उत्तरकाण्ड

सर्ग 95: श्रीराम सीता से शपथ का आग्रह करते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ॥ ९५ ॥

17 श्लोक · 95 में से 111

इस अध्याय में क्या होता है

श्रीराम सीता से शपथ का आग्रह करते हैं

बहुत दिनों तक श्रीराम वह गान सुनते हैं। वे पहचान लेते हैं कि कुश और लव सीता के पुत्र हैं। वे दूतों को भगवान वाल्मीकि के पास यह संदेश देकर भेजते हैं: यदि सीता शुद्ध आचरण वाली और निष्पाप हैं, तो मुनि की अनुमति से यहाँ अपनी शुद्धि सिद्ध करें। कल प्रातः जनकनन्दिनी सभा में शपथ लें। श्रीराम का मन जानकर वाल्मीकि कहते हैं: ऐसा ही हो; सीता वैसा ही करेंगी जैसा श्रीराम कहते हैं, क्योंकि स्त्री के लिए पति ही देवता है। श्रीराम ऋषियों, राजाओं और सब इच्छुकों को सीता की शपथ देखने आने को कहते हैं। वे साधुवाद करते हैं कि ऐसा पृथ्वी पर केवल आपको शोभा देता है। श्रीराम सबको विदा करते हैं।

95.1

रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः

rāmo bahūnyahānyevaṃ tadgītaṃ paramaṃ śubham |
śuśrāva munibhiḥ sārdhaṃ pārthivaiḥ saha vānaraiḥ

95.2

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।
दूताञ्छुद्धसमाचारानाहूयात्ममनीषया

tasmingīte tu vijñāya sītāputrau kuśīlavau |
tasyāḥ pariṣado madhye rāmo vacanamabravīt |
dūtāñchuddhasamācārānāhūyātmamanīṣayā

95.3

मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् परिषदो मध्ये रामो वचनमब्रवीत् ।

madvaco brūta gacchadhvamito bhagavato 'ntikam pariṣado madhye rāmo vacanamabravīt |

95.4

यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्

yadi śuddhasamācārā yadi vā vītakalmaṣā |
karotvihātmanaḥ śuddhimanumānya mahāmunim

95.5

छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु

chandaṃ muneśca vijñāya sītāyāśca manogatam |
pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu

95.6

श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।
करोतु परिषन्मध्ये शोधनार्थं ममैव च

śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā |
karotu pariṣanmadhye śodhanārthaṃ mamaiva ca

95.7

श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।
दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः

śrutvā tu ṟāgavasyaitadvacaḥ paramamadbhutam |
dūtāḥ samprayayurbāṭaṃ yatrāste munipuṅgavaḥ

95.8

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च

te praṇamya mahātmānaṃ jvalantamamitaprabham |
ūcuste rāmavākyāni mṛdūni madhurāṇi ca

95.9

तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्

teṣāṃ tadvyāhṛtaṃ śrutvā rāmasya ca manogatam |
vijñāya sumahātejā munirvākyamathābravīt

95.10

एवं भवतु भद्रं वो यथा वदति राघवः ।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः

evaṃ bhavatu bhadraṃ vo yathā vadati rāghavaḥ |
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ

95.11

तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे

tathoktā muninā sarve rājadūtā mahaujasam |
pratyetya rāghavaṃ kṣipraṃ munivākyaṃ babhāṣire

95.12

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत

tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ |
ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata

95.13

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।
पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते

bhagavantaḥ saśiṣyā vai sānugāśca narādhipāḥ |
paśyantu sītāśapathaṃ yaścaivānyo 'pi kāṅkṣate

95.14

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत्

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ |
sarveṣāmṛṣimukhyānāṃ sādhuvādo mahānabhūt

95.15

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः

rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam |
upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ

95.16

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।
विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः

evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ |
visarjayāmāsa tadā sarvāṃstāñchatrusūdanaḥ

95.17

इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।
विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः

iti sampravicārya rājasiṃhaḥ śvobhūte śapathasya niścayaṃ vai |
visasarja munīnnṛpāṃśca sarvānsa mahātmā mahato mahānubhāvaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)