युद्धकाण्ड

सर्ग 115: सीता से श्रीराम के कठोर वचन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशाधिकशततमः सर्गः ॥ ११५ ॥

25 श्लोक · 115 में से 128

इस अध्याय में क्या होता है

सीता से श्रीराम के कठोर वचन

सीता विनम्रता से पास खड़ी हैं, और श्रीराम सबके सामने अपने मन की बात कहते हैं। मैंने युद्ध में शत्रु को जीतकर तुम्हें पुनः पाया है; अपमान भी मिटा और शत्रु भी मारा गया। फिर भी प्रिया को इतने पास देखकर लोकनिंदा के भय से उनका हृदय दुविधा में है। वे कहते हैं, यह युद्ध मैंने अपने और अपने प्रतिष्ठित कुल के यश की रक्षा के लिए लड़ा, तुम्हारे लिए नहीं। तुम बहुत समय रावण के घर रहीं; मैं तुम्हें फिर कैसे स्वीकार करूँ? जहाँ चाहो जाओ; लक्ष्मण, भरत, शत्रुघ्न, सुग्रीव या विभीषण, जिसके पास चाहो मन लगाओ। प्रिय वचन की आशा रखने वाली सीता ये कठोर शब्द सुनकर हाथी की सूँड से आहत लता की तरह फूट-फूटकर रोती हैं।

115.1

तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् ।
हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे

tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm |
hṛdayāntargataṃ bhāvaṃ vyāhartumupacakrame

115.2

एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे ।
पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम्

eṣāsi nirjitā bhadre śatruṃ jitvā raṇājire |
pauruṣād yadanuṣṭheyaṃ mayaitadupapāditam

115.3

गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता ।
अवमानश्च शत्रुश्च युगपन्निहतौ मया

gato'smyantamamarṣasya dharṣaṇā sampramārjitā |
avamānaśca śatruśca yugapannihatau mayā

115.4

अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।
अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः

adya me pauruṣaṃ dṛṣṭamadya me saphalaḥ śramaḥ |
adya tīrṇapratijño'haṃ prabhavāmyadya cātmanaḥ

115.5

या त्वं विरहिता नीता चलचित्तेन रक्षसा ।
दैवसम्पादितो दोषो मानुषेण मया जितः

yā tvaṃ virahitā nītā calacittena rakṣasā |
daivasampādito doṣo mānuṣeṇa mayā jitaḥ

115.6

सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।
कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः

samprāptamavamānaṃ yastejasā na pramārjati |
kastasya pauruṣeṇārtho mahatāpyalpacetasaḥ

115.7

लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम् ।
सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः

laṅghanaṃ ca samudrasya laṅkāyāścāpi mardanam |
saphalaṃ tasya ca ślāghyamadya karma hanūmataḥ

115.8

युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा ।
सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः

yuddhe vikramataścaiva hitaṃ mantrayatastathā |
sugrīvasya sasainyasya saphalo'dya pariśramaḥ

115.9

विभीषणस्य च तथा सफलोऽद्य परिश्रमः ।
विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः

vibhīṣaṇasya ca tathā saphalo'dya pariśramaḥ |
viguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayamupasthitaḥ

115.10

इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः ।
मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता

ityevaṃ vadataḥ śrutvā sītā rāmasya tad vacaḥ |
mṛgīvotphullanayanā babhūvāśrupariplutā

115.11

पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम् ।
जनवादभयाद् राज्ञो बभूव हृदयं द्विधा

paśyatastāṃ tu rāmasya samīpe hṛdayapriyām |
janavādabhayād rājño babhūva hṛdayaṃ dvidhā

115.12

सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम् ।
अवदद् वै वरारोहां मध्ये वानररक्षसाम्

sītāmutpalapatrākṣīṃ nīlakuñcitamūrdhajām |
avadad vai varārohāṃ madhye vānararakṣasām

115.13

यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता ।
तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा

yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ pratimārjatā |
tat kṛtaṃ rāvaṇaṃ hatvā mayedaṃ mānakāṃkṣiṇā

115.14

निर्जिता जीवलोकस्य तपसा भावितात्मना ।
अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्

nirjitā jīvalokasya tapasā bhāvitātmanā |
agastyena durādharṣā muninā dakṣiṇeva dik

115.15

विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः ।
सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः

viditaścāstu bhadraṃ te yo'yaṃ raṇapariśramaḥ |
sutīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ

115.16

रक्षता तु मया वृत्तमपवादं च सर्वतः ।
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता

rakṣatā tu mayā vṛttamapavādaṃ ca sarvataḥ |
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā

115.17

प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता ।
दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा

prāptacāritrasaṃdehā mama pratimukhe sthitā |
dīpo netrāturasyeva pratikūlāsi me dṛḍhā

115.18

तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे ।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया

tad gaccha tvānujāne'dya yatheṣṭaṃ janakātmaje |
etā daśa diśo bhadre kāryamasti na me tvayā

115.19

कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम् ।
तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा

kaḥ pumāṃstu kule jātaḥ striyaṃ paragṛhoṣitām |
tejasvī punarādadyāt suhṛllobhena cetasā

115.20

रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा ।
कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्

rāvaṇāṅkaparikliṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā |
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat

115.21

यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया ।
नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति

yadarthaṃ nirjitā me tvaṃ so'yamāsādito mayā |
nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatāmiti

115.22

तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना ।
लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्

tadadya vyāhṛtaṃ bhadre mayaitat kṛtabuddhinā |
lakṣmaṇe vātha bharate kuru buddhiṃ yathāsukham

115.23

शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे ।
निवेशय मनः सीते यथा वा सुखमात्मना

śatrughne vātha sugrīve rākṣase vā vibhīṣaṇe |
niveśaya manaḥ sīte yathā vā sukhamātmanā

115.24

नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।
मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम्

nahi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām |
marṣayeta ciraṃ sīte svagṛhe paryavasthitām

115.25

ततः प्रियार्हश्रवणा तदप्रियं
प्रियादुपश्रुत्य चिरस्य मानिनी ।
मुमोच बाष्पं रुदती तदा भृशं
गजेन्द्रहस्ताभिहतेव वल्लरी

tataḥ priyārhaśravaṇā tadapriyaṃ
priyādupaśrutya cirasya māninī |
mumoca bāṣpaṃ rudatī tadā bhṛśaṃ
gajendrahastābhihateva vallarī

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)