एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः ।
अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्
evamuktvā muniśreṣṭhamarudaṃ bhṛśaduḥkhitaḥ |
atha dhyātvā muhūrtaṃ ca bhagavānidamabravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥
15 श्लोक · 62 में से 67
सम्पाति आगे कहते हैं: जब मैं मुनि के सामने रोया, तो निशाकर ने क्षण भर ध्यान करके कहा कि पुराण में बताया गया एक महान भावी कार्य मैंने सुना है और तप से देखा है। दशरथ नामक राजा के पुत्र राम पिता की आज्ञा से लक्ष्मण के साथ वन जाएँगे और रावण उनकी पत्नी को हर ले जाएगा। इन्द्र सीता को देवताओं के लिए भी दुर्लभ दिव्य अन्न देंगे; उसे इन्द्र का जानकर वे खाने से पहले उसका अग्रभाग राम के लिए अर्पित करेंगी। राम के दूत वानर सीता को खोजते आएँगे; तुम उन्हें सीता का पता बताना। तब तुम्हारे पंख फिर उगेंगे। इस पर्वत पर उस समय की प्रतीक्षा करो; यह भी राम, लक्ष्मण, ब्राह्मणों, गुरुओं, मुनियों और इन्द्र की सेवा है।
एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः ।
अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्
evamuktvā muniśreṣṭhamarudaṃ bhṛśaduḥkhitaḥ |
atha dhyātvā muhūrtaṃ ca bhagavānidamabravīt
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।
चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते
pakṣau ca te prapakṣau ca punaranyau bhaviṣyataḥ |
cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् ।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम
purāṇe sumahatkāryaṃ bhaviṣyaṃ hi mayā śrutam |
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः ।
तस्य पुत्रो महातेजा रामो नाम भविष्यति
rājā daśaratho nāma kaścidikṣvākuvardhanaḥ |
tasya putro mahātejā rāmo nāma bhaviṣyati
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।
तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः
araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati |
tasminnarthe niyuktaḥ san pitrā satyaparākramaḥ
नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति ।
राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः
nairṛto rāvaṇo nāma tasya bhāryāṃ hariṣyati |
rākṣasendro janasthāne avadhyaḥ suradānavaiḥ
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।
न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी
sā ca kāmaiḥ pralobhyantī bhakṣyairbhojyaiśca maithilī |
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः ।
यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्
paramānnaṃ ca vaidehyā jñātvā dāsyati vāsavaḥ |
yadannamamṛtaprakhyaṃ surāṇāmapi durlabham
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति
tadannaṃ maithilī prāpya vijñāyendrādidaṃ tviti |
agramuddhṛtya rāmāya bhūtale nirvapiṣyati
यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः ।
देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति
yadi jīvati me bhartā lakṣmaṇo vāpi devaraḥ |
devatvaṃ gacchatorvāpi tayorannamidaṃ tviti
एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः ।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम
eṣyanti preṣitāstatra rāmadūtāḥ plavaṅgamāḥ |
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṅgama
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि ।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे
sarvathā tu na gantavyamīdṛśaḥ kva gamiṣyasi |
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।
इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि
utsaheyamahaṃ kartumadyaiva tvāṃ sapakṣakam |
ihasthastvaṃ hi lokānāṃ hitaṃ kāryaṃ kariṣyasi
त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः ।
ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च
tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ |
brāhmaṇānāṃ gurūṇāṃ ca munīnāṃ vāsavasya ca
इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ ।
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ।
महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः
icchāmyahamapi draṣṭuṃ bhrātarau rāmalakṣmaṇau |
necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram |
maharṣistvabravīdevaṃ dṛṣṭatattvārthadarśanaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)