कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा ।
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम
kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā |
puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama
इति श्रीविष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः ॥
26 श्लोक · 10 में से 18
और्व जन्म से आरम्भ करते हैं: पिता जातकर्म और नान्दीमुख पितरों का आनन्दमय श्राद्ध करता है। दसवें दिन वह नाम रखता है; ब्राह्मण के नाम में शर्मा, क्षत्रिय में वर्मा, वैश्य और शूद्र में गुप्त या दास; नाम मंगलमय और सरल हो। विद्या पूरी कर गुरुदक्षिणा देने के बाद युवक विवाह करे, या संकल्प के अनुसार आजीवन ब्रह्मचारी, वानप्रस्थ या परिव्राजक बने। और्व विस्तार से बताते हैं कि कैसी कन्या से विवाह न करें, और कहते हैं कि माता की ओर से पाँचवीं और पिता की ओर से सातवीं पीढ़ी के बाद की कन्या लें। वे आठ प्रकार के विवाह गिनाते हैं, ब्राह्म से पैशाच तक, जो अपने अपने वर्ण के लिए उचित हैं।
सगर उवाच
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा ।
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम
kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā |
puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama
नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः ।
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः
nityanaimittikāḥ kāmyāḥ kriyāḥ puṃsāmaśeṣataḥ |
samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ
और्व उवाच
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् ।
तदहं कथयिष्यामि शृणुष्वैकमना मम
yadetaduktaṃ bhavatā nityanaimittikāśrayam |
tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā mama
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्
jātasya jātakarmādikriyākāṇḍamaśeṣataḥ |
putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam
युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुजेश्वर ।
यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम्
yugmāṃstu prāḍmukhānviprānbhojayenmanujeśvara |
yathā tṛptistathā kuryāddaivaṃ pitryaṃ dvijanmanām
दध्ना युक्तैः सबदरैर्मिश्रान् पिण्डान्मुदा युतः ।
नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव
dadhnā yuktaiḥ sabadarairmiśrān piṇḍānmudā yutaḥ |
nāndīmukhebhyastīrthena dadyāddaivena pārthiva
प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् ।
कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते
prājāpatyena vā sarvamupacāraṃ pradakṣiṇam |
kurvīta tattathāśeṣavṛddhikāleṣu bhūpate
ततश्च नाम कुर्वीत पितैव दशमेहनि ।
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्
tataśca nāma kurvīta pitaiva daśamehani |
devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam
शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः
śarmeti brāhyaṇasyoktaṃ varmeti kṣatrasaṃśrayam |
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ।
नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम्
nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā |
nāmaṅgalyaṃ jugupsākaṃ nāma kuryātsamākṣaram
नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् ।
सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम्
nātidīrghaṃnātihrasvaṃ nātigurvakṣarānvitam |
sukhoccāryaṃ tu tannāma kuryādyatpraṇavākṣaram
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि ।
यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम्
tato'nantarasaṃskārasaṃskṛto guruveśmani |
yathoktavidhimāśritya kuryādvidyāparigraham
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् ।
गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम्
gṛhītavidyo gurave dattvā ca gurudakṣiṇām |
gārhasthyamicchanbhūpāla kuryāddāraparigraham
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् ।
गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा
brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam |
gugoḥ śuśruṣaṇaṃ kuryāttatputrāderathāpi vā
वैखानसो वापि भवेत्परिव्राडथ वेच्छया ।
पूर्वसंकल्पितं यादृक्तादृक्कुर्यान्नराधिप
vaikhānaso vāpi bhavetparivrāḍatha vecchayā |
pūrvasaṃkalpitaṃ yādṛktādṛkkuryānnarādhipa
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् ।
नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम्
varṣairekaguṇāṃ bhāryāmudvahettrigumaḥsvayam |
nāti keśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām
निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् ।
नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम्
nisargatodhikāṅgāṃ vā nyūnāṅgāmapi nodvahet |
nāviśuddhāṃ saromāṃ vākulajāṃ vāpi rogiṇīm
न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः ।
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम्
na duṣṭāṃ duṣṭavākyāṃ vā vyaṅginīṃ putṛmātṛtaḥ |
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim
न घर्वरस्वरां क्षामां तथा काकस्वरां न च ।
नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः
na gharvarasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca |
nānibandhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ
यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ ।
गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत्
yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau |
gaṇḍayoḥ kūparau yasyā hasaṃtyāstāṃ na codvahet
नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् ।
आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः
nātirūkṣacchaviṃ pāḍukarajāmaruṇekṣaṇām |
āpīna hastapādāṃ ca nakanyāmudvahedbudhaḥ
न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् ।
न चाति च्छिद्रदशनां न करालमुखीं नरः
na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam |
na cāti cchidradaśanāṃ na karālamukhīṃ naraḥ
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप
pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm |
gṛhasthaścodvahetkanyāṃ nyāyena vidhinā nṛpa
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ |
gāndharvarākṣayau cānyau paiśācaścāṣṭamo mataḥ
एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः ।
कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत्
eteṣāṃ yasya yo dharmo varmasyokto maharṣibhiḥ |
kurvīta dāragrahaṇaṃ tenānyaṃ parivarjayet
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।
समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम्
sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā |
samudvaheddadātyetatsamyagūḍhaṃ mahāphalam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)