तृतीय अंश

अध्याय 9: चार आश्रम, ब्रह्मचारी से संन्यासी तक

इति श्रीविष्णुमहापुराणे तृतीयांशो नवमोऽध्यायः ॥

33 श्लोक · 9 में से 18

इस अध्याय में क्या होता है

चार आश्रम, ब्रह्मचारी से संन्यासी तक

और्व चार आश्रम बताते हैं। उपनयन के बाद बालक गुरु के घर रहता है, दोनों सन्ध्याओं में सूर्य और अग्नि की उपासना करता है, उनकी आज्ञा से भिक्षा का अन्न खाता है और वेद पढ़ता है। फिर गुरु की अनुमति से विवाह कर गृहस्थ बनता है। गृहस्थ पितरों का श्राद्ध से, देवों का यज्ञ से, अतिथियों का अन्न से, ऋषियों का स्वाध्याय से और प्रजापति का सन्तान से पूजन करता है। भिक्षा माँगने वाले उसी पर टिके हैं, इसलिए गृहस्थाश्रम श्रेष्ठ है। निराश लौटा अतिथि गृहस्थ का पुण्य ले जाता है और अपना पाप छोड़ जाता है। बुढ़ापे में वह पत्नी सहित या अकेला वन जाता है, पत्ते और कन्द खाता है। अन्त में संन्यासी, आसक्ति से मुक्त, सब प्राणियों को अभय देता, ब्रह्मलोक पाता है।

और्व उवाच

9.1

बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः

bālaḥ kṛtopanayano vedāharaṇatatparaḥ |
gurugehe vasedbhūpa brahmacārī samāhitaḥ

9.2

शौचा चारव्रतं तत्र कार्य्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना

śaucā cāravrataṃ tatra kāryyaṃ śuśrūṣaṇaṃ guroḥ |
vratāni caratā grāhyo vedaśca kṛtabuddhinā

9.3

उभे संध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तदा कुर्य्याद्गुरोरप्यभिवादनम्

ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ |
upatiṣṭhettadā kuryyādgurorapyabhivādanam

9.4

स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति ।
शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत्

sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati |
śiṣyo gurornṛpaśreṣṭha pratikūlaṃ na saṃcaret

9.5

तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्स्थितः ।
अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः

tenaivoktaṃ paṭhedvedaṃ nānyacittaḥ purassthitaḥ |
anujñātaśca bhikṣānnamaśnīyādguruṇā tataḥ

9.6

अवगाहेदपः पूर्वमाचार्य्येणावगाहितः ।
समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत्

avagāhedapaḥ pūrvamācāryyeṇāvagāhitaḥ |
samijjalādikaṃ cāsya kālyaṃ kālyamupānayet

9.7

गृहीतग्राह्यवेदश्च ततोनुज्ञामवाप्य च ।
गार्हस्थ्यमाविश्त्प्रोआ ज्ञो निष्पन्नगुरुनिष्कृतिः

gṛhītagrāhyavedaśca tatonujñāmavāpya ca |
gārhasthyamāviśtproā jño niṣpannaguruniṣkṛtiḥ

9.8

विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल शक्तितः

vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā |
gṛhasthakāryyamakhilaṃ kuryyādbhūpāla śaktitaḥ

9.9

निवापेन पितॄनर्चन्यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम्

nivāpena pitṝnarcanyajñairdevāṃstathātithīn |
annairmunīṃśca svādhyāyairapatyena prajāpatim

9.10

भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान्

bhūtāni balibhiścaiva vātsalyenākhilaṃ jagat |
prāpnoti lokānpuruṣo nijakarmasamārjitān

9.11

बिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः ।
तेप्यत्रैव प्रतिष्ठंते गार्हस्थ्यं तेन वै परम्

bikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ |
tepyatraiva pratiṣṭhaṃte gārhasthyaṃ tena vai param

9.12

वेदाहरणकार्य्याय तीर्थस्नानाय च प्रभो ।
अटंति वसुधां विप्राः पृथिवीदर्शनाय च

vedāharaṇakāryyāya tīrthasnānāya ca prabho |
aṭaṃti vasudhāṃ viprāḥ pṛthivīdarśanāya ca

9.13

अनिकेता ह्यनाहारा यत्र सायंगृहाश्च ये ।
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च

aniketā hyanāhārā yatra sāyaṃgṛhāśca ye |
teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca

9.14

तेषां स्वागतदानादिवक्तव्यं मधुरं नृप ।
गृहागतानां दद्याच्च शयनासनभोजनम्

teṣāṃ svāgatadānādivaktavyaṃ madhuraṃ nṛpa |
gṛhāgatānāṃ dadyācca śayanāsanabhojanam

9.15

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति

atithiryasya bhagnāśo gṛhātpratinivarttate |
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati

9.16

अवज्ञानमहंकारो दंभश्चैव गृह सतः ।
परितापोपघातौ च पारुष्यं च न शस्यते

avajñānamahaṃkāro daṃbhaścaiva gṛha sataḥ |
paritāpopaghātau ca pāruṣyaṃ ca na śasyate

9.17

यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबंधविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान्

yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim |
sarvabaṃdhavinirmukto lokānāpnotyanuttamān

9.18

वयःपरिणतो राजन्कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा

vayaḥpariṇato rājankṛtakṛtyo gṛhāśramī |
putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā

9.19

पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत्तत्र मुनिस्सर्वातिथिर्नृप

parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ |
bhūmiśāyī bhavettatra munissarvātithirnṛpa

9.20

चर्मकाशकुशैः कुर्य्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर

carmakāśakuśaiḥ kuryyātparidhānottarīyake |
tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara

9.21

देवताभ्यर्चनं होमस्सर्वाभ्यागतपूजनम् ।
भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर

devatābhyarcanaṃ homassarvābhyāgatapūjanam |
bhikṣābalipradānaṃ ca śastamasya nareśvara

9.22

वन्यस्नेहेन गात्राणामभ्यंगश्चास्य शस्यते ।
तपश्च तस्य राजेंद्र शीतोष्णादिसहिष्णुता

vanyasnehena gātrāṇāmabhyaṃgaścāsya śasyate |
tapaśca tasya rājeṃdra śītoṣṇādisahiṣṇutā

9.23

यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान्

yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ |
sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān

9.24

चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि

caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ |
tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi

9.25

पुत्रद्र व्यकलत्रेषु त्यक्तस्नेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः

putradra vyakalatreṣu tyaktasneho narādhipa |
caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ

9.26

त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते ।
मित्रादिषु समो मैत्रस्समस्तेष्वेव जंतुषु

traivargikāṃstyajetsarvānāraṃbhānavanīpate |
mitrādiṣu samo maitrassamasteṣveva jaṃtuṣu

9.27

जरायुजांडजादीनां वाड्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रो हं सर्वसंगांश्च वर्जयेत्

jarāyujāṃḍajādīnāṃ vāḍmanaḥkāyakarmabhiḥ |
yuktaḥ kurvīta na dro haṃ sarvasaṃgāṃśca varjayet

9.28

एकारात्रस्थितिर्ग्रामे पंचरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते

ekārātrasthitirgrāme paṃcarātrasthitiḥ pure |
tathā tiṣṭhedyathāprītirdveṣo vā nāsya jāyate

9.29

प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान्

prāṇayātrānimittaṃ ca vyaṃgāre bhuktavajjane |
kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān

9.30

कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान्परित्यज्य परिव्राण्निर्ममो भवेत्

kāmaḥ krodhastathā darpamohalobhādayaśca ye |
tāṃstu sarvānparityajya parivrāṇnirmamo bhavet

9.31

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित्

abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ |
tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit

9.32

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रजति स्म लोकान्

kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti |
viprastu bhaikṣyopahitairhavirbhiścitāgnikānāṃ vrajati sma lokān

9.33

मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुखं कल्पितबुद्धियुक्तः ।
अनिंधनं ज्योतिरिव प्रशांतस्स ब्रह्मलोकं श्रयते द्विजातिः

mokṣāśramaṃ yaścarate yathoktaṃ śucissukhaṃ kalpitabuddhiyuktaḥ |
aniṃdhanaṃ jyotiriva praśāṃtassa brahmalokaṃ śrayate dvijātiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)