एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्
etairanyaiśca bahubhirvākyairvākyaviśāradaḥ |
māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svamālayam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
15 श्लोक · 63 में से 67
सम्पाति कहते हैं कि ऐसे अनेक वचनों से मेरी प्रशंसा और उपदेश करके मुनि अपने आश्रम में चले गए। मैं गुफा से रेंगकर निकला और तुम्हारी प्रतीक्षा में विन्ध्य पर चढ़ा। तब से सौ वर्ष से अधिक बीत गए; देश-काल की प्रतीक्षा में मैंने प्राण धारण किए और अनेक बार देह त्यागने का विचार छोड़ा। वे कहते हैं, यह मैंने दशरथ-पुत्र के स्नेह से नहीं, मुनि की आज्ञा से किया। वानरों से बात करते-करते उनकी आँखों के सामने उनके शरीर पर दो नए पंख उग आते हैं और वे प्रसन्न होते हैं। वे कहते हैं, मुनि के प्रभाव से मेरे पंख फिर उग आए; उद्यम करो, सीता अवश्य मिलेंगी। फिर अपनी उड़ान परखने वे शिखर से उड़ जाते हैं।
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्
etairanyaiśca bahubhirvākyairvākyaviśāradaḥ |
māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svamālayam
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये
kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ |
ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम् ।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः
adya tvetasya kālasya varṣaṃ sāgraśataṃ gatam |
deśakālapratīkṣo'smi hṛdi kṛtvā munervacaḥ
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्
mahāprasthānamāsādya svargate tu niśākare |
māṃ nirdahati saṃtāpo vitarkairbahubhirvṛtam
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम
uditāṃ maraṇe buddhiṃ munivākyairnivartaye |
buddhiryā tena me dattā prāṇānāṃ rakṣaṇe mama
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
sā me'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ |
budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ।
तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ
putraḥ saṃtarjito vāgbhirna trātā maithilī katham |
tasyā vilapitaṃ śrutvā tau ca sītāviyojitau
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ।
तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह
na me daśarathasnehāt putreṇotpāditaṃ priyam |
tasya tvevaṃ bruvāṇasya saṃhatairvānaraiḥ saha
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः
utpetatustadā pakṣau samakṣaṃ vanacāriṇām |
sa dṛṣṭvā svāṃ tanuṃ pakṣairudgatairaruṇacchadaiḥ
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।
निशाकरस्य राजर्षेः प्रसादादमितौजसः
praharṣamatulaṃ lebhe vānarāṃścedamabravīt |
niśākarasya rājarṣeḥ prasādādamitaujasaḥ
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ ।
यौवने वर्तमानस्य ममासीद् यः पराक्रमः
ādityaraśminirdagdhau pakṣau punarupasthitau |
yauvane vartamānasya mamāsīd yaḥ parākramaḥ
तमेवाद्यावगच्छामि बलं पौरुषमेव च ।
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ
tamevādyāvagacchāmi balaṃ pauruṣameva ca |
sarvathā kriyatāṃ yatnaḥ sītāmadhigamiṣyatha
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ।
इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः
pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ |
ityuktvā tān harīn sarvān sampātiḥ patagottamaḥ
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ।
तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः ।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः
utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim |
tasya tad vacanaṃ śrutvā pratisaṃhṛṣṭamānasāḥ |
babhūvurhariśārdūlā vikramābhyudayonmukhāḥ
अथ पवनसमानविक्रमाः
प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखां दिशं ययु-
र्जनकसुतापरिमार्गणोन्मुखाः
atha pavanasamānavikramāḥ
plavagavarāḥ pratilabdhapauruṣāḥ |
abhijidabhimukhāṃ diśaṃ yayu-
rjanakasutāparimārgaṇonmukhāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)