तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान्
tasya tadvākyamākarṇya surarāṭ tataḥ |
sakrodhaḥ prāha giriśo vīrabhadrādikāngaṇān
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥
49 श्लोक · 33 में से 59
दानव का उत्तर सुनकर महादेव क्रोध में वीरभद्र, नन्दी, क्षेत्रपालों और आठों भैरवों को बुलाते हैं और सबको शस्त्र लेकर तैयार रहने की आज्ञा देते हैं। भद्रकाली अपनी सेना के साथ चलें और दोनों पुत्र भी साथ हों। स्कन्द और गणेश तुरन्त अपनी सेनाएँ लेकर आ पहुँचते हैं। अध्याय का अधिकांश भाग सेना की गणना है: महाकाल, मणिभद्र, बाष्कल, कपिल, भृंगी आदि महागणों के नाम एक एक कर आते हैं, और साथ में वे करोड़ों अनुचर जो प्रत्येक लाता है; कोई पृथ्वी पर चलते हैं, कोई पाताल में, कोई आकाश में। भद्रकाली लाल वस्त्र और लाल माला धारण किए रत्नविमान पर हैं, माहेश्वर और याम्य जैसे अस्त्र लिए। भूत, प्रेत, वेताल, यक्ष और किन्नर पीछे चलते हैं। भगवान शिव चन्द्रभागा के तट पर एक वटवृक्ष के नीचे ठहरते हैं।
सनत्कुमार उवाच
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।
सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान्
tasya tadvākyamākarṇya surarāṭ tataḥ |
sakrodhaḥ prāha giriśo vīrabhadrādikāngaṇān
रुद्र उवाच
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ।
सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः
he vīrabhadra he naṃdinkṣetrapālaṣṭabhairavāḥ |
sarve gaṇāśca sannaddhāssāyudhā balaśālinaḥ
कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया ।
स्वसेनया भद्रकाली निर्गच्छतु रणाय च ।
शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम्
kumārābhyāṃ sahaivādya nirgacchaṃtu mamājñayā |
svasenayā bhadrakālī nirgacchatu raṇāya ca |
śaṃkhacūḍavadhārthāya nirgacchāmyadya satvaram
सनत्कुमार उवाच
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।
सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः
ityājñāpya maheśāno niryayau sainyasaṃyutaḥ |
sarve vīragaṇāstasyānu yayussaṃpraharṣitāḥ
एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ।
यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके
etasminnaṃtare skaṃdagaṇeśau sarvasainyapau |
yataturmuditau naddhau sāyudhau ca śivāṃtike
वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ।
विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः
vīrabhadraśca nandī ca mahākālassubhadrakaḥ |
viśālākṣaśca bāṇaśca piṃgalākṣo vikaṃpanaḥ
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः
virūpo vikṛtiścaiva maṇibhadraśca bāṣkalaḥ |
kapilākhyo dīrghadaṃṣdro vikarastāmralocanaḥ
कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ।
बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा
kālaṃkaro balībhadraḥ kālajihvaḥ kuṭīcaraḥ |
balonmatto raṇaślāghyo durjayo durgamastathā
इत्यादयो गणेशानास्सैन्यानां पतयो वराः ।
तेषां च गणनां वच्मि सावधानतया शृणु
ityādayo gaṇeśānāssainyānāṃ patayo varāḥ |
teṣāṃ ca gaṇanāṃ vacmi sāvadhānatayā śṛṇu
शंखकर्णः कोटिगणैर्युतः परविमर्दकः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च
śaṃkhakarṇaḥ koṭigaṇairyutaḥ paravimardakaḥ |
daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः
catuṣṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ |
ṣaḍbhissarvāntakaḥ śrīmāṃsta thaiva vikṛtānanaḥ
जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ।
सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च
jālako hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ |
saptabhissamadaḥ śrīmāndundubho'ṣṭābhireva ca
पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ।
कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा
paṃcabhiśca karālākṣaḥ ṣaḍbhissaṃdārako varaḥ |
koṭikoṭibhireveha kaṃdukaḥ kuṃḍakastathā
विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ।
पिप्पलश्च सहस्रेण संनादश्च तथाविधः
viṣṭaṃbho'ṣṭābhireveha gaṇapassarvasa ttamaḥ |
pippalaśca sahasreṇa saṃnādaśca tathāvidhaḥ
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।
महाकेशः सहस्रेण कोटीनां गणपो वृतः
āveśanastathāṣṭābhistvaṣṭabhiścandratāpanaḥ |
mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ
कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ।
कालश्च कालकश्चैव महाकालश्शतेन वै
kuṃḍī dvādaśabhirvīrastathā parvatakaśśubhaḥ |
kālaśca kālakaścaiva mahākālaśśatena vai
अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ।
आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः
agnikaśśata koṭyā ca koṭyāgnimukha eva ca |
ādityo hyarddhakoṭyā ca tathā caivaṃ ghanāvahaḥ
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।
अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः
sanāhaśca śatenaiva kumudaḥ koṭibhistathā |
amoghaḥ kokilaścaiva śatakoṭyā sumaṃtrakaḥ
काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ।
महाबलश्च नवभिः पञ्चभिर्मधुपिंगल
kākapādaḥ koṭiṣaṣṭyā ṣaṣṭyā saṃtānakastathā |
mahābalaśca navabhiḥ pañcabhirmadhupiṃgala
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca |
koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।
तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे
koṭikoṭisahasrāṇāṃ śatairviṃśatibhistathā |
tatrājagmustathā vīrāste sarve saṃgarotsave
भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ।
वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः
bhūtakoṭisahasreṇa pramathairkoṭibhi stribhiḥ |
vīrabhadraścatuṣṣaṣṭyā lomajānāṃ trikoṭibhiḥ
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः
kāṣṭhārūḍhaścatuḥṣaṣṭyā sukeśo vṛṣabhastathā |
virūpākṣaśca bhagavāṃścatuṣṣaṣṭyā sanātanaḥ
तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ।
संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः
tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca pratāpavān |
saṃvartakastathā caitro laṃkulīśassvayaṃ prabhuḥ
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ।
देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ |
devo bhṛṅgīriṭiḥ śrīmāndevadevapriyastathā
अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ।
कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा
aśanirbhānukaścaiva catuḥ ṣaṣṭyā sahasraśaḥ |
kaṃkālaḥ kālakaḥ kālo nandī sarvāntakastathā
एते चान्ये च गणपा असंख्याता महाबलाः ।
युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः
ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ |
yuddhārthaṃ niryayuḥ prītyā śaṃkhacūḍena nirbhayāḥ
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।
चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ |
candrarekhāvataṃsāśca nīlakaṃṭhāstrilocanāḥ
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः
rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ |
hārakuṃḍalakeyūramukuṭādyairalaṃkṛtāḥ
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ।
सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि
brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ |
sūryakoṭipratīkāśāḥ pravīṇā yuddhakarmaṇi
पृथिवीचारिणः केचित्केचित्पातालचारिणः ।
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने
pṛthivīcāriṇaḥ kecitkecitpātālacāriṇaḥ |
kecidvyomacarāḥ kecitsaptasvargacarā mune
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।
ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह
kiṃ bahūktena devarṣe sarvalokanivāsinaḥ |
yayuśśivagaṇāssarve yuddhārthaṃ dānavaissaha
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये ।
वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्
aṣṭau ca bhairavā raudrā rudrā ścaikādaśāśu ye |
vasavo'ṣṭau vāsavaścādityā dvādaśa te drutam
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।
कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः
hutāśanaśca candraśca viśvakarmāśvinau ca tau |
kuberaśca yamaścaiva nirṛtirnalakūbaraḥ
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ।
ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान्
vāyuśca varuṇaścaiva budhaśca maṃgalaśca vai |
grahāścānye maheśena kāmadevaśca vīryavān
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ।
स्वयं शतभुजा देवी भद्रकाली महेश्वरी
ugradaṃṣṭraścogradaṇḍaḥ koraṭaḥ koṭabhastathā |
svayaṃ śatabhujā devī bhadrakālī maheśvarī
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ॥ ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना
ratnendrasāranirmāṇavimānopari saṃsthitā || |
raktavastraparīdhānā raktamālyānulepanā
नृत्यंती च हसंती च गायंती सुस्वरं मुदा ।
अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा
nṛtyaṃtī ca hasaṃtī ca gāyaṃtī susvaraṃ mudā |
abhayaṃ dadatī svebhyo bhayaṃ cāribhya eva sā
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।
शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्
bibhratī vikaṭāṃ jihvāṃ sulolāṃ yojanāyatām |
śaṃkhacakragadāpadmakhaṅgacarmadhanuśśarān
खर्परं वर्तुलाकारं गंभीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम्
kharparaṃ vartulākāraṃ gaṃbhīraṃ yojanāyatam |
triśūlaṃ gaganasparśiṃ śaktiṃ ca yojanāyatām
मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ।
वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम्
mudgaraṃ musalaṃ vaktraṃ khaṅgaṃ phalakamulbaṇam |
vaiṣṇavāstraṃ vāruṇāstraṃ vāyavyaṃ nāgapāśakam
नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ।
पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्
nārāyaṇāstraṃ gāṃdharvaṃ brahmāstraṃ gāruḍaṃ tathā |
pārjanyaṃ ca pāśupataṃ jṛṃbhaṇāstraṃ ca pārvatam
महावीरं च सौरं च कालकालं महानलम् ।
महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा
mahāvīraṃ ca sauraṃ ca kālakālaṃ mahānalam |
maheśvarāstraṃ yāmyaṃ ca daṃḍaṃ saṃmohanaṃ tathā
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् ।
बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा
samarthamastrakaṃ divyaṃ divyāstraṃ śatakaṃ param |
bibhratī ca karaissarvairanyānyapi ca sā tadā
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ।
सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः
āgatya tasthau sā tatra yoginīnāṃ trikoṭibhiḥ |
sārddhaṃ ca ḍākinīnāṃ vai vikaṭānāṃ trikoṭibhiḥ
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः
bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ |
vetālā rākṣasāścaiva yakṣāścaiva sakinnarāḥ
तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ।
पितुः पार्श्वे सहायो यः समुवास तदाज्ञया
taścaivābhivṛtaḥ skaṃdaḥ praṇamya candraśekharam |
pituḥ pārśve sahāyo yaḥ samuvāsa tadājñayā
अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा ।
युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः
atha śambhussamānīya svasainyaṃ sakalaṃ tadā |
yuddhārthamagamadrudraśśaṃṅkhacūḍena nirbhayaḥ
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवनिस्ता रहेतवे
candrabhāgānadītīre vaṭamūle manohare |
tatra tasthau mahādevo devanistā rahetave
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)