन्म लेकर आयुर्वेद को आठ अंगों में बाँटेंगे और यज्ञभाग पाएँगे। उनका वंश दिवोदास और प्रतर्दन तक जाता है, जो शत्रुजित, वत्स, ऋतध्वज और कुवलयाश्व कहलाए। उनके पुत्र अलर्क का श्लोक कहता है कि छियासठ हज़ार वर्ष युवा रहकर धरती भोगने वाला दूसरा राजा नहीं हुआ। फिर पराशर रजि के वंश की ओर मुड़ते हैं।

श्रीपराशर उवाच

8.1

पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे

purūravaso jyeṣṭhaḥ putro yastvāyurnāmā sa rāhorduhitaramupayeme

8.2

तस्यां च पञ्च पुत्रान् उत्पादयामास

tasyāṃ ca pañca putrān utpādayāmāsa

8.3

नहुष-क्षत्रवृद्ध-रम्भ-रजिसंज्ञाः तथैव अनेनाः पञ्चमः पुत्रोऽभूत्

nahuṣa-kṣatravṛddha-rambha-rajisaṃjñāḥ tathaiva anenāḥ pañcamaḥ putro'bhūt

8.4

क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत्

kṣatravṛddhātsuhotraḥ putro'bhavat

8.5

काश्य-काश-गृत्समदाः त्रयस्तस्य पुत्रा बभूवुः

kāśya-kāśa-gṛtsamadāḥ trayastasya putrā babhūvuḥ

8.6

गृत्समदस्य शौनकः चातुर्वर्ण्यप्रवर्तयिताऽभूत्

gṛtsamadasya śaunakaḥ cāturvarṇyapravartayitā'bhūt

8.7

काश्यस्य काशेयः काशिराजः, तस्मात् राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत्

kāśyasya kāśeyaḥ kāśirājaḥ, tasmāt rāṣṭraḥ, rāṣṭrasya dīrghatapāḥ putro'bhavat

8.8

धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत्

dhanvantaristu dīrghatapasaḥ putro'bhavat

8.9

स हि संसिद्ध-कार्य-करणः सकलसम्भूतिषु अशेषज्ञानविद् भगवता नारायणेन च अतीतसम्भूतौ तस्मै वरो दत्तः

sa hi saṃsiddha-kārya-karaṇaḥ sakalasambhūtiṣu aśeṣajñānavid bhagavatā nārāyaṇena ca atītasambhūtau tasmai varo dattaḥ

8.10

“काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसि” इति

“kāśīrājagotre'vatīrya tvamaṣṭadhā samyagāyurvedaṃ kariṣyasi yajñabhāgabhugbhaviṣyasi” iti

8.11

तस्य च धन्वन्तरेः पुत्रः केतुमान्, केतुमतो भीमरथः, तस्यापि दिवोदासः, तस्यापि प्रतर्दनः

tasya ca dhanvantareḥ putraḥ ketumān, ketumato bhīmarathaḥ, tasyāpi divodāsaḥ, tasyāpi pratardanaḥ

8.12

स च मद्रश्रेण्य-वंश-विनाशनात् अशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत्

sa ca madraśreṇya-vaṃśa-vināśanāt aśeṣaśatravo'nena jitā iti śatrujidabhavat

8.13

तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत्

tena ca prītimatātmaputro vatsavatsetyabhihito vatso'bhavat

8.14

सत्यपरतया ऋतध्वजसंज्ञामवाप

satyaparatayā ṛtadhvajasaṃjñāmavāpa

8.15

ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः

tataśca kuvalayanāmānamaśvaṃ lebhe tataḥ kuvalayāśva ityasyāṃ pṛthivyāṃ prathitaḥ

8.16

तस्य च वत्सस्य पुत्रोऽलर्कनामाभवत् यस्यायमद्यापि श्लोको गीयते

tasya ca vatsasya putro'larkanāmābhavat yasyāyamadyāpi śloko gīyate

8.17

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca |
alarkādaparo nānyo bubhuje medinīṃ yuvā

8.18

तस्याप्यलर्कस्य सन्नतिनामाऽभवदात्मजः

tasyāpyalarkasya sannatināmā'bhavadātmajaḥ

8.19

सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे

sannateḥ sunīthastasyāpi suketustasmācca dharmaketurjajñe

8.20

ततश्च सत्यकेतुस्तस्माद्विभुस्तत्तनयस्सुविभुस्ततश्च सुकुमारस्तस्यापि दृष्टकेतुस्ततश्च वीतिहोत्रस्तस्माद्भार्गो भार्गस्य भार्गभूमिस्ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः

tataśca satyaketustasmādvibhustattanayassuvibhustataśca sukumārastasyāpi dṛṣṭaketustataśca vītihotrastasmādbhārgo bhārgasya bhārgabhūmistataścāturvarṇyapravṛttirityete kāśyapabhūbhṛtaḥ kathitāḥ

8.21

रजेस्तु सन्ततिः श्रूयताम्

rajestu santatiḥ śrūyatām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)