बालकाण्ड

सर्ग 23: कामाश्रम में रात्रि-विश्राम

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

22 श्लोक · 23 में से 77

इस अध्याय में क्या होता है

कामाश्रम में रात्रि-विश्राम

भोर में विश्वामित्र राम को उस श्लोक से जगाते हैं जो आज भी सनातनी घरों में गाया जाता है: 'कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते', उठो, प्रातः सन्ध्या का समय हो गया। वे सरयू और पवित्र गंगा के संगम पर पहुँचते हैं और हज़ारों वर्षों से तप करते ऋषियों का आश्रम देखते हैं। राम पूछते हैं कि यह किसका आश्रम है। विश्वामित्र बताते हैं कि यहाँ तब देहधारी कन्दर्प ने तप में लीन भगवान रुद्र को विचलित किया था, और महादेव ने दृष्टि से उसका शरीर भस्म कर दिया। तभी से काम अनंग कहलाता है और यह प्रदेश अंग। यहाँ के ऋषि शिव के शिष्य हैं। तपस्वी उनका स्वागत करते हैं, और तीनों वहाँ सुख से रात बिताते हैं।

23.1

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे

prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ |
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare

23.2

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्

kausalyā suprajā rāma pūrvā saṃdhyā pravartate |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam

23.3

तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्

tasyarṣeḥ paramodāraṃ vacaḥ śrutvā narottamau |
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam

23.4

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः

kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam |
abhivādyātisaṃhṛṣṭau gamanāyābhitasthatuḥ

23.5

तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः संगमे शुभे

tau prayāntau mahāvīryau divyāṃ tripathagāṃ nadīm |
dadṛśāte tatastatra sarayvāḥ saṃgame śubhe

23.6

तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः

tatrāśramapadaṃ puṇyamṛṣīṇāṃ bhāvitātmanām |
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ

23.7

तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः

taṃ dṛṣṭvā paramaprītau rāghavau puṇyamāśramam |
ūcatustaṃ mahātmānaṃ viśvāmitramidaṃ vacaḥ

23.8

कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।
भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ

kasyāyamāśramaḥ puṇyaḥ ko nvasminvasate pumān |
bhagavañśrotumicchāvaḥ paraṃ kautūhalaṃ hi nau

23.9

तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः

tayostadvacanaṃ śrutvā prahasya munipuṅgavaḥ |
abravīcchrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ

23.10

कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।
तपस्यन्तमिह स्थाणुं नियमेन समाहितम्

kandarpo mūrtimānāsītkāma ityucyate budhaiḥ |
tapasyantamiha sthāṇuṃ niyamena samāhitam

23.11

कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुंकृतश्च महात्मना

kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam |
dharṣayāmāsa durmedhā huṃkṛtaśca mahātmanā

23.12

अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन ।
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः

avadhyātaśca rudreṇa cakṣuṣā raghunandana |
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ

23.13

तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह

tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā |
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha

23.14

अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह

anaṅga iti vikhyātastadā prabhṛti rāghava |
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha

23.15

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा वीर तेषां पापं न विद्यते

tasyāyamāśramaḥ puṇyastasyeme munayaḥ purā |
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate

23.16

इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्

ihādya rajanīṃ rāma vasema śubhadarśana |
puṇyayoḥ saritormadhye śvastariṣyāmahe vayam

23.17

अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम्

abhigacchāmahe sarve śucayaḥ puṇyamāśramam |
iha vāsaḥ paro'smākaṃ sukhaṃ vastyāmahe niśām

23.18

स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा

snātāśca kṛtajapyāśca hutahavyā narottama |
teṣāṃ saṃvadatāṃ tatra tapodīrgheṇa cakṣuṣā

23.19

विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।
अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे

vijñāya paramaprītā munayo harṣamāgaman |
arghyaṃ pādyaṃ tathā''tithyaṃ nivedya kuśikātmaje

23.20

रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्

rāmalakṣmaṇayoḥ paścādakurvannatithikriyām |
satkāraṃ samanuprāpya kathābhirabhirañjayan

23.21

यथार्हमजपन् संध्यामृषयस्ते समाहिताः ।
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह

yathārhamajapan saṃdhyāmṛṣayaste samāhitāḥ |
tatra vāsibhirānītā munibhiḥ suvrataiḥ saha

23.22

न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा ।
कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः

nyavasan susukhaṃ tatra kāmāśramapade tathā |
kathābhirabhirāmabhirabhiramau nṛpātmajau |
ramayāmāsa dharmātmā kauśiko munipuṅgavaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)