हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च ।
सौकरच्छागलैणेयरौरवैर्गवयेन च
haviṣyamatsyamāṃsaistu śaśasya nakulasya ca |
saukaracchāgalaiṇeyarauravairgavayena ca
इति श्रीविष्णुमहापुराणे तृतीयांशे षोडशोऽध्यायः ॥
20 श्लोक · 16 में से 18
और्व बताते हैं कि कौन-से भोजन पितरों को तृप्त करते हैं। हविष्य अन्न, मछली, और खरगोश, सूअर, बकरे, हिरन, भेड़ का मांस हर प्रकार से एक एक मास अधिक तृप्ति देता है, और वाध्रीणस का मांस सदा के लिए; गैंडे का मांस, कालशाक और मधु सबसे अधिक तृप्ति देते हैं। जौ, मूँग, गेहूँ और तिल उचित हैं; मसूर, प्याज और ऊँटनी, भेड़ या भैंस का दूध नहीं। नपुंसक, पतित, पाखण्डी या कुत्ते की दृष्टि पड़ा अन्न पितर नहीं खाते, इसलिए श्राद्ध घेरे में किया जाए। श्रद्धा से नाम और गोत्र लेकर दिया अन्न उन्हें उनके वर्तमान आहार के रूप में मिलता है। पितरों ने इक्ष्वाकु से गाया था: हमारे कुल में कोई गया में पिण्ड दे।
और्व उवाच
हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च ।
सौकरच्छागलैणेयरौरवैर्गवयेन च
haviṣyamatsyamāṃsaistu śaśasya nakulasya ca |
saukaracchāgalaiṇeyarauravairgavayena ca
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः ।
प्रयान्ति तृप्तिं मांसैस्तु नित्यं वाध्रीणसामिषैः
aurabhragavyaiśca tathā māsavṛddhyā pitāmahāḥ |
prayānti tṛptiṃ māṃsaistu nityaṃ vādhrīṇasāmiṣaiḥ
खड्गमांसमतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर
khaḍgamāṃsamatīvātra kālaśākaṃ tathā madhu |
śastāni karmaṇyatyantatṛptidāni nareśvara
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतुष्टिदम्
gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate |
saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam
प्रशान्तिकास्सनीवाराः श्यामाका द्विविधास्तथा ।
वन्यौषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ
praśāntikāssanīvārāḥ śyāmākā dvividhāstathā |
vanyauṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।
निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः
yavāḥ priyaṅgavo mudgā godhūmā vrīhayastilāḥ |
niṣpāvāḥ kovidārāśca sarṣapāścātra śobhanāḥ
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।
राजमाषानणूंश्चैव मसूरांश्च विसर्जयेत्
akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara |
rājamāṣānaṇūṃścaiva masūrāṃśca visarjayet
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।
गान्धारककरम्बादिलवणान्यौषराणि च
alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam |
gāndhārakakarambādilavaṇānyauṣarāṇi ca
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते
āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca |
varjyānyetāni vai śrāddhe yacca vācā na śasyate
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।
दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव
naktāhṛtamanucchinnaṃ tṛpyate na ca yatra gauḥ |
durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च ।
मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि
kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca |
mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi
षण्ढापविद्धचाण्डालपापिपाषण्डिरोगिभिः ।
कृकवाकुश्वननग्नैश्च वानरग्रामसूकरैः
ṣaṇḍhāpaviddhacāṇḍālapāpipāṣaṇḍirogibhiḥ |
kṛkavākuśvananagnaiśca vānaragrāmasūkaraiḥ
उदक्यासूतकाशौचिमृतहारैश्च वीक्षिते ।
श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ
udakyāsūtakāśaucimṛtahāraiśca vīkṣite |
śrāddhe surā na pitaro bhuñjate puruṣarṣabha
तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।
उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत्
tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ |
urvyāṃ ca tilavikṣepādyātudhānānnivārayet
नखादिना चोपपन्नं केशकीटादिभिर्नृप ।
न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा
nakhādinā copapannaṃ keśakīṭādibhirnṛpa |
na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत्
śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ |
yadāhārāstu te jātāstadāhāratvameti tat
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।
इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा
śrūyate cāpi pitṛrbhigītā gāthā mahīpate |
ikṣvākormanuputrasya kalāpopavane purā
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।
गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात्
api naste bhaviṣyanti kule sanmārgaśīlinaḥ |
gayāmupetya ye piṇḍān dāsyantyasmākamādarāt
अपि नः स कुले जायाद्यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च
api naḥ sa kule jāyādyo no dadyāt trayodaśīm |
pāyasaṃ madhusarpirbhyāṃ varṣāsu ca maghāsu ca
गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् ।
यजेत वाश्वमेधेन विधिवद्दक्षिणावता
gaurīṃ vāpyudvahet kanyāṃ nīlaṃ vā vṛṣamutsṛjet |
yajeta vāśvamedhena vidhivaddakṣiṇāvatā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)