उत्तरकाण्ड

सर्ग 71: शत्रुघ्न रामायण का गान सुनते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकसप्ततिमः सर्गः ॥ ७१ ॥

24 श्लोक · 71 में से 111

इस अध्याय में क्या होता है

शत्रुघ्न रामायण का गान सुनते हैं

बारहवें वर्ष शत्रुघ्न थोड़े सेवकों के साथ अयोध्या चलते हैं और सात-आठ पड़ाव के बाद वाल्मीकि के आश्रम में ठहरते हैं। मुनि अर्घ्य से उनका सत्कार करते हैं और कहते हैं कि लवण-वध रावण-वध से भी कठिन कार्य था। भोजन के बाद शत्रुघ्न वीणा की लय पर गाया जाता रामचरित सुनते हैं, ठीक वैसा ही जैसा घटा था। शत्रुघ्न सुध-बुध खो बैठते हैं और आँखें भर आती हैं, मानो सब सामने घट रहा हो। उनके साथी पूछते हैं कि क्या यह स्वप्न है, जो पहले देखा था वह आश्रम में सुन रहे हैं। शत्रुघ्न कहते हैं कि कौतूहल से महामुनि से पूछना उचित नहीं। वे महर्षि को प्रणाम कर अपने निवास जाते हैं।

71.1

ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः

tato dvādaśame varṣe śatraghno rāmapālitām |
ayodhyāṃ cakame gantumalpabhṛtyabalānugaḥ

71.2

ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्यैश्च रथानां च शतेन सः

tato mantripurogāṃśca balamukhyānnivartya ca |
jagāma hayamukhyaiśca rathānāṃ ca śatena saḥ

71.3

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः

sa gatvā gaṇitānvāsānsaptāṣṭau raghunandanaḥ |
vālmīkyāśramamāgatya vāsaṃ cakre mahāyaśāḥ

71.4

सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः

so 'bhivādya tataḥ pādau vālmīkeḥ puruṣarṣabhaḥ |
pādyamardhyaṃ tathātithyaṃ jagrāha munihastataḥ

71.5

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने

bahurūpāḥ sumadhurāḥ kathāstatra sahasraśaḥ |
kathayāmāsa sa muniḥ śatrughnāya mahātmane

71.6

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया

uvāca ca munirvākyaṃ lavaṇasya vadhāśritam |
suduṣkaraṃ kṛtaṃ karma lavaṇaṃ nighnatā tvayā

71.7

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः

bahavaḥ pārthivāḥ saumya hatāḥ sabalavāhanāḥ |
lavaṇena mahābāho yudhyamānā mahābalāḥ

71.8

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा

sa tvayā nihataḥ pāpo līlayā puruṣarṣabha |
jagataśca bhayaṃ tatra praśāntaṃ tava tejasā

71.9

रावणस्य वधो घोरो यत्नेन महता कृतः ।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः

rāvaṇasya vadho ghoro yatnena mahatā kṛtaḥ |
idaṃ tu sumahatkarma tvayā kṛtamayatnataḥ

71.10

प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम्

prītiścāsminparā jātā devānāṃ lavaṇe hate |
bhūtānāṃ caiva sarveṣāṃ jagataśca priyaṃ kṛtam

71.11

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव

tacca yuddhaṃ mayā dṛṣṭaṃ yathāvatpuruṣarṣabha |
sabhāyāṃ vāsavasyātha upaviṣṭena rāghava

71.12

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः

mamāpi paramā prītirhṛdi śatrughna vartate |
upāghrāsyāmi te mūrdhni snehasyaiṣā parā gatiḥ

71.13

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः

ityuktvā mūrdhni śatrughnamupāghrāya mahāmuniḥ |
ātithyamakarottasya ye ca tasya padānugāḥ

71.14

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाकृमम्

sa bhuktavānnaraśreṣṭho gītamādhuryamuttamam |
śuśrāva rāmacaritaṃ tasminkāle yathākṛmam

71.15

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम्

tantrīlayasamāyuktaṃ tristhānakaraṇānvitam |
saṃskṛtaṃ lakṣaṇopetaṃ samatālasamanvitam |
śuśrāva rāmacaritaṃ tasminkāle purā kṛtam

71.16

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः

tānyakṣarāṇi satyāni yathāvṛttāni pūrvaśaḥ |
śrutvā puruṣaśārdūlo visañjño bāṣpalocanaḥ

71.17

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत्

sa muhūrtamivāsañjño viniḥśvasya muhurmuhuḥ |
tasmin gīte yathāvṛttaṃ vartamānamivāśṛṇot

71.18

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन्

padānugāśca ye rājñastāṃ śrutvā gītisampadam |
avāṅmukhāśca dīnāśca hyāścaryamiti cābruvan

71.19

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम्

parasparaṃ ca ye tatra sainikāḥ sambabhāṣire |
kimidaṃ kva ca vartāmaḥ kimetatsvapnadarśanam

71.20

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।
शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत्

artho yo naḥ purā dṛṣṭastamāśramapade punaḥ |
śṛṇumaḥ kimidaṃ svapno gītabandhaṃ śriyo bhavet

71.21

विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम्

vismayaṃ te paraṃ gatvā śatrughnamidamabruvan |
sādhu pṛccha naraśreṣṭha vālmīkiṃ munipuṅgavam

71.22

शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।
सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः

śatrughnastvabravītsarvānkautūhalasamanvitān |
sainikā na kṣamo 'smākaṃ paripraṣṭumihedṛśaḥ

71.23

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम्

āścaryāṇi bahūnīha bhavantyasyāśrame muneḥ |
na tu kautūhalādyuktamanveṣṭuṃ taṃ mahāmunim

71.24

एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा

evaṃ tadvākyamuktvā ca sainikānraghunandanaḥ |
abhivādya maharṣiṃ taṃ svaṃ niveśaṃ yayau tadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)