सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः ।
विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ |
vicinoti ca vindhyasya guhāśca gahanāni ca
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥
41 श्लोक · 50 में से 67
तार और अंगद के साथ हनुमान विन्ध्य की गुफाएँ और झाड़ियाँ खोजते हुए उसके दक्षिण-पश्चिमी शिखर पर पहुँचते हैं, जहाँ सुग्रीव की दी अवधि बीत जाती है। भूखे-प्यासे वे लताओं से ढकी ऋक्षबिल नामक बड़ी गुफा देखते हैं, जिससे भीगे हुए क्रौंच, हंस और जलपक्षी निकल रहे हैं। हनुमान अनुमान करते हैं कि भीतर जल है। एक-दूसरे को पकड़े वे अँधेरी गुफा में बहुत दूर जाते हैं और एक प्रकाशमय देश देखते हैं: अग्नि-से दमकते सुनहरे वृक्ष, सुनहरे कमलों और मछलियों वाले सरोवर सोने-चाँदी के भवन, रत्नजड़ित शय्याएँ, सोने के ढेर, दिव्य अन्न-पान। पास ही वल्कल और काला मृगचर्म धारण किए, नियमित आहार वाली, तप से दमकती एक तपस्विनी दिखती हैं। विस्मित वानर उन्हें घेरकर खड़े होते हैं और हनुमान पूछते हैं कि आप कौन हैं।
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः ।
विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ |
vicinoti ca vindhyasya guhāśca gahanāni ca
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा ।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
siṃhaśārdūlajuṣṭāśca guhāśca paritastadā |
viṣameṣu nagendrasya mahāprasravaṇeṣu ca
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत
āsedustasya śailasya koṭiṃ dakṣiṇapaścimām |
teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata
स हि देशो दुरन्वेष्यो गुहागहनवान् महान् ।
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्
sa hi deśo duranveṣyo guhāgahanavān mahān |
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam
परस्परेण रहिता अन्योन्यस्याविदूरतः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः
paraspareṇa rahitā anyonyasyāvidūrataḥ |
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि ।
अङ्गदो युवराजश्च तारश्च वनगोचरः
maindaśca dvividaścaiva hanūmān jāmbavānapi |
aṅgado yuvarājaśca tāraśca vanagocaraḥ
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् ।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam |
vicinvantastatastatra dadṛśurvivṛtaṃ bilam
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः
durgamṛkṣabilaṃ nāma dānavenābhirakṣitam |
kṣutpipāsāparītāstu śrāntāstu salilārthinaḥ
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।
तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्
avakīrṇaṃ latāvṛkṣairdadṛśuste mahābilam |
tatra krauñcāśca haṃsāśca sārasāścāpi niṣkraman
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।
ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम्
jalārdrāścakravākāśca raktāṅgāḥ padmareṇubhiḥ |
tatastad bilamāsādya sugandhi duratikramam
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।
संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः
vismayavyagramanaso babhūvurvānararṣabhāḥ |
saṃjātapariśaṅkāste tad bilaṃ plavagottamāḥ
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः ।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्
abhyapadyanta saṃhṛṣṭāstejovanto mahābalāḥ |
nānāsattvasamākīrṇaṃ daityendranilayopamam
दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः ।
ततः पर्वतकूटाभो हनूमान् मारुतात्मजः
durdarśamiva ghoraṃ ca durvigāhyaṃ ca sarvaśaḥ |
tataḥ parvatakūṭābho hanūmān mārutātmajaḥ
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः ।
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्
abravīd vānarān ghorān kāntāravanakovidaḥ |
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः
vayaṃ sarve pariśrāntā na ca paśyāma maithilīm |
asmāccāpi bilāddhaṃsāḥ krauñcāśca saha sārasaiḥ
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः
jalārdrāścakravākāśca niṣpatanti sma sarvaśaḥ |
nūnaṃ salilavānatra kūpo vā yadi vā hradaḥ
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ।
इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम्
tathā ceme biladvāre snigdhāstiṣṭhanti pādapāḥ |
ityuktāstad bilaṃ sarve viviśustimirāvṛtam
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।
निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः
acandrasūryaṃ harayo dadṛśū romaharṣaṇam |
niśāmya tasmāt siṃhāṃśca tāṃstāṃśca mṛgapakṣiṇaḥ
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।
न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः
praviṣṭā hariśārdūlā bilaṃ timirasaṃvṛtam |
na teṣāṃ sajjate dṛṣṭirna tejo na parākramaḥ
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।
ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः
vāyoriva gatisteṣāṃ dṛṣṭistamasi vartate |
te praviṣṭāstu vegena tad bilaṃ kapikuñjarāḥ
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम् ।
ततस्तस्मिन् बिले भीमे नानापादपसंकुले
prakāśaṃ cābhirāmaṃ ca dadṛśurdeśamuttamam |
tatastasmin bile bhīme nānāpādapasaṃkule
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् ।
ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः
anyonyaṃ sampariṣvajya jagmuryojanamantaram |
te naṣṭasaṃjñāstṛṣitāḥ sambhrāntāḥ salilārthinaḥ
परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः ।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः
paripeturbile tasmin kaṃcit kālamatandritāḥ |
te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ
आलोकं ददृशुर्वीरा निराशा जीविते यदा ।
ततस्तं देशमागम्य सौम्या वितिमिरं वनम्
ālokaṃ dadṛśurvīrā nirāśā jīvite yadā |
tatastaṃ deśamāgamya saumyā vitimiraṃ vanam
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ।
सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान्
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān |
sālāṃstālāṃstamālāṃśca puṃnāgān vañjulān dhavān
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा
campakān nāgavṛkṣāṃśca karṇikārāṃśca puṣpitān |
stabakaiḥ kāñcanaiścitrai raktaiḥ kisalayaistathā
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।
तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान्
āpīḍaiśca latābhiśca hemābharaṇabhūṣitān |
taruṇādityasaṃkāśān vaidūryamayavedikān
बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ।
नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः
bibhrājamānān vapuṣā pādapāṃśca hiraṇmayān |
nīlavaidūryavarṇāśca padminīḥ patagairvṛtāḥ
महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः ।
जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः
mahadbhiḥ kāñcanairvṛkṣairvṛtā bālārkasaṃnibhaiḥ |
jātarūpamayairmatsyairmahadbhiścātha paṅkajaiḥ
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ।
काञ्चनानि विमानानि राजतानि तथैव च
nalinīstatra dadṛśuḥ prasannasalilāyutāḥ |
kāñcanāni vimānāni rājatāni tathaiva ca
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
हैमराजतभौमानि वैदूर्यमणिमन्ति च
tapanīyagavākṣāṇi muktājālāvṛtāni ca |
haimarājatabhaumāni vaidūryamaṇimanti ca
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः ।
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्
dadṛśustatra harayo gṛhamukhyāni sarvaśaḥ |
puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।
मणिकाञ्चनचित्राणि शयनान्यासनानि च
kāñcanabhramarāṃścaiva madhūni ca samantataḥ |
maṇikāñcanacitrāṇi śayanānyāsanāni ca
विविधानि विशालानि ददृशुस्ते समन्ततः ।
हैमराजतकांस्यानां भाजनानां च राशयः
vividhāni viśālāni dadṛśuste samantataḥ |
haimarājatakāṃsyānāṃ bhājanānāṃ ca rāśayaḥ
अगुरूणां च दिव्यानां चन्दनानां च संचयान् ।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च
agurūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān |
śucīnyabhyavahārāṇi mūlāni ca phalāni ca
महार्हाणि च यानानि मधूनि रसवन्ति च ।
दिव्यानामम्बराणां च महार्हाणां च संचयान्
mahārhāṇi ca yānāni madhūni rasavanti ca |
divyānāmambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
कम्बलानां च चित्राणामजिनानां च संचयान् ।
तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान्
kambalānāṃ ca citrāṇāmajinānāṃ ca saṃcayān |
tatra tatra ca vinyastān dīptān vaiśvānaraprabhān
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान् ।
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः
dadṛśurvānarāḥ śubhrāñjātarūpasya saṃcayān |
tatra tatra vicinvanto bile tatra mahāprabhāḥ
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ।
तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्
dadṛśurvānarāḥ śūrāḥ striyaṃ kāṃcidadūrataḥ |
tāṃ ca te dadṛśustatra cīrakṛṣṇājināmbarām
तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।
विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः ।
पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम्
tāpasīṃ niyatāhārāṃ jvalantīmiva tejasā |
vismitā harayastatra vyavatiṣṭhanta sarvaśaḥ |
papraccha hanumāṃstatra kāsi tvaṃ kasya vā bilam
ततो हनूमान् गिरिसंनिकाशः
कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वं भवनं बिलं च
रत्नानि चेमानि वदस्व कस्य
tato hanūmān girisaṃnikāśaḥ
kṛtāñjalistāmabhivādya vṛddhām |
papraccha kā tvaṃ bhavanaṃ bilaṃ ca
ratnāni cemāni vadasva kasya
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)