इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् ।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्
ityuktvā hanumāṃstatra cīrakṛṣṇājināmbarām |
abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
19 श्लोक · 51 में से 67
हनुमान वल्कल और काला मृगचर्म धारण किए तपस्विनी से पूछते हैं कि यह गुफा, भवन और सुनहरे वृक्ष किसके हैं; हम भूखे-प्यासे भीतर आए और विस्मित हैं। सब प्राणियों के हित में रत तपस्विनी उत्तर देती हैं: मायावी महासुर मय ने अपनी शक्ति से यह सुनहरा वन बनाया; वह दानवों का विश्वकर्मा था। वह यहाँ बहुत समय सुख से रहा, पर हेमा नामक अप्सरा के प्रति आसक्ति के कारण इन्द्र ने वज्र से उसे मार डाला। ब्रह्मा ने यह स्थान हेमा को दे दिया। मैं मेरुसावर्णि की पुत्री स्वयंप्रभा हूँ और अपनी सखी हेमा के लिए इस भवन की रक्षा करती हूँ, जो देवताओं के नृत्य-गीत में गई है। वे पूछती हैं कि तुम इन दुर्गम वनों में किस कारण और किस प्रयोजन से आए हो।
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् ।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्
ityuktvā hanumāṃstatra cīrakṛṣṇājināmbarām |
abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam |
kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्
mahad dharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ |
imāṃstvevaṃvidhān bhāvān vividhānadbhutopamān
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ |
kasyaite kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च
śucīnyabhyavahārāṇi mūlāni ca phalāni ca |
kāñcanāni vimānāni rājatāni gṛhāṇi ca
तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः
tapanīyagavākṣāṇi maṇijālāvṛtāni ca |
puṣpitāḥ phalavantaśca puṇyāḥ surabhigandhayaḥ
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā |
kāñcanāni ca padmāni jātāni vimale jale
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्
kathaṃ matsyāśca sauvarṇā dṛśyante saha kacchapaiḥ |
ātmanastvanubhāvād vā kasya caitattapobalam
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi |
evamuktā hanumatā tāpasī dharmacāriṇī
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।
मयो नाम महातेजा मायावी वानरर्षभ
pratyuvāca hanūmantaṃ sarvabhūtahite ratā |
mayo nāma mahātejā māyāvī vānararṣabha
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam |
purā dānavamukhyānāṃ viśvakarmā babhūva ha
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।
स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam |
sa tu varṣasahasrāṇi tapastaptvā mahadvane
पितामहाद् वरं लेभे सर्वमौशनसं धनम् ।
विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा
pitāmahād varaṃ lebhe sarvamauśanasaṃ dhanam |
vidhāya sarvaṃ balavān sarvakāmeśvarastadā
उवास सुखितः कालं कंचिदस्मिन् महावने ।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्
uvāsa sukhitaḥ kālaṃ kaṃcidasmin mahāvane |
tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः ।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ |
idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ।
दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam |
duhitā merusāvarṇerahaṃ tasyāḥ svayaṃprabhā
इदं रक्षामि भवनं हेमाया वानरोत्तम ।
मम प्रियसखी हेमा नृत्तगीतविशारदा
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama |
mama priyasakhī hemā nṛttagītaviśāradā
तयादत्तवरा चास्मि रक्षामि भवनं महत् ।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ
tayādattavarā cāsmi rakṣāmi bhavanaṃ mahat |
kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam |
śucīnyabhyavahārāṇi mūlāni ca phalāni ca |
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)