किष्किन्धाकाण्ड

सर्ग 47: तीन दलों का खाली हाथ लौटना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥

14 श्लोक · 47 में से 67

इस अध्याय में क्या होता है

तीन दलों का खाली हाथ लौटना

राजा की आज्ञा से वानर-प्रमुख अपने-अपने प्रदेश खोजते हैं: सरोवर, नदियाँ, पर्वत, वन, नगर और दुर्ग, और सुग्रीव के बताए सब क्षेत्र। वे दिन में खोजते और रात को एकत्र होकर विश्राम करते, फिर आगे बढ़ते। मास पूरा होने पर विनत पूर्व से, शतबलि उत्तर से और सुषेण पश्चिम से अपनी सेनाओं के साथ सब जगह खोजकर लौटते हैं। वे प्रस्रवण आकर राम और सुग्रीव को प्रणाम करके बताते हैं कि सीता नहीं मिलीं। उन्होंने घने और दुर्गम स्थान खोजे, मार्ग में विशाल प्राणियों को मारा और हर झाड़ी देखी। पर वे कहते हैं, महात्मा हनुमान, जो दक्षिण गए हैं जहाँ रावण होना चाहिए, निश्चय ही वैदेही को खोज लेंगे। वे राम के साथ दक्षिण के समाचार की प्रतीक्षा करते हैं।

47.1

दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा

darśanārthaṃ tu vaidehyāḥ sarvataḥ kapikuñjarāḥ |
vyādiṣṭāḥ kapirājena yathoktaṃ jagmurañjasā

47.2

ते सरांसि सरित्कक्षानाकाशं नगराणि च ।
नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः

te sarāṃsi saritkakṣānākāśaṃ nagarāṇi ca |
nadīdurgāṃstathā deśān vicinvanti samantataḥ

47.3

सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः ।
तत्र देशान् विचिन्वन्ति सशैलवनकाननान्

sugrīveṇa samākhyātāḥ sarve vānarayūthapāḥ |
tatra deśān vicinvanti saśailavanakānanān

47.4

विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः

vicitya divasaṃ sarve sītādhigamane dhṛtāḥ |
samāyānti sma medinyāṃ niśākāleṣu vānarāḥ

47.5

सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान् ।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते

sarvartukāṃśca deśeṣu vānarāḥ saphaladrumān |
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣvahaḥsu te

47.6

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।
कपिराजेन संगम्य निराशाः कपिकुञ्जराः

tadahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ |
kapirājena saṃgamya nirāśāḥ kapikuñjarāḥ

47.7

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः

vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha |
adṛṣṭvā vinataḥ sītāmājagāma mahābalaḥ

47.8

दिशमप्युत्तरां सर्वां विविच्य स महाकपिः ।
आगतः सह सैन्येन भीतः शतबलिस्तदा

diśamapyuttarāṃ sarvāṃ vivicya sa mahākapiḥ |
āgataḥ saha sainyena bhītaḥ śatabalistadā

47.9

सुषेणः पश्चिमामाशां विविच्य सह वानरैः ।
समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे

suṣeṇaḥ paścimāmāśāṃ vivicya saha vānaraiḥ |
sametya māse pūrṇe tu sugrīvamupacakrame

47.10

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन्

taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca |
āsīnaṃ saha rāmeṇa sugrīvamidamabruvan

47.11

विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये

vicitāḥ parvatāḥ sarve vanāni gahanāni ca |
nimnagāḥ sāgarāntāśca sarve janapadāśca ye

47.12

गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसंतताः

guhāśca vicitāḥ sarvā yāśca te parikīrtitāḥ |
vicitāśca mahāgulmā latāvitatasaṃtatāḥ

47.13

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ।
ये चैव गहना देशा विचितास्ते पुनः पुनः

gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca |
sattvānyatipramāṇāni vicitāni hatāni ca |
ye caiva gahanā deśā vicitāste punaḥ punaḥ

47.14

उदारसत्त्वाभिजनो हनूमान्
स मैथिलीं ज्ञास्यति वानरेन्द्र ।
दिशं तु यामेव गता तु सीता
तामास्थितो वायुसुतो हनूमान्

udārasattvābhijano hanūmān
sa maithilīṃ jñāsyati vānarendra |
diśaṃ tu yāmeva gatā tu sītā
tāmāsthito vāyusuto hanūmān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)