बालकाण्ड

सर्ग 21: वसिष्ठ दशरथ को राम को भेजने हेतु मनाते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥

22 श्लोक · 21 में से 77

इस अध्याय में क्या होता है

वसिष्ठ दशरथ को राम को भेजने हेतु मनाते हैं

विश्वामित्र क्रोध से कहते हैं: वचन देकर अब तुम उसे तोड़ना चाहते हो, यह रघुवंशियों को शोभा नहीं देता। यदि यही तुम्हें प्रिय है तो मैं जैसे आया था वैसे ही चला जाता हूँ। तब वसिष्ठ राजा को समझाते हैं। इक्ष्वाकु कुल में जन्म लेकर धर्म न छोड़ें; वचन तोड़ने से यज्ञ और दान का सारा पुण्य नष्ट हो जाता है। विश्वामित्र की रक्षा में राम वैसे ही सुरक्षित हैं जैसे अग्नि से घिरा अमृत। ये मुनि मूर्तिमान धर्म हैं। कृशाश्व के पुत्र, दक्ष की कन्याओं जया और सुप्रभा से जन्मे दिव्य अस्त्र, इन्हीं के पास हैं। ये स्वयं राक्षसों को मार सकते हैं; राम को उन्हीं के हित के लिए माँग रहे हैं। आश्वस्त होकर दशरथ प्रसन्नता से सहमत होते हैं।

21.1

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्

tacchrutvā vacanaṃ tasya snehaparyākulākṣaram |
samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim

21.2

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः

pūrvamarthaṃ pratiśrutya pratijñāṃ hātumicchasi |
rāghavāṇāmayukto'yaṃ kulasyāsya viparyayaḥ

21.3

यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः

yadīdaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam |
mithyāpratijñaḥ kākutstha sukhī bhava suhdvṛtaḥ

21.4

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना देवानां च भयं महत्

tasya roṣaparītasya viśvāmitrasya dhīmataḥ |
cacāla vasudhā kṛtsnā devānāṃ ca bhayaṃ mahat

21.5

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्

trastarūpaṃ tu vijñāya jagatsarvaṃ mahānṛṣiḥ |
nṛpatiṃ suvrato dhīro vasiṣṭho vākyamabravīt

21.6

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि

ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ |
dhṛtimān suvrataḥ śrīmān na dharmaṃ hātumarhasi

21.7

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि

triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ |
svadharmaṃ pratipadyasva nādharmaṃ voḍhumarhasi

21.8

प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय

pratiśrutya kariṣyeti uktaṃ vākyamakurvataḥ |
iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya

21.9

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा

kṛtāstramakṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ |
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā

21.10

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष विद्याधिको लोके तपसश्च परायणम्

eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ |
eṣa vidyādhiko loke tapasaśca parāyaṇam

21.11

एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन

eṣo'strān vividhān vetti trailokye sacarācare |
nainamanyaḥ pumān vetti na ca vetsyanti kecana

21.12

न देवा नर्षयः केचिन्नामरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

na devā narṣayaḥ kecinnāmarā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahoragāḥ

21.13

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति

sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ |
kauśikāya purā dattā yadā rājyaṃ praśāsati

21.14

तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः

te'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ |
naikarūpā mahāvīryā dīptimanto jayāvahāḥ

21.15

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्

jayā ca suprabhā caiva dakṣakanye sumadhyame |
te suvāte'straśastrāṇi śataṃ paramabhāsvaram

21.16

पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् ।
वधायासुरसैन्यानामप्रमेयानुरूपिणः

pañcāśataṃ sutām̐llebhe jayā labdhavarā varān |
vadhāyāsurasainyānāmaprameyānurūpiṇaḥ

21.17

सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः ।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः

suprabhājanayaccāpi putrān pañcāśataṃ punaḥ |
saṃhārān nāma durdharṣān durākrāmān balīyasaḥ

21.18

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्

tāni cāstrāṇi vettyeṣa yathāvat kuśikātmajaḥ |
apūrvāṇāṃ ca janane śakto bhūyaśca dharmavit

21.19

तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः ।
न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव

tenāsya munimukhyasya dharmajñasya mahātmanaḥ |
na kiñcidastyaviditaṃ bhūtaṃ bhavyam ca rāghava

21.20

एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं गन्तुमर्हसि

evaṃvīryo mahātejā viśvāmitro mahāyaśāḥ |
na rāmagamane rājan saṃśayaṃ gantumarhasi

21.21

तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते

teṣāṃ nigrahaṇe śaktaḥ svayaṃ ca kuśikātmajaḥ |
tava putrahitārthāya tvāmupetyābhiyācate

21.22

इति मुनिवचनात् प्रसन्नचित्तो
रघुवृषभः च मुमोद पार्थिवाग्र्यः ।
गमनमभिरुरोच राघवस्य
प्रथितयशाः कुशिकात्मजाय बुद्ध्या

iti munivacanāt prasannacitto
raghuvṛṣabhaḥ ca mumoda pārthivāgryaḥ |
gamanamabhiruroca rāghavasya
prathitayaśāḥ kuśikātmajāya buddhyā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)