ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्
tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā |
veṣṭitārjunavastraṃ taṃ vidyutsaṃghātapiṃgalam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५.३२॥
14 श्लोक · 32 में से 68
व्याकुल सीता ऊपर देखती हैं और डालियों में छिपे, श्वेत वस्त्र-से, बिजली के समूह-से पीले, मधुर बोलने वाले को देखती हैं। वानर को देखकर वे बहुत डर जाती हैं और लगभग प्राणहीन-सी अचेत हो जाती हैं; फिर होश में आकर सोचती हैं: यह भयानक प्राणी देखा नहीं जाता। क्या यह स्वप्न है? स्वप्न में वानर देखना अशुभ कहा गया है। राम, लक्ष्मण और पिता जनक कुशल रहें। पर यह स्वप्न नहीं हो सकता; राम के शोक से पीड़ित मुझे नींद ही नहीं आती। शायद राम के ध्यान में डूबा मन ऐसी कल्पना करता है। फिर भी वे सोचती हैं कि रूप स्पष्ट है और वह साफ बोलता है। वे बृहस्पति, इन्द्र, ब्रह्मा और अग्नि को प्रणाम करके प्रार्थना करती हैं कि वानर की बात सच हो।
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्
tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā |
veṣṭitārjunavastraṃ taṃ vidyutsaṃghātapiṃgalam
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam |
phullāśokotkarābhāsaṃ taptacāmīkarekṣaṇam
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।
मैथिली चिन्तयामास विस्मयं परमं गता
sātha dṛṣṭvā hariśreṣṭhaṃ vinītavadavasthitam |
maithilī cintayāmāsa vismayaṃ paramaṃ gatā
अहो भीममिदं सत्त्वं वानरस्य दुरासदम् ।
दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा
aho bhīmamidaṃ sattvaṃ vānarasya durāsadam |
durnirīkṣyamidaṃ matvā punareva mumoha sā
विललाप भृशं सीता करुणं भयमोहिता ।
राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी
vilalāpa bhṛśaṃ sītā karuṇaṃ bhayamohitā |
rāma rāmeti duḥkhārtā lakṣmaṇeti ca bhāminī
रुरोद सहसा सीता मन्दमन्दस्वरा सती ।
साथ दृष्ट्वा हरिवरं विनीतवदुपागतम् ।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी
ruroda sahasā sītā mandamandasvarā satī |
sātha dṛṣṭvā harivaraṃ vinītavadupāgatam |
maithilī cintayāmāsa svapno'yamiti bhāminī
सा वीक्षमाणा पृथुभुग्नवक्त्रं
शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिंगप्रवरं महार्हं
वातात्मजं बुद्धिमतां वरिष्ठम्
sā vīkṣamāṇā pṛthubhugnavaktraṃ
śākhāmṛgendrasya yathoktakāram |
dadarśa piṃgapravaraṃ mahārhaṃ
vātātmajaṃ buddhimatāṃ variṣṭham
सा तं समीक्ष्यैव भृशं विपन्ना
गतासुकल्पेव बभूव सीता ।
चिरेण संज्ञां प्रतिलभ्य चैवं
विचिन्तयामास विशालनेत्रा
sā taṃ samīkṣyaiva bhṛśaṃ vipannā
gatāsukalpeva babhūva sītā |
cireṇa saṃjñāṃ pratilabhya caivaṃ
vicintayāmāsa viśālanetrā
स्वप्नो मयायं विकृतोऽद्य दृष्टः
शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय
तथा पितुर्मे जनकस्य राज्ञः
svapno mayāyaṃ vikṛto'dya dṛṣṭaḥ
śākhāmṛgaḥ śāstragaṇairniṣiddhaḥ |
svastyastu rāmāya salakṣmaṇāya
tathā piturme janakasya rājñaḥ
स्वप्नो हि नायं नहि मेऽस्ति निद्रा
शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतो विहीना
तेनेन्दुपूर्णप्रतिमाननेन
svapno hi nāyaṃ nahi me'sti nidrā
śokena duḥkhena ca pīḍitāyāḥ |
sukhaṃ hi me nāsti yato vihīnā
tenendupūrṇapratimānanena
रामेति रामेति सदैव बुद्ध्या
विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपं च कथां तदर्था-
मेवं प्रपश्यामि तथा शृणोमि
rāmeti rāmeti sadaiva buddhyā
vicintya vācā bruvatī tameva |
tasyānurūpaṃ ca kathāṃ tadarthā-
mevaṃ prapaśyāmi tathā śṛṇomi
अहं हि तस्याद्य मनोभवेन
सम्पीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव
तथैव पश्यामि तथा शृणोमि
ahaṃ hi tasyādya manobhavena
sampīḍitā tadgatasarvabhāvā |
vicintayantī satataṃ tameva
tathaiva paśyāmi tathā śṛṇomi
मनोरथः स्यादिति चिन्तयामि
तथापि बुद्ध्यापि वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं
सुव्यक्तरूपश्च वदत्ययं माम्
manorathaḥ syāditi cintayāmi
tathāpi buddhyāpi vitarkayāmi |
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ
suvyaktarūpaśca vadatyayaṃ mām
नमोऽस्तु वाचस्पतये सवज्रिणे
स्वयम्भुवे चैव हुताशनाय ।
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथास्तु नान्यथा
namo'stu vācaspataye savajriṇe
svayambhuve caiva hutāśanāya |
anena coktaṃ yadidaṃ mamāgrato
vanaukasā tacca tathāstu nānyathā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)