उत्तरकाण्ड

सर्ग 70: शत्रुघ्न मधुरा नगरी बसाते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

17 श्लोक · 70 में से 111

इस अध्याय में क्या होता है

शत्रुघ्न मधुरा नगरी बसाते हैं

लवण के मरने पर इन्द्र, अग्नि और देवता शत्रुघ्न को बधाई देकर वर माँगने को कहते हैं। वे माँगते हैं कि देवताओं की बनाई मधु की नगरी, मधुरा, शीघ्र बसे। देवता सहमत होकर स्वर्ग लौट जाते हैं। शत्रुघ्न सेना बुलाते हैं और श्रावण मास में नगर बसाना आरम्भ करते हैं। बारह वर्षों में यमुना तट पर अर्धचन्द्राकार नगरी खड़ी हो जाती है, सुन्दर भवनों, बाजारों और गलियों से सजी, चारों वर्णों के लोगों और अनेक देशों के व्यापारियों से भरी। खेत अन्न से लहलहाते हैं, इन्द्र समय पर वर्षा करते हैं और शत्रुघ्न की रक्षा में लोग निरोग और वीर हैं। समृद्ध नगरी देखकर शत्रुघ्न प्रसन्न होते हैं और बारहवें वर्ष श्रीराम के चरणों के दर्शन का निश्चय करते हैं।

70.1

हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्

hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ |
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam

70.2

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत

diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ |
hataḥ puruṣaśārdūla varaṃ varaya suvrata

70.3

वरदास्तु महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः

varadāstu mahābāho sarva eva samāgatāḥ |
vijayākāṅkṣiṇastubhyamamoghaṃ darśanaṃ hi naḥ

70.4

देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्

devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ |
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān

70.5

इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः

iyaṃ madhupurī rasyā madhurā devanirmitā |
niveśaṃ prāpnuyācchīghrameṣa me 'stu varaḥ paraḥ

70.6

तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः

taṃ devāḥ prītamanaso bāḍhamityeva rāghavam |
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ

70.7

ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत्

te tathoktvā mahātmāno divamāruruhustadā |
śatrughno 'pi mahātejāstāṃ senāṃ samupānayat

70.8

सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत्

sā senā śīghramāgacchacchrutvā śatrughnaśāsanam |
niveśanaṃ ca śatrughnaḥ śrāvaṇena samārabhat

70.9

सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः

sā purā divyasaṅkāśā varṣe dvādaśame śubhe |
niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ

70.10

क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता

kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ |
arogavīrapuruṣā śatrughnabhujapālitā

70.11

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता

ardhacandrapratīkāśā yamunātīraśobhitā |
śobhitā gṛhamukhyaiśca catvarāpaṇavīthikaiḥ |
cāturvarṇyasamāyuktā nānāvāṇijyaśobhitā

70.12

यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम्

yacca tena purā śubhraṃ lavaṇena kṛtaṃ mahat |
tacchobhayati śatrughno nānāvarṇopaśobhitām

70.13

आरामैश्च विहारैश्च शोभमानं समन्ततः ।
शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः

ārāmaiśca vihāraiśca śobhamānaṃ samantataḥ |
śobhitāṃ śobhanīyaiśca tathā 'nyairdaivamānuṣaiḥ

70.14

तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम्

tāṃ purīṃ divyasaṅkāśāṃ nānāpaṇyopaśobhitām |
nānādeśāgataiścāpi vaṇigbhirupaśobhitām

70.15

तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्

tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ |
nirīkṣya paramaprītaḥ paraṃ harṣamupāgamat

70.16

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते

tasya buddhiḥ samutpannā niveśya madhurāṃ purīm |
rāmapādau nirīkṣe 'haṃ varṣe dvādaśa āgate

70.17

ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः

tataḥ sa tāmamarapuropamāṃ purīṃ niveśya vai vividhajanābhisaṃvṛtām |
narādhipo raghupatipādadarśane dadhe matiṃ raghukulavaṃśavardhanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)