तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्
tathā bruvati tāre tu tārādhipativarcasi |
atha mene hṛtaṃ rājyaṃ hanūmānaṅgadena tat
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
22 श्लोक · 54 में से 67
तार के ऐसा कहने पर हनुमान को लगता है कि अंगद ने राज्य हथिया ही लिया, क्योंकि शुक्ल पक्ष के चन्द्रमा-से अंगद का बल बढ़ रहा है। वे कुशल वचनों से वानरों को अंगद से अलग करते हैं: वानर स्वभाव से चंचल हैं, पत्नी-पुत्रों से बिछुड़कर लम्बे समय तक आज्ञा नहीं मानेंगे। गुफा कोई रक्षा नहीं; लक्ष्मण के वज्र-से बाण पर्वत भी चीर सकते हैं। फिर वे अंगद से कहते हैं: तुम युवराज-पद के योग्य हो, और तुम्हारे चाचा सुग्रीव धर्मात्मा, दृढ़व्रती, सत्यप्रतिज्ञ और तारा के प्रति स्नेहवान हैं; वे तुम्हें कभी हानि नहीं पहुँचाएँगे। सुग्रीव तुमसे प्रेम करते हैं; तुम्हारा और कोई आश्रय नहीं। हनुमान आग्रह करते हैं कि किष्किन्धा लौटो और वानरों में फूट मत डालो।
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्
tathā bruvati tāre tu tārādhipativarcasi |
atha mene hṛtaṃ rājyaṃ hanūmānaṅgadena tat
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।
चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्
buddhyā hyaṣṭāṅgayā yuktaṃ caturbalasamanvitam |
caturdaśaguṇaṃ mene hanūmān vālinaḥ sutam
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया
āpūryamāṇaṃ śaśvacca tejobalaparākramaiḥ |
śaśinaṃ śuklapakṣādau vardhamānamiva śriyā
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।
शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ |
śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः ।
अभिसंधातुमारेभे हनूमानङ्गदं ततः
bharturarthe pariśrāntaṃ sarvaśāstraviśāradaḥ |
abhisaṃdhātumārebhe hanūmānaṅgadaṃ tataḥ
स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।
भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा
sa caturṇāmupāyānāṃ tṛtīyamupavarṇayan |
bhedayāmāsa tān sarvān vānarān vākyasampadā
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ।
भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः
teṣu sarveṣu bhinneṣu tato'bhīṣayadaṅgadam |
bhīṣaṇairvividhairvākyaiḥ kopopāyasamanvitaiḥ
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् ।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhruvam |
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव ।
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया
nityamasthiracittā hi kapayo haripuṃgava |
nājñāpyaṃ viṣahiṣyanti putradāraṃ vinā tvayā
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते ।
यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः
tvāṃ naite hyanurañjeyuḥ pratyakṣaṃ pravadāmi te |
yathāyaṃ jāmbavān nīlaḥ suhotraśca mahākapiḥ
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः ।
दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्
nahyahaṃ te ime sarve sāmadānādibhirguṇaiḥ |
daṇḍena na tvayā śakyāḥ sugrīvādapakarṣitum
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा ।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः
vigṛhyāsanamapyāhurdurbalena balīyasā |
ātmarakṣākarastasmānna vigṛhṇīta durbalaḥ
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम् ।
एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम्
yāṃ cemāṃ manyase dhātrīmetad bilamiti śrutam |
etallakṣmaṇabāṇānāmīṣat kāryaṃ vidāraṇam
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।
लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा
svalpaṃ hi kṛtamindreṇa kṣipatā hyaśaniṃ purā |
lakṣmaṇo niśitairbāṇairbhindyāt patrapuṭaṃ yathā
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः ।
वज्राशनिसमस्पर्शा गिरीणामपि दारकाः
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ |
vajrāśanisamasparśā girīṇāmapi dārakāḥ
अवस्थानं यदैव त्वमासिष्यसि परंतप ।
तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः
avasthānaṃ yadaiva tvamāsiṣyasi paraṃtapa |
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ |
kheditā duḥkhaśayyābhistvāṃ kariṣyanti pṛṣṭhataḥ
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।
तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि
sa tvaṃ hīnaḥ suhṛdbhiśca hitakāmaiśca bandhubhiḥ |
tṛṇādapi bhṛśodvignaḥ spandamānād bhaviṣyasi
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।
अपवृत्तं जिघांसन्तो महावेगा दुरासदाः
na ca jātu na hiṃsyustvāṃ ghorā lakṣmaṇasāyakāḥ |
apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति
asmābhistu gataṃ sārdhaṃ vinītavadupasthitam |
ānupūrvyāttu sugrīvo rājye tvāṃ sthāpayiṣyati
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।
शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्
dharmarājaḥ pitṛvyaste prītikāmo dṛḍhavrataḥ |
śuciḥ satyapratijñaśca sa tvāṃ jātu na nāśayet
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।
तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्
priyakāmaśca te mātustadarthaṃ cāsya jīvitam |
tasyāpatyaṃ ca nāstyanyat tasmādaṅgada gamyatām
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)