तृतीय अंश

अध्याय 8: और्व सगर को विष्णु की आराधना सिखाते हैं

इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः ॥

41 श्लोक · 8 में से 18

इस अध्याय में क्या होता है

और्व सगर को विष्णु की आराधना सिखाते हैं

आराधना का प्रश्न सुनकर पराशर वह सुनाते हैं जो भृगुवंशी और्व ने राजा सगर से कहा था। पृथ्वी के मनोरथ, स्वर्ग या निर्वाण, जो भी चाहे, आराधित अच्युत देते हैं। उनकी आराधना का मार्ग अपने वर्ण और आश्रम के धर्म का पालन है, दूसरा नहीं। दूसरों को सताने वाला उन्हीं को सताता है, क्योंकि हरि सब प्राणियों में हैं। जो निन्दा और झूठ नहीं बोलता, पराई स्त्री और धन नहीं चाहता, किसी प्राणी को नहीं मारता और सबका हित अपने पुत्र की तरह चाहता है, उससे केशव प्रसन्न होते हैं। फिर और्व वर्णधर्म बताते हैं: अध्ययन, यज्ञ और दान द्विजों के लिए, अध्यापन ब्राह्मण का, रक्षा राजा की, व्यापार और पशुपालन वैश्य का, सेवा शूद्र की। दया, क्षमा और सत्य सबके सामान्य गुण हैं।

मैत्रेय उवाच

8.1

भगवन्भगवान्देवः संसारविजिगीषुभिः ।
समाख्याहि जगन्नाथो विष्णुराराध्यते यथा

bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ |
samākhyāhi jagannātho viṣṇurārādhyate yathā

8.2

आराधिताच्च गोविन्दादाराधनपरैर्नरैः ।
यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने

ārādhitācca govindādārādhanaparairnaraiḥ |
yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune

श्रीपराशर उवाच

8.3

यत्पृच्छति भवानेतत्सगरेण महात्मना ।
और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु

yatpṛcchati bhavānetatsagareṇa mahātmanā |
aurvaḥ prāha yathā pṛṣṭastanme nigadataḥ śṛṇu

8.4

सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् ।
विष्णोराराधनोपायसंबन्धं मुनिसत्तम

sagaraḥ praṇipattyainamaurvaṃ papracchabhārgavam |
viṣṇorārādhanopāyasaṃbandhaṃ munisattama

8.5

फलं चाराधिते विष्णो यत्पुंसामभिजायते ।
स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु

phalaṃ cārādhite viṣṇo yatpuṃsāmabhijāyate |
sa cāha pṛṣṭo yatnena tasmai tanmekhilaṃ śṛṇu

और्व उवाच

8.6

भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् ।
प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम्

bhaumaṃ manorathaṃ svargaṃ svarge ramyaṃ ca yatpadam |
prāpnotyārādhite viṣṇau nirvāṇamapi cottamam

8.7

यद्यदिच्छति यावच्च फलमाराधितेऽच्युते ।
तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा

yadyadicchati yāvacca phalamārādhite'cyute |
tattadāpnoti rājendra bhūri svalpamathāpi vā

8.8

यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः ।
तदहं सकलं तुभ्यं कथयामि निबोध मे

yattu pṛcchasi bhūpāla kathāmārādhyate hariḥ |
tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me

8.9

वर्णाश्रमाचारवता पुरुषेणपरः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः

varṇāśramācāravatā puruṣeṇaparaḥ pumān |
viṣṇurārādhyate panthā nānyastattoṣakārakaḥ

8.10

यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप ।
निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः

yajanyajñānyajatyenaṃ japantyenaṃ japannṛpa |
nighnannanyānhinastyenaṃ sarvabhūto yato hariḥ

8.11

तस्मात्सदाचारवता पुरुषेण जनार्दनः ।
आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा

tasmātsadācāravatā puruṣeṇa janārdanaḥ |
ārādhyastu svavarṇoktadharmānuṣṭhānakārimā

8.12

ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुमाराधयति नान्यथा

brāhmaṇaḥ kṣatriyo vaiśyaḥ śudraśca pṛthivīpate |
svadharmatatparo viṣṇumārādhayati nānyathā

8.13

परापवादं पैशुन्यमनृतं च न भाषते ।
अन्योद्वेगकरं वापि तोष्यते तेनकेशवः

parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate |
anyodvegakaraṃ vāpi toṣyate tenakeśavaḥ

8.14

परदारपरद्रव्यपरहिंसासु यो रतिम् ।
न करोति पुमान्भूप तोष्यते तेन केशवः

paradāraparadravyaparahiṃsāsu yo ratim |
na karoti pumānbhūpa toṣyate tena keśavaḥ

8.15

न ताडयति नो हन्ति प्राणिनो न च हिंसकः ।
यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः

na tāḍayati no hanti prāṇino na ca hiṃsakaḥ |
yo manuṣyo manuṣyendra toṣyate tena keśavaḥ

8.16

देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः ।
तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर

devādvijagurūṇāṃ ca śuśrūṣāsu sadodyataḥ |
toṣyate tena govindaḥ puruṣeṇanareśvara

8.17

यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा ।
हितकामो हरिस्तेन सर्वदा तोष्यते सुखम्

yathātmani ca putre ca sarvabhūteṣu yattathā |
hitakāmo haristena sarvadā toṣyate sukham

8.18

यस्य रागादिदोषेण न दुष्टं नृप मानसम् ।
विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा

yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam |
viśuddhacetasā viṣṇustoṣyate tena sarvadā

8.19

वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।
तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम्

varṇāśrameṣu ye dharmāḥ śāstroktā munisattama |
teṣu tiṣṭhannaro viṣṇumāduṣṭaṃ nṛpa mānasam

सगर उवाच

8.20

तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः ।
तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान्

tadahaṃ śrotumicchami varṇadharmānaśeṣataḥ |
tathaivāśramadharmaṃśca dvijavarya bravīhi tān

और्व उवाच

8.21

ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् ।
त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान्

brāhmaṇakṣatriyaviśāṃ śudrāṇāṃ ca yathākamam |
tvamekāgramatirbhūtvā śṛṇu dharmānmayoditān

8.22

दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः ।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम्

dānaṃ dadyādyajeddevān yajñiḥ svādhyāyatatparaḥ |
nityodakī bhavedvipraḥ kuryāccāgniparigraham

8.23

वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।
कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः

vṛttyarthaṃ yājayeccānyānanyānadhyāpayettathā |
kuryātpratigrahādānaṃśuklārthānnyāyato dvijaḥ

8.24

सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः ।
मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम्

sarvabhūtahitaṃ kuryānnāhitaṃ kasyāciddvijaḥ |
maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam

8.25

ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः ।
ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव

grāvṇiratne ca pārakye samabuddhirbhaveddvijaḥ |
ṛtāvabhigamaḥ patnyāṃ śastate cāsya pārthiva

8.26

दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा ।
यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः

dānāni dadyādicchāto dvijebhyaḥ kṣatriyopi vā |
yajecca vividhairyajñairadhīyīta ca pārthivaḥ

8.27

शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम्

śastrājīvo mahīrakṣā pravarā tasya jīvikā |
tatrāpi prathamaḥ kalpaḥ pṛthivīparipāranam

8.28

धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम्

dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ |
bhavanti tṛpateraṃśā yato yajñādikarmaṇām

8.29

दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः

duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt |
prāpnotyabhimatāṃllokānvarṇasaṃsthāṃ karoti yaḥ

8.30

पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः

pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ ca manujeśvara |
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ

8.31

तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम्

tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate |
nityanaimittikādīnāmanuṣṭhānaṃ ca karmaṇām

8.32

द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् ।
क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा

dvijātisaṃśritaṃ karma tādarthyaṃ tena poṣaṇam |
krayavikrayajairvāpi dhanaiḥ kārūdbhavena vā

8.33

शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम्

śudrasya sannatiḥ śaucaṃ sevā svāminyamāyayā |
amantrayajño hyasteyaṃ tatsaṃgo viprarakṣaṇam

8.34

दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै

dānaṃ ca dadyācchūdropi pākayajñairyajeta ca |
pitryādikaṃ ca tatsarvaṃ śudraḥ kurvīta tena vai

8.35

भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः ।
ऋतुकालेभिगमनं स्वदारेषु महीपते

bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ |
ṛtukālebhigamanaṃ svadāreṣu mahīpate

8.36

दया समस्तभूतेषु तितिक्षा नातिमानिता ।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता

dayā samastabhūteṣu titikṣā nātimānitā |
satyaṃ śaucamanāyāso maṅgalaṃ priyavāditā

8.37

मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर ।
अनुसूया च सामान्यवर्णानां कथिता गुणाः

maitryaspṛhā tathā tadvadakārpaṇyaṃnareśvara |
anusūyā ca sāmānyavarṇānāṃ kathitā guṇāḥ

8.38

आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु

āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ |
guṇāṃstathāvaddharmāṃśca viprādīnāmimāñchṛṇu

8.39

क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः

kṣāttraṃ karma dvijasyoktaṃ vaiśyaṃ karma tathā padi |
rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ

8.40

सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।
तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम्

sāmarthye sati tattyājyamubhābhyāmapi pārthiva |
tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram

8.41

इत्येते कथिता राजन्वर्णधर्मा मया तव ।
धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय

ityete kathitā rājanvarṇadharmā mayā tava |
dharmānāśramiṇāṃ samyagbruvato me niśāmaya

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)