उत्तरकाण्ड

सर्ग 73: ब्राह्मण अपने मृत पुत्र को लाता है

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥

19 श्लोक · 73 में से 111

इस अध्याय में क्या होता है

ब्राह्मण अपने मृत पुत्र को लाता है

जब श्रीराम धर्म से राज कर रहे हैं, एक वृद्ध ब्राह्मण अपने बालक पुत्र का शव लिए राजद्वार पर आता है। वह 'बेटा, बेटा' कहकर रोता है और पूछता है कि पूर्वजन्म के किस पाप से मैं अपने इकलौते पुत्र को युवा होने से पहले मरता देख रहा हूँ। वह कहता है कि मुझे अपना कोई पाप याद नहीं। श्रीराम के राज्य में बालकों की ऐसी असमय मृत्यु मैंने कभी नहीं देखी; निश्चय ही यह राजा का कोई बड़ा दोष है। वह बालक को जीवित करने की विनती करता है, नहीं तो वह और उसकी पत्नी राजद्वार पर प्राण दे देंगे और राजा को ब्रह्महत्या लगेगी।

73.1

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्

prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ |
pramumoda sukhī rājyaṃ dharmeṇa paripālayan

73.2

ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत्

tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ |
mṛtaṃ bālamupādāya rājadvāramupāgamat

73.3

रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह

rudanbahuvidhā vācaḥ snehaduḥkhasamanvitāḥ |
asakṛtputra putreti vākyametaduvāca ha

73.4

किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्

kiṃ nu me duṣkṛtaṃ karma purā dehāntare kṛtam |
yadahaṃ putramekaṃ tvāṃ paśyāmi nidhanaṃ gatam

73.5

अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक

aprāptayauvanaṃ bālaṃ pañcavarṣasahasrakam |
akāle kālamāpannaṃ mama duḥkhāya putraka

73.6

अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक

alpairahobhirnidhanaṃ gamiṣyāmi na saṃśayaḥ |
ahaṃ ca jananī caiva tava śokena putraka

73.7

न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम्

na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham |
sarveṣāṃ prāṇināṃ pāpaṃ kṛtaṃ naiva smarāmyaham

73.8

केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्

kenādya duṣkṛtenāyaṃ bāla eva mamātmajaḥ |
akṛtvā pitṛkāryāṇi gato vaivasvatakṣayam

73.9

नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये यथा

nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam |
mṛtyuraprāptakālānāṃ rāmasya viṣaye yathā

73.10

रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः

rāmasya duṣkṛtaṃ kiñcinmahadasti na saṃśayaḥ |
yathā hi viṣayasthānāṃ bālānāṃ mṛtyurāgataḥ

73.11

नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्

nahyanyaviṣayasthānāṃ bālānāṃ mṛtyuto bhayam |
tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam

73.12

राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव

rājadvāri mariṣyāmi patnyā sārdhamanāthavat |
brahmahatyāṃ tato rāma samupetya sukhī bhava

73.13

भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल

bhrātṛbhiḥ sahito rājandīrghamāyuravāpsyasi |
uṣitāḥ sma sukhaṃ rājye tavāsminsumahābala

73.14

इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम्

idaṃ tu patitaṃ tasmāttava rāma vaśe sthitāḥ |
kālasya vaśamāpannāḥ svalpaṃ hi nahi naḥ sukham

73.15

सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम्

sampratyanātho viṣaya ikṣvākūṇāṃ mahātmanām |
rāmaṃ nāthamihāsādya bālāntakaraṇaṃ dhruvam

73.16

राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद्वृत्ते तु नृपतावकाले म्रियते जनः

rājadoṣairvipadyante prajā hyavidhipālitāḥ |
asadvṛtte tu nṛpatāvakāle mriyate janaḥ

73.17

यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम्

yadvā pureṣvayuktāni janā janapadeṣu ca |
kurvate na ca rakṣā 'sti tadā kālakṛtaṃ bhayam

73.18

सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि ततो बालवधो ह्ययम्

suvyaktaṃ rājadoṣo hi bhaviṣyati na saṃśayaḥ |
pure janapade cāpi tato bālavadho hyayam

73.19

एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसन्तप्तः सुतं तमुपगूहते

evaṃ bahuvidhairvākyairuparudhya muhurmuhuḥ |
rājānaṃ duḥkhasantaptaḥ sutaṃ tamupagūhate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)