कोटिरुद्र संहिता

अध्याय 18: ओंकारेश्वर, चतुर्थ ज्योतिर्लिंग

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥

26 श्लोक · 18 में से 43

इस अध्याय में क्या होता है

ओंकारेश्वर, चतुर्थ ज्योतिर्लिंग

गोकर्ण में शिवपूजा करके भगवान नारद विन्ध्य पर्वत पर आते हैं और सत्कार पाते हैं। गर्वित विन्ध्य कहता है कि उसमें किसी बात की कमी नहीं। नारद लम्बी साँस लेकर कहते हैं कि मेरु उससे ऊँचा है और देवताओं में उसका भाग है। आहत विन्ध्य ओंकार जाकर शिव की पार्थिव मूर्ति बनाता है और छह मास आसन से हिले बिना पूजा करता है। महादेव प्रकट होकर वर देने को कहते हैं। विन्ध्य अपना कार्य सिद्ध करने वाली बुद्धि माँगता है, ऐसी इच्छा जो दूसरों को कष्ट दे सकती थी, फिर भी शिव वर देते हैं। देवों और ऋषियों की प्रार्थना पर शिव वहीं रहते हैं, और एक लिंग दो हो जाता है: ओंकारेश्वर, और पार्थिव रूप में परमेश्वर। दोनों भोग और मोक्ष देते हैं।

ऋषय ऊचुः

18.1

त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ।
महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः

tvayā sūta mahābhāga śrāvitā hyadbhutā kathā |
mahākālākhyaliṃgasya nijabhaktasurakṣikaḥ

18.2

ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम ।
ॐकारं परमेशस्य सर्वपातकहारिणः

jyotirliṃgaṃ caturthaṃ ca kṛpayā vada vittama |
oṃkāraṃ parameśasya sarvapātakahāriṇaḥ

सूत उवाच

18.4

ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः ।
तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः ।
कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः ।
गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान्

oṃkāre parameśākhyaṃ liṃgamāsīdyathā dvijāḥ |
tathā vakṣyāmi vaḥ prītyā śrūyatāṃ paramarṣayaḥ |
kasmiṃścitsamaye cāña nārado bhagavānmuniḥ |
gokarṇākhyaṃ śivaṃ gatvā siṣeve parabhaktimān

18.5

ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः ।
तत्रैव पूजितस्तेन बहुमानपुरस्सरम्

tatassa āgato vindhyaṃ nageśaṃ munisattamaḥ |
tatraiva pūjitastena bahumānapurassaram

18.6

मयि सर्वं विद्यते च न न्यूनं हि कदाचन ।
इति भावं समास्थाय संस्थितो नारदाग्रतः

mayi sarvaṃ vidyate ca na nyūnaṃ hi kadācana |
iti bhāvaṃ samāsthāya saṃsthito nāradāgrataḥ

18.7

तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः ।
निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम्

tanmānaṃ tattadā śrutvā nārado mānahā tataḥ |
niśśvasya saṃsthitastatra śrutvāvindhyo'bravīdidam

विन्ध्य उवाच

18.8

किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ।
तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः

kiṃ nyūnaṃ ca tvayā dṛṣṭaṃ mayi niśśvāsakāraṇam |
tacchrutvā nārado vākyamabravītsa mahāmuniḥ

नारद उवाच

18.9

विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ।
देवेष्वपि विभागोऽस्य न तवास्ति कदाचन

vidyate tvayi sarvaṃ hi meruruccataraḥ punaḥ |
deveṣvapi vibhāgo'sya na tavāsti kadācana

सूत उवाच

18.10

इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ।
विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम्

ityuktvā nāradastasmājjagāma ca yathāgatam |
vindhyaśca paritapto vai dhigvai me jīvitādikam

18.11

विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ।
इति निश्चित्य मनसा शंकर शरणं गतः

viśveśvaraṃ tathā śaṃbhumārādhya ca tapāmyaham |
iti niścitya manasā śaṃkara śaraṇaṃ gataḥ

18.12

जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ।
चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम्

jagāma tatra suprītyā hyoṃkāro yatra vai svayam |
cakāra ca punastatra śivamūrtiśca pārthivīm

18.13

आराध्य च तदा शंभुं षण्मासं स निरन्तरम् ।
न चचाल तपस्थानाच्छिवध्यानपरायणः

ārādhya ca tadā śaṃbhuṃ ṣaṇmāsaṃ sa nirantaram |
na cacāla tapasthānācchivadhyānaparāyaṇaḥ

18.14

एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ।
स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि

evaṃ viṃdhyatapo dṛṣṭvā prasannaḥ pārvatīpatiḥ |
svarūpaṃ darśayāmāsa durllabhaṃ yogināmapi

18.15

प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ।
तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः

prasannassa tadovāca brūhi tvaṃ manasepsitam |
tapasā te prasannosmi bhaktānāmīpsitapradaḥ

विन्ध्य उवाच

18.16

यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ।
स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः

yadi prasanno deveśa buddhiṃ dehi yathepsitām |
svakāryasādhinīṃ śaṃbho tvaṃ sadā bhaktavatsalaḥ

सूत उवाच

18.17

तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम् ।
परोपतापदं विन्ध्यो वरमिच्छति मूढधीः

tacchrutvā bhagavāñchaṃbhuściceta hṛdaye ciram |
paropatāpadaṃ vindhyo varamicchati mūḍhadhīḥ

18.18

किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ।
मद्दत्तं परदुःखाय वरदानं यथा नहि

kiṃ karomi yadetasmai varadānaṃ bhavecchubham |
maddattaṃ paraduḥkhāya varadānaṃ yathā nahi

18.19

तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ।
विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु

tathāpi dattavāñ śaṃbhustasmai tadvaramuttamam |
vidhyaparvatarāja tvaṃ yathecchasi tathā kuru

18.20

एवं च समये देवा ऋपयश्चामलाशयाः ।
संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन्

evaṃ ca samaye devā ṛpayaścāmalāśayāḥ |
saṃpūjya śaṃkaraṃ tatra sthātavyamiti cābuvan

18.21

तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः ।
तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे

tacchutvā devavacanaṃ prasannaḥ parameśvaraḥ |
tathaiva kṛtavānprītyā lokānāṃ sukhahetave

18.22

ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ।
प्रणवे चैव ॐकारनामासीत्स सदाशिवः

oṃ kāraṃ caiva yalliṃgamekaṃ tacca dvidhā gatam |
praṇave caiva oṃkāranāmāsītsa sadāśivaḥ

18.23

पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ।
भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः

pārthive caiva yajjātaṃ tadāsītparameśvaraḥ |
bhaktābhīṣṭapradau cobhau bhuktimuktipradau dvijāḥ

18.24

तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ।
प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम्

tatpūjāṃ ca tadā cakrurdevāśca ṛṣayastathā |
prāpurvarānanekāṃśca saṃtoṣya vṛṣabhadhvajam

18.25

स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ।
कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः

svasvasthānaṃ yayurdevā vindhyopi mudito'dhikam |
kāryyaṃ sādhitavānsvīyaṃ paritāpaṃ jahau dvijāḥ

18.26

य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ।
यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय

ya evaṃ pūjayecchaṃbhuṃ mātṛgarbhaṃ vasenna hi |
yadabhīṣṭaphalaṃ tacca prāpnuyānnātra saṃśaya

18.27

एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ।
अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम्

etatte sarvamākhyātamoṃkāraprabhave phalam |
ataḥ paraṃ pravakṣyāmi kedāraṃ liṃgamuttamam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)