उत्तरकाण्ड

सर्ग 96: वाल्मीकि सीता को सभा में लाते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥

24 श्लोक · 96 में से 111

इस अध्याय में क्या होता है

वाल्मीकि सीता को सभा में लाते हैं

अगले दिन ऋषि, राक्षस, वानर और हजारों लोग सीता की शपथ देखने को उत्सुक एकत्र होते हैं। वाल्मीकि आते हैं और सीता सिर झुकाए, हाथ जोड़े, हृदय में श्रीराम को लिए उनके पीछे चलती हैं। लोग श्रीराम और सीता की जय पुकार उठते हैं। वाल्मीकि श्रीराम से कहते हैं: यह व्रतपरायणा सीता है, जिसे लोकापवाद के कारण मेरे आश्रम के पास त्यागा गया। ये जुड़वाँ तुम्हारे ही पुत्र हैं। मैं प्रचेता का दसवाँ पुत्र हूँ और मुझे याद नहीं कि कभी झूठ बोला हो; यदि सीता दोषी हो तो मुझे अपने तप का फल न मिले। मैंने अंतर्दृष्टि से देखा है कि यह शुद्ध, निष्पाप और पतिव्रता है, यद्यपि तुमने जानते हुए भी लोक-भय से इसे त्यागा।

96.1

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः

tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ |
ṛṣīnsarvānmahātejāḥ śabdāpayati rāghavaḥ

96.2

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ |
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ

96.3

पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः

pulastyo 'pi tathā śaktirbhārgavaścaiva vāmanaḥ |
mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahāyaśāḥ

96.4

गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः

gargaśca cyavanaścaiva śatānandaśca dharmavit |
bharadvājaśca tejasvī hyagniputraśca suprabhaḥ

96.5

नारदः पर्वतश्चैव गौतमश्च महायशाः ।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः

nāradaḥ parvataścaiva gautamaśca mahāyaśāḥ |
kātyāyanaḥ suyajñaśca hyagastyastapasāṃ nidhiḥ

96.6

एते चान्ये च बहवो मुनयः संशितव्रताः ।
कौतूहलसमाविष्टाः सर्व एव समागताः

ete cānye ca bahavo munayaḥ saṃśitavratāḥ |
kautūhalasamāviṣṭāḥ sarva eva samāgatāḥ

96.7

राक्षसाश्च महावीर्या वानराश्च महाबलाः ।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात्

rākṣasāśca mahāvīryā vānarāśca mahābalāḥ |
sarva eva samājagmurmahātmānaḥ kutūhalāt

96.8

क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः

kṣatriyā ye ca śūdrāśca vaiśyāścaiva sahasraśaḥ |
nānādeśagatāścaiva brāhmaṇāḥ saṃśitavratāḥ

96.9

ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।
सीताशपथवीक्षार्थं सर्व एव समागताः

jñānaniṣṭhāḥ karmaniṣṭhāḥ yoganiṣṭhāstathāpare |
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ

96.10

तदा समागतं सर्वमश्मभूतमिवाचलम् ।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्

tadā samāgataṃ sarvamaśmabhūtamivācalam |
śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat

96.11

तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम्

tamṛṣiṃ pṛṣṭhataḥ sītā tvanvagacchadavāṅmukhī |
kṛtāñjalirbāṣpagalā kṛtvā rāmaṃ manogatam

96.12

दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत्

dṛṣṭvā śrutimivāyāntīṃ brahmāṇamanugāminīm |
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhuvādo mahānabhūt

96.13

ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम्

tato halahalāśabdaḥ sarveṣāmevamābabhau |
duḥkhajanmaviśālena śokenākulitātmanām

96.14

साधु रामेति केचित्तु साधु सीतेति चापरे ।
उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः

sādhu rāmeti kecittu sādhu sīteti cāpare |
ubhāveva ca tatrānye prekṣakāḥ sampracukruśuḥ

96.15

ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।
सीतासहायो वाल्मीकिरिति होवाच राघवम्

tato madhye janaughasya praviśya munipuṅgavaḥ |
sītāsahāyo vālmīkiriti hovāca rāghavam

96.16

इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपवादैः परित्यक्ता ममाश्रमसमीपतः

iyaṃ dāśarathe sītā suvratā dharmacāriṇī |
apavādaiḥ parityaktā mamāśramasamīpataḥ

96.17

लोकापवादभीतस्य तव राम महाव्रत ।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि

lokāpavādabhītasya tava rāma mahāvrata |
pratyayaṃ dāsyate sītā tadanujñātumarhasi

96.18

इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते

imau tu jānakīputrāvubhau ca yamajātakau |
sutau tavaiva durdharṣau satyametadbravīmi te

96.19

प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।
न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ

pracetaso 'haṃ daśamaḥ putro rāghavanandana |
na smarāmyanṛtaṃ vākyamimau tu tava putrakau

96.20

बहुवर्षसहस्राणि तपश्चर्या मया कृता ।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली

bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā |
nopāśnīyāṃ phalaṃ tasyā duṣṭeyaṃ yadi maithilī

96.21

मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।
तस्याः फलमुपाश्नीयामपापा मैथिली यदि

manasā karmaṇā vācā bhūtapūrvaṃ na kilbiṣam |
tasyāḥ phalamupāśnīyāmapāpā maithilī yadi

96.22

अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे

ahaṃ pañcasu bhūteṣu manaṣṣaṣṭheṣu rāghava |
vicintya sītāṃ śuddheti jagrāha vananirjhare

96.23

इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य प्रत्ययं तव दास्यति

iyaṃ śuddhasamācārā apāpā patidevatā |
lokāpavādabhītasya pratyayaṃ tava dāsyati

96.24

तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा

tasmādiyaṃ naravarātmaja śuddhabhāvā divyena dṛṣṭiviṣayeṇa tadā praviṣṭā |
lokāpavādakaluṣīkṛtacetasā yā tyaktā tvayā priyatamā viditā 'pi śuddhā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)