किष्किन्धाकाण्ड

सर्ग 55: अंगद का प्रायोपवेशन का निश्चय

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥

23 श्लोक · 55 में से 67

इस अध्याय में क्या होता है

अंगद का प्रायोपवेशन का निश्चय

हनुमान के आदरपूर्ण, धर्मसम्मत वचनों पर अंगद उत्तर देते हैं: सुग्रीव में न स्थिरता है, न पवित्रता, न सरलता, न दया। जो बड़े भाई के जीते-जी उसकी रानी को, जो उसके लिए माता के समान है, ग्रहण करे, वह निन्दनीय है। जिसने भाई को गुफा में बन्द किया और लक्ष्मण के भय से पहले राम को दिया वचन भूल गया, उस पर कैसे विश्वास करें? आज्ञा तोड़कर, असफल होकर मैं किष्किन्धा नहीं लौटूँगा; यहीं अनशन करके प्राण दूँगा। सुग्रीव, राम और लक्ष्मण को मेरा प्रणाम कहना और पुत्र-प्रेमी माता तारा को सांत्वना देना। वे कुश बिछाकर पूर्व की ओर मुख करके रोते हुए बैठ जाते हैं। दुःखी वानर भी साथ बैठकर राम का वनवास, जनस्थान, जटायु की मृत्यु, सीता-हरण और वाली-वध की चर्चा करते हैं।

55.1

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्

śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam |
svāmisatkārasaṃyuktamaṅgado vākyamabravīt

55.2

स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् ।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते

sthairyamātmamanaḥśaucamānṛśaṃsyamathārjavam |
vikramaścaiva dhairyaṃ ca sugrīve nopapadyate

55.3

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः

bhrāturjyeṣṭhasya yo bhāryāṃ jīvato mahiṣīṃ priyām |
dharmeṇa mātaraṃ yastu svīkaroti jugupsitaḥ

55.4

कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना ।
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्

kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā |
yuddhāyābhiniyuktena bilasya pihitaṃ mukham

55.5

सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्

satyāt pāṇigṛhītaśca kṛtakarmā mahāyaśāḥ |
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret

55.6

लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा ।
आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत्

lakṣmaṇasya bhayeneha nādharmabhayabhīruṇā |
ādiṣṭā mārgituṃ sītā dharmastasmin kathaṃ bhavet

55.7

तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि ।
आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः

tasmin pāpe kṛtaghne tu smṛtibhinne calātmani |
āryaḥ ko viśvasejjātu tatkulīno viśeṣataḥ

55.8

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा ।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति

rājye putraḥ pratiṣṭhāpyaḥ saguṇo nirguṇo'pi vā |
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati

55.9

भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम् ।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः

bhinnamantro'parāddhaśca bhinnaśaktiḥ kathaṃ hyaham |
kiṣkindhāṃ prāpya jīveyamanātha iva durbalaḥ

55.10

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्

upāṃśudaṇḍena hi māṃ bandhanenopapādayet |
śaṭhaḥ krūro nṛśaṃsaśca sugrīvo rājyakāraṇāt

55.11

बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् ।
अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः

bandhanāccāvasādānme śreyaḥ prāyopaveśanam |
anujānantu māṃ sarve gṛhaṃ gacchantu vānarāḥ

55.12

अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे

ahaṃ vaḥ pratijānāmi na gamiṣyāmyahaṃ purīm |
ihaiva prāyamāsiṣye śreyo maraṇameva me

55.13

अभिवादनपूर्वं तु राजा कुशलमेव च ।
अभिवादनपूर्वं तु राघवौ बलशालिनौ

abhivādanapūrvaṃ tu rājā kuśalameva ca |
abhivādanapūrvaṃ tu rāghavau balaśālinau

55.14

वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ।
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे

vācyastāto yavīyān me sugrīvo vānareśvaraḥ |
ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me

55.15

मातरं चैव मे तारामाश्वासयितुमर्हथ ।
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी

mātaraṃ caiva me tārāmāśvāsayitumarhatha |
prakṛtyā priyaputrā sā sānukrośā tapasvinī

55.16

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ।
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च

vinaṣṭamiha māṃ śrutvā vyaktaṃ hāsyati jīvitam |
etāvaduktvā vacanaṃ vṛddhāṃstānabhivādya ca

55.17

विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ।
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः

viveśa cāṅgado bhūmau rudan darbheṣu durmanāḥ |
tasya saṃviśatastatra rudanto vānararṣabhāḥ

55.18

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ।
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्

nayanebhyaḥ pramumucuruṣṇaṃ vai vāri duḥkhitāḥ |
sugrīvaṃ caiva nindantaḥ praśaṃsantaśca vālinam

55.19

परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ।
तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः

parivāryāṅgadaṃ sarve vyavasan prāyamāsitum |
tad vākyaṃ vāliputrasya vijñāya plavagarṣabhāḥ

55.20

उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् ।
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः

upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan |
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ

55.21

मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह ।
रामस्य वनवासं च क्षयं दशरथस्य च

mumūrṣavo hariśreṣṭhā etat kṣamamiti sma ha |
rāmasya vanavāsaṃ ca kṣayaṃ daśarathasya ca

55.22

जनस्थानवधं चैव वधं चैव जटायुषः ।
हरणं चैव वैदेह्या वालिनश्च वधं तथा ।
रामकोपं च वदतां हरीणां भयमागतम्

janasthānavadhaṃ caiva vadhaṃ caiva jaṭāyuṣaḥ |
haraṇaṃ caiva vaidehyā vālinaśca vadhaṃ tathā |
rāmakopaṃ ca vadatāṃ harīṇāṃ bhayamāgatam

55.23

स संविशद्भिर्बहुभिर्महीधरो
महाद्रिकूटप्रतिमैः प्लवंगमैः ।
बभूव संनादितनिर्दरान्तरो
भृशं नदद्भिर्जलदैरिवाम्बरम्

sa saṃviśadbhirbahubhirmahīdharo
mahādrikūṭapratimaiḥ plavaṃgamaiḥ |
babhūva saṃnāditanirdarāntaro
bhṛśaṃ nadadbhirjaladairivāmbaram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)