रुद्र संहिता — युद्ध खण्ड

अध्याय 34: शंखचूड तुलसी से विदा लेकर युद्ध को चलता है

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥

24 श्लोक · 34 में से 59

इस अध्याय में क्या होता है

शंखचूड तुलसी से विदा लेकर युद्ध को चलता है

व्यास पूछते हैं कि शिवदूत के जाने पर प्रतापी दानव ने क्या किया। सनत्कुमार बताते हैं कि शंखचूड भीतर जाकर पत्नी तुलसी से कहता है कि वह शम्भु से युद्ध करने जा रहा है; अनेक उपदेशों से उसे धीरज बँधाकर वह शंकर की अवहेलना करता हुआ रात उसके साथ बिताता है। ब्राह्म मुहूर्त में उठकर वह प्रातःकृत्य और नित्यकर्म करता है और अपार दान देता है। पुत्र को राजगद्दी पर बिठाकर वह असुरों के पचास कुलों को, जिनमें करोड़ों वीर हैं, देवपक्षी शम्भु से लड़ने चलने का आदेश देता है। रत्नविमान पर चढ़कर, गुरुजनों को आगे करके, वह पुष्पभद्रा नदी के तट पर पहुँचता है जहाँ श्रीशैल के उत्तर में सिद्धाश्रम का अक्षयवट है। नदी के मार्ग का वर्णन आता है। वहाँ वह शिव की सेना देखता है।

व्यास उवाच

34.1

विधितात महाबुद्धे मुने जीव चिरं समाः ।
कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः

vidhitāta mahābuddhe mune jīva ciraṃ samāḥ |
kathitaṃ sumahaccitraṃ caritaṃ candramaulinaḥ

34.2

शिवदूते गते तत्र शङ्खचूडश्च दानवः ।
किं चकार प्रतापी स तत्त्वं वद सुविस्तरम्

śivadūte gate tatra śaṅkhacūḍaśca dānavaḥ |
kiṃ cakāra pratāpī sa tattvaṃ vada suvistaram

सनत्कुमार उवाच

34.3

अथ दूते गते तत्र शंखचूडः प्रतापवान् ।
उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम्

atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān |
uvāca tulasīṃ vārtāṃ gatvābhyaṃtarameva tām

शङ्खचूड उवाच

34.4

शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।
तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम्

śambhudūtamukhāddevi yuddhāyāhaṃ samudyataḥ |
tena gacchāmyahaṃ yoddhuṃ śāsanaṃ kuru me dhruvam

34.5

इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम् ।
क्रीडां चकार हर्षेण तमनादृत्य शंकरम्

ityevamuktvā sa jñānī nānābodhanataḥ priyām |
krīḍāṃ cakāra harṣeṇa tamanādṛtya śaṃkaram

34.6

तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।
नानाकामकलाभिश्च निशि चाटुशुतैरपि

tau dampatī cikrīḍāte nimagnau sukhasāgare |
nānākāmakalābhiśca niśi cāṭuśutairapi

34.7

ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ।
नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम्

brāhme muhūrta utthāya prātaḥkṛtyaṃ vidhāya ca |
nityakāryaṃ ca kṛtvādau dadau dānamanaṃtakam

34.8

पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ।
पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम्

putraṃ kṛtvā ca rājendraṃ sarveṣu dāna veṣu ca |
putre samarpya bhāryāṃ ca sa rājyaṃ sarvasaṃpadam

34.9

प्रियामाश्वासयामास स राजा रुदतीं पुनः ।
निषेधतीं च गमनं नाना वार्तां प्रकथ्य च

priyāmāśvāsayāmāsa sa rājā rudatīṃ punaḥ |
niṣedhatīṃ ca gamanaṃ nānā vārtāṃ prakathya ca

34.10

निजसेनापतिं वीरं समाहूय समादृतः ।
आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः

nijasenāpatiṃ vīraṃ samāhūya samādṛtaḥ |
ādideśa sa sanaddhassaṃgrāmaṃ kartu'mudyataḥ

शंखचूड उवाच

34.11

अद्य सेनापते वीरास्सर्वे समरशालिनः ।
संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च

adya senāpate vīrāssarve samaraśālinaḥ |
saṃnaddhākhilakarmāṇo nirgacchaṃtu raṇāya ca

34.12

दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ।
कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः

daityāśca dānavāḥ śūrā ṣaḍaśītirudā yudhāḥ |
kaṃkānāṃ balināṃ śīghraṃ senā niryāṃtu nirbhayāḥ

34.13

पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ।
कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा

pañcāśadasurāṇāṃ hi nirgacchaṃtu kulāni vai |
koṭivīryāṇi yuddhārthaṃ śambhunā devapakṣiṇā

34.14

संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।
निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात्

saṃnaddhāni ca dhaumrāṇāṃ kulāni ca śataṃ drutam |
nirgacchaṃtu raṇārthaṃ hi śambhunā mama śāsanāt

34.15

कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।
सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात्

kālakeyāśca mauryāśca daurhṛdāḥ kālakāstathā |
sajjā niryāntu yuddhāya rudreṇa mama śāsanāt

सनत्कुमार उवाच

34.16

इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।
निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः

ityājñāpyāsurapatirdānavendro mahābalaḥ |
nirjagāma mahāsainyaḥ sahasraibahubhirvṛtaḥ

34.17

तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।
महारथो महावीरो रथिनां प्रवरो रणे

tasya senāpatiścaiva yuddhaśāstraviśāradaḥ |
mahāratho mahāvīro rathināṃ pravaro raṇe

34.18

त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ।
बहिर्बभूव शिबिराद्रणे वीरभयङ्करः

trilakṣākṣauhiṇīyukto māṃḍalyaṃ ca cakāra ha |
bahirbabhūva śibirādraṇe vīrabhayaṅkaraḥ

34.20

रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ।
गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल ॥ ॥ ।
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्

ratnendraṃ sāranirmāṇaṃ vimānamabhiruhya saḥ |
guruvargaṃ puraskṛtya raṇārthaṃ prayayau kila || || |
puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ |
siddhāśrame ca siddhānāṃ siddhikṣetraṃ susiddhidam

34.21

कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे

kapilasya tataḥ sthānaṃ puṇyakṣetre ca bhārate |
paścimodadhipūrve ca malayasya hi paścime

34.22

श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ।
पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा

śrīśailottarabhāge ca gaṃdhamādanadakṣiṇe |
paṃcayojanavistīrṇaṃ dairghye śataguṇastathā

34.23

शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा ।
पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती

śuddhasphaṭikasaṃkāśā bhārate ca supuṇyadā |
puṣpabhadrā nadī ramyā jalapūrṇā sarasvatī

34.24

लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ।
सरस्वतीसंश्रिता च निर्गता सा हिमालयात्

lavaṇodadhipriyā bhāryā śaśvatsaubhāgyasaṃ yutā |
sarasvatīsaṃśritā ca nirgatā sā himālayāt

34.25

गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह

gomaṃtaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau |
tatra gatvā śaṃkhacūḍaḥ śiva senāṃ dadarśa ha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)