तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम्
taṃ śayānaṃ naravyāghraṃ nidrā nābhyāgamattadā |
cintayantamanekārthaṃ rāmagītamanuttamam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
21 श्लोक · 72 में से 111
उस रात शत्रुघ्न को नींद नहीं आती; वे अनुपम रामगीत पर विचार करते रहते हैं। भोर में वे वाल्मीकि से विदा लेकर अयोध्या पहुँचते हैं और मन्त्रियों के बीच बैठे श्रीराम को देवताओं के बीच इन्द्र-सा देखते हैं। प्रणाम करके कहते हैं कि लवण मारा गया और उसकी नगरी बस गई। बारह वर्ष आपके बिना बीत गए; माँ से बिछुड़े बछड़े की तरह मैं अब आपसे दूर नहीं रह सकता। श्रीराम उन्हें गले लगाकर कहते हैं, विषाद मत करो, यह क्षत्रिय का आचरण नहीं; प्रजा का क्षत्रिय धर्म से पालन करना है। समय-समय पर अयोध्या देखने आते रहना; तुम मुझे प्राणों से प्रिय हो। शत्रुघ्न सात रात रुककर श्रीराम, भरत और लक्ष्मण से विदा लेते हैं और मधुरा चल देते हैं।
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम्
taṃ śayānaṃ naravyāghraṃ nidrā nābhyāgamattadā |
cintayantamanekārthaṃ rāmagītamanuttamam
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः
tasya śabdaṃ sumadhuraṃ tantrīlayasamanvitam |
śrutvā rātrirjagāmāśu śatrughnasya mahātmanaḥ
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम्
tasyāṃ niśāyāṃ vyuṣṭāyāṃ kṛtvā paurvāhṇikaṃ kramam |
uvāca prāñjalirvākyaṃ śatrughno munipuṅgavam
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः
bhagavandraṣṭumicchāmi rāghavaṃ raghunandanam |
tvayā 'nujñātumicchāmi sahaibhiḥ saṃśitavrataiḥ
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम्
ityevaṃvādinaṃ taṃ tu śatrughnaṃ śatrutāpanam |
vālmīkiḥ sampariṣvajya visasarja ca rāghavam
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः
so 'bhivādya muniśreṣṭhaṃ rathamāruhya suprabham |
ayodhyāmagamattūrṇaṃ rāghavotsukadarśanaḥ
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः
sa praviṣṭaḥ purīṃ ramyāṃ śrīmānikṣvākunandanaḥ |
praviveśa mahābāhuryatra rāmo mahādyutiḥ
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा
sa rāmaṃ mantrimadhyasthaṃ pūrṇacandranibhānanam |
paśyannamaramadhyasthaṃ sahasranayanaṃ yathā
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम्
so 'bhivādya mahātmānaṃ jvalantamiva tejasā |
uvāca prāñjalirvākyaṃ rāmaṃ satyaparākramam
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता
yadājñaptaṃ mahārāja sarvaṃ tatkṛtavānaham |
hataḥ sa lavaṇaḥ pāpaḥ purī cāsya niveśitā
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप
dvādaśaite gatā varṣāstvāṃ vinā raghunandana |
notsaheyamahaṃ vastuṃ tvayā virahito nṛpa
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम्
sa me prasādaṃ kākutstha kuruṣvāmitavikrama |
mātṛhīno yathā vatso na ciraṃ pravasāmyaham
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम्
evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedamabravīt |
mā viṣādaṃ kṛthāḥ śūra naitatkṣatriyaceṣṭitam
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव
nāvasīdanti rājāno vipravāseṣu rāghava |
prajā naḥ paripālyā hi kṣatradharmeṇa rāghava
काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव
kāle kāle tu māṃ vīra ayodhyāmavalokitum |
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम्
mamāpi tvaṃ sudayitaḥ prāṇairapi na saṃśayaḥ |
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः
tasmāttvaṃ vasa kākutstha saptarātramihāvasa |
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्
rāmasyaitadvacaḥ śrutvā dharmayuktaṃ manogatam |
śatrughno dīnayā vācā bāḍhamityeva cābravīt
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे
saptarātraṃ ca kākutstho rāghavasya yathājñayā |
uṣya tatra maheṣvāso gamanāyopacakrame
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत्
āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam |
bharataṃ lakṣmaṇaṃ caiva mahārathamupāruhat
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः
dūramābhyāmanugato lakṣmaṇena mahātmanā |
bharatena ca śatrughno jagāmāśu puraṃ tataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)