उत्तरकाण्ड

सर्ग 94: जुड़वाँ भाई श्रीराम के सामने गाते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥

32 श्लोक · 94 में से 111

इस अध्याय में क्या होता है

जुड़वाँ भाई श्रीराम के सामने गाते हैं

भोर में बालक स्नान करके ऋषि के सिखाए अनुसार गाते हैं। यह गान सुनकर श्रीराम कौतूहल से भर जाते हैं। वे मुनियों, राजाओं और विद्वानों को बुलाकर गायकों को उनके सामने बिठाते हैं। सब कहते हैं कि बालक श्रीराम का प्रतिबिम्ब हैं, केवल जटा और वल्कल का भेद है। बालक बीस सर्ग गाते हैं, और सुनने वाले तृप्त नहीं होते। श्रीराम भरत से कहते हैं कि दोनों को अठारह-अठारह हजार स्वर्ण-मुद्राएँ दो। बालक मना कर देते हैं: हम वन में फल-मूल पर जीते हैं, सोने का क्या करेंगे? पूछने पर वे बताते हैं कि इसके रचयिता वाल्मीकि हैं और यह आपका चरित चौबीस हजार श्लोकों में कहता है। श्रीराम यज्ञ-कर्म के बीच सब सुनने को मान जाते हैं।

94.1

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम्

tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau |
yathoktamṛṣiṇā pūrvaṃ sarvaṃ tatropagāyatām

94.2

तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम्

tāṃ sa śuśrāva kākutsthaḥ pūrvācāryavijirmitām |
apūrvāṃ pāṭhyajātiṃ ca geyena samalaṅkṛtām

94.3

प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत्

pramāṇairbahubhirbaddhāṃ tantrīlayasamanvitām |
bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat

94.4

अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा

atha karmāntare rājā samāhūya mahāmunīn |
pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā

94.5

पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान्

paurāṇikāñchabdavido ye ca vṛddhā dvijātayaḥ |
svarāṇāṃ lakṣaṇajñāṃśca utsukāndvijasattamān

94.6

लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान्

lakṣaṇajñāṃśca gāndharvānnaigamāṃśca viśeṣataḥ |
pādākṣarasamāsajñāṃśchandaḥsu pariniṣṭhitān

94.7

कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा कार्यविदो जनान्

kalāmātrāviśeṣajñāñjyotiṣe ca paraṃ gatān |
kriyākalpavidaścaiva tathā kāryavido janān

94.8

भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुशलान् वचने चापि हैतुकान्

bhāṣājñāniṅgitajñāṃśca naigamāṃścāpyaśeṣataḥ |
hetūpacārakuśalān vacane cāpi haitukān

94.9

छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान्

chandovidaḥ purāṇajñānvaidikāndvijasattamān |
citrajñānvṛttasūtrajñāngītanṛtyaviśāradān

94.10

शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।
एतान्सर्वान्समानीय गातारौ समवेशयत्

śāstrajñānnītinipuṇānvedāntārthaprabodhakān |
etānsarvānsamānīya gātārau samaveśayat

94.11

दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ

dṛṣṭvā munigaṇāḥ sarve pārthivāśca mahaujasaḥ |
pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau

94.12

ऊचुः परस्परं चेदं सर्व एव समन्ततः ।
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ

ūcuḥ parasparaṃ cedaṃ sarva eva samantataḥ |
ubhau rāmasya sadṛśau bimbādbimbamivotthitau

94.13

जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।
विशेषं नाधिगच्छामो गायतो राघवस्य च

jaṭilau yadi na syātāṃ na valkaladharau yadi |
viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca

94.14

तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ

teṣāṃ saṃvadatāmevaṃ śrota'ṇāṃ harṣavardhanam |
geyaṃ pracakratustatra tāvubhau munidārakau

94.15

ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा

tataḥ pravṛttaṃ madhuraṃ gāndharvamatimānuṣam |
na ca tṛptiṃ yayuḥ sarve śrotāro gānasampadā

94.16

प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम्

pravṛttamāditaḥ pūrvasargaṃ nāradadarśitam |
tataḥ prabhṛti sargāṃśca yāvadviṃśatyagāyatām

94.17

ततो ऽपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः

tato 'parāhṇasamaye rāghavaḥ samabhāṣata |
śrutvā viṃśatisargāṃstānbhrātaraṃ bhrātṛvatsalaḥ

94.18

अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।
ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक्

aṣṭādaśasahasrāṇi suvarṇasya mahātmanoḥ |
prayaccha śīghraṃ kākutstha yadanyadabhikāṅkṣitam |
dadau śīghraṃ sa kākutstho bālayorvai pṛthakpṛthak

94.19

दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ

dīyamānaṃ suvarṇaṃ tu nāgṛhṇītāṃ kuśīlavau |
ūcatuśca mahātmānau kimaneneti vismitau

94.20

वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने

vanyena phalamūlena niratau vanavāsinau |
suvarṇena hiraṇyena kiṃ kariṣyāvahe vane

94.21

तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः

tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ |
śrotāraścaiva rāmaśca sarva eva suvismitāḥ

94.22

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ

tasya caivāgamaṃ rāmaḥ kāvyasya śrotumutsukaḥ |
papraccha tau mahātejāstāvubhau munidārakau

94.23

किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः

kimpramāṇamidaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ |
kartā kāvyasya mahataḥ kva cāsau munipuṅgavaḥ

94.24

पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ

pṛcchantaṃ rāghavaṃ vākyamūcaturmunidārakau

94.25

वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम्

vālmīkirbhagavānkartā samprāpto yajñasaṃvidham |
yenedaṃ caritaṃ tubhyamaśeṣaṃ sampradarśitam

94.26

सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना

sannibaddhaṃ hi ślokānāṃ caturviśatsahasrakam |
upākhyānaśataṃ caiva bhārgaveṇa tapasvinā

94.27

आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।
कृतानि गुरुणास्माकमृषिणा चरितं तव

ādiprabhṛti vai rājanpañcasargaśatāni ca |
kāṇḍāni ṣaṭ kṛtānīha sottarāṇi mahātmanā |
kṛtāni guruṇāsmākamṛṣiṇā caritaṃ tava

94.28

प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते सोत्तराणि महात्मना ।

pratiṣṭhā ' 'jīvitaṃ yāvattāvatsarvasya vartate sottarāṇi mahātmanā |

94.29

यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः

yadi buddhiḥ kṛtā rājañchravaṇāya mahāratha |
karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ

94.30

बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः

bāḍhamityabravīdrāmastau cānujñāpya rāghavam |
prahṛṣṭau jagmatuḥ sthānaṃ yatrāste munipuṅgavaḥ

94.31

रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।
श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत्

rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ |
śrutvā tadgītimādhuryaṃ karmaśālāmupāgamat

94.32

शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम्

śuśrāva tattālalayopapannaṃ sargānvitaṃ sa svaraśabdayuktam |
tantrīlayavyañjanayogayuktaṃ kuśīlavābhyāṃ parigīyamānam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)