तृतीय अंश

अध्याय 14: श्राद्ध का समय और पितृगीता

इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशोऽध्यायः ॥

31 श्लोक · 14 में से 18

इस अध्याय में क्या होता है

श्राद्ध का समय और पितृगीता

श्रद्धा से श्राद्ध करने वाला देवताओं, पितरों और सब प्राणियों को तृप्त करता है। और्व समय बताते हैं: हर कृष्णपक्ष की अमावस्या, अष्टकाएँ, अयन, ग्रहण और नई फसल। सनत्कुमार ने ऐल से कहा था कि वैशाख शुक्ल तृतीया और कार्तिक शुक्ल नवमी आदि चार युगादि तिथियाँ अनन्त पुण्य देती हैं; तब तिल मिला जल भी सहस्र वर्ष के श्राद्ध के बराबर है। फिर वे पितरों के गाए श्लोक सुनाते हैं: धन्य है वह वंशज जो कंजूसी छोड़कर हमें पिण्ड दे, या अन्न, या थोड़े तिल। और कुछ न हो तो वन जाकर भुजाएँ उठाकर कहे, मेरे पास धन नहीं; मेरी भक्ति से मेरे पितर तृप्त हों।

और्व उवाच

14.1

ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून्

brahmendrarudranāsatyasūryāgnivasumārutān |
viśvedevānpitṛgaṇānvayāṃsi manujānpaśūn

14.2

सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् ,
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्

sarīsṛpānṛṣigaṇānyaccānyadbhūtasaṃjñitam ,
śrāddhaṃ śraddhānvitaḥ kurvanprīṇayatyakhilaṃ jagat

14.3

मासि मास्यसिते पक्षे पञ्चदश्यां नरेश्वर ।
तथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे

māsi māsyasite pakṣe pañcadaśyāṃ nareśvara |
tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me

14.4

श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् ।
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा

śrāddhārhamāgataṃ dravyaṃ viśiṣṭamatha vā dvijam |
śrāddhaṃ kurvīta vijñāya vyatīpāte'yane tathā

14.5

विषुवे चापि सम्प्राप्ते ग्रहणे शशिसूर्ययोः ।
समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति

viṣuve cāpi samprāpte grahaṇe śaśisūryayoḥ |
samasteṣveva bhūpāla rāśiṣvarke ca gacchati

14.6

नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा

nakṣatragrahapīḍāsu duṣṭasvapnāvalokane |
icchāśrāddhāni kurvīta navasasyāgame tathā

14.7

अमावास्या यदा मैत्रविशाखास्वातियोगिनी ।
श्राद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम्

amāvāsyā yadā maitraviśākhāsvātiyoginī |
śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm

14.8

अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः

amāvāsyā yadā puṣye raudre carkṣe punarvasau |
dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro'rcitāḥ

14.9

वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् ।
वारुणे वाप्यमावास्या देवानामपि दुर्लभा

vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatām |
vāruṇe vāpyamāvāsyā devānāmapi durlabhā

14.10

नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते ।
तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम्

navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate |
tadā hi tṛptidaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam

14.11

गीतं सनत्कुमारेण यथैलाय महात्मने ।
पृच्छते पितृभक्ताय प्रश्रयावनताय च

gītaṃ sanatkumāreṇa yathailāya mahātmane |
pṛcchate pitṛbhaktāya praśrayāvanatāya ca

श्रीसनत्कुमार उवाच

14.12

वैशाखमासस्य च या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे ।
नभस्य मासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे

vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe |
nabhasya māsasya ca kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe

14.13

एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथयश्चतस्रः ।
उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च

etā yugādyāḥ kathitāḥ purāṇeṣvanantapuṇyāstithayaścatasraḥ |
upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca

14.14

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति

pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ |
śrāddhaṃ kṛte tena samāsahasraṃ rahasyametatpitaro vadanti

14.15

माघेऽसिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालस्स परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेऽसौ

māghe'site pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena |
ṛkṣeṇa kālassa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate'sau

14.16

काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः

kāle dhaniṣṭhā yadi nāma tasminbhavettu bhūpāla tadā pitṛbhyaḥ |
dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ

14.17

तत्रैव चेद्भाद्रपदा नु पूर्वाः काले यथावत्क्रियते पितृभ्यः ।
श्राद्धं परां तृप्तिमुपेत्य तेन युगं सहस्रं पितरस्स्वपन्ति

tatraiva cedbhādrapadā nu pūrvāḥ kāle yathāvatkriyate pitṛbhyaḥ |
śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ sahasraṃ pitarassvapanti

14.18

गंगां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा ।
तत्रावगाह्यार्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति

gaṃgāṃ śatadrūṃ yamunāṃ vipāśāṃ sarasvatīṃ naimiśagomatīṃ vā |
tatrāvagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti

14.19

गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः ।
माघासितांते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः

gāyanti caitatpitaraḥ kadānu harṣādamī tṛptimavāpya bhūyaḥ |
māghāsitāṃte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ

14.20

चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च ।
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि

cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca |
pātraṃ yathoktaṃ paramā ca bhaktirnṛṇāṃ prayacchantyabhivāñchitāni

14.21

पितृगीतान्तथैवात्र श्लोकांस्ताञ्छृणु पार्थिव ।
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना

pitṛgītāntathaivātra ślokāṃstāñchṛṇu pārthiva |
śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā

14.22

अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति

api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ |
akurvanvittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati

14.23

रत्नं वस्त्रं महायानं सर्वभोगादिकं वसु ।
विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति

ratnaṃ vastraṃ mahāyānaṃ sarvabhogādikaṃ vasu |
vibhave sati viprebhyo yo'smānuddiśya dāsyati

14.24

अन्नेन वा यथाशक्त्या कालेऽस्मिन्भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः

annena vā yathāśaktyā kāle'sminbhaktinamradhīḥ |
bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ

14.25

असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः ।
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम्

asamartho'nnadānasya dhānyamāmaṃ svaśaktitaḥ |
pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām

14.26

तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति

tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān |
praṇamya dvijamukhyāya kasmaicidbhūpa dāsyati

14.27

तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रस्स्मुद्दिश्य भुव्यस्माकं प्रदास्यति

tilaissaptāṣṭabhirvāpi samavetaṃ jalāñjalim |
bhaktinamrassmuddiśya bhuvyasmākaṃ pradāsyati

14.28

यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति

yataḥ kutaścitsamprāpya gobhyo vāpi gavāhnikam |
abhāve prīṇayannasmāñcchraddhāyuktaḥ pradāsyati

14.29

सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चैर्वदिष्यति

sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ |
sūryādilokapālānāmidamuccairvadiṣyati

14.30

न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोऽस्मि ।
तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य

na me'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝnnato'smi |
tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya

और्व उवाच

14.31

इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति पार्थिव

ityetat pitṛbhirgītaṃ bhāvābhāvaprayojanam |
yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)