किष्किन्धाकाण्ड

सर्ग 64: सागर-तट पर: कौन लाँघेगा?

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-६४॥

22 श्लोक · 64 में से 67

इस अध्याय में क्या होता है

सागर-तट पर: कौन लाँघेगा?

गृध्रराज की बात सुनकर वानर हर्ष से सिंह-से गरजते हुए उछलते हैं और दक्षिण में समुद्र-तट पर जाते हैं। वहाँ वे सारे संसार के प्रतिबिम्ब-से विशाल, भयंकर, तरंगों से गरजते, विशाल जलजीवों से भरे महासागर को देखते हैं। उसका अनन्त विस्तार देखकर वे उदास हो जाते हैं। अंगद उन्हें उत्साहित करते हैं: विषाद सबसे बड़ा दोष है; वह मनुष्य को वैसे मारता है जैसे क्रुद्ध सर्प बालक को। सुबह वे सेना को बुलाते हैं और मरुतों से घिरे इन्द्र-से उनके बीच पूछते हैं कि तुममें से कौन समुद्र लाँघ सकता है? कौन सुग्रीव को सत्यप्रतिज्ञ बनाएगा और वानरों को आनन्द देगा? प्रत्येक बताए कि कितना कूद सकता है। वानर मौन होकर एक-दूसरे को देखते रह जाते हैं।

64.1

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः

ākhyātā gṛdhrarājena samutplutya plavaṅgamāḥ |
saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ

64.2

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः

sampātervacanaṃ śrutvā harayo rāvaṇakṣayam |
hṛṣṭāḥ sāgaramājagmuḥ sītādarśanakāṃkṣiṇaḥ

64.3

अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम्

abhigamya tu taṃ deśaṃ dadṛśurbhīmavikramāḥ |
kṛtsnaṃ lokasya mahataḥ pratibimbamavasthitam

64.4

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः

dakṣiṇasya samudrasya samāsādyottarāṃ diśam |
saṃniveśaṃ tataścakrurharivīrā mahābalāḥ

64.5

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्

prasuptamiva cānyatra krīḍantamiva cānyataḥ |
kvacit parvatamātraiśca jalarāśibhirāvṛtam

64.6

संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः

saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ |
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ

64.7

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्

ākāśamiva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ |
viṣeduḥ sahitāḥ sarve kathaṃ kāryamiti bruvan

64.8

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः

viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt |
āśvāsayāmāsa harīn bhayārtān harisattamaḥ

64.9

न विषादे मनः कार्यं विषादो दोषवत्तरः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः

na viṣāde manaḥ kāryaṃ viṣādo doṣavattaraḥ |
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ

64.10

यो विषादं प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति

yo viṣādaṃ prasahate vikrame samupasthite |
tejasā tasya hīnasya puruṣārtho na siddhyati

64.11

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्

tasyāṃ rātryāṃ vyatītāyāmaṅgado vānaraiḥ saha |
harivṛddhaiḥ samāgamya punarmantramamantrayat

64.12

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता

sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau |
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā

64.13

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः

ko'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet |
anyatra vālitanayādanyatra ca hanūmataḥ

64.14

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः ।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्

tatastān harivṛddhāṃśca tacca sainyamariṃdamaḥ |
anumānyāṅgadaḥ śrīmān vākyamarthavadabravīt

64.15

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्

ka idānīṃ mahātejā laṅghayiṣyati sāgaram |
kaḥ kariṣyati sugrīvaṃ satyasaṃdhamariṃdamam

64.16

को वीरो योजनशतं लङ्घयेत प्लवङ्गमः ।
इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात्

ko vīro yojanaśataṃ laṅghayeta plavaṅgamaḥ |
imāṃśca yūthapān sarvān mocayet ko mahābhayāt

64.17

कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्

kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca |
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam

64.18

कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम्

kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam |
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca vanaukasam

64.19

यदि कश्चित् समर्थो वः सागरप्लवने हरिः ।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्

yadi kaścit samartho vaḥ sāgaraplavane hariḥ |
sa dadātviha naḥ śīghraṃ puṇyāmabhayadakṣiṇām

64.20

अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् ।
स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी

aṅgadasya vacaḥ śrutvā na kaścit kiṃcidabravīt |
stimitevābhavat sarvā sā tatra harivāhinī

64.21

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ।
व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः

punarevāṅgadaḥ prāha tān harīn harisattamaḥ |
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ |
vyapadeśakule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ

64.22

नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् ।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः

nahi vo gamane bhaṅgaḥ kadācit kasyacid bhavet |
bruvadhvaṃ yasya yā śaktiḥ plavane plavagarṣabhāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)