तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्
tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam |
muhūrtamiva niḥsaṃjñaḥ saṃjñāvānidamabravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥
28 श्लोक · 20 में से 77
होश आने पर दशरथ अनुनय करते हैं। कमलनयन राम अभी सोलह वर्ष के भी नहीं हैं और उन्होंने राक्षसों से युद्ध नहीं देखा। मेरी सेना ले जाइए, मुझे ले चलिए, मैं अपनी अक्षौहिणी के साथ स्वयं उनसे लड़ूँगा। मैं साठ हज़ार वर्ष का हूँ और राम मुझे बड़ी कठिनाई से मिले हैं; वे ज्येष्ठ हैं, सबसे प्रिय हैं, उनके बिना मैं जी नहीं सकता। वे पूछते हैं कि इन राक्षसों के पीछे कौन है। विश्वामित्र पुलस्त्य वंश के राक्षसराज रावण का नाम लेते हैं, जो मारीच और सुबाहु को यज्ञ भंग करने भेजता है। रावण का नाम सुनकर राजा कहते हैं कि उसके सामने तो मैं भी नहीं टिक सकता, देवता भी नहीं टिकते। पुत्र नहीं दूँगा। यह सुनकर विश्वामित्र का क्रोध घी पड़ी अग्नि की तरह भड़क उठता है।
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्
tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam |
muhūrtamiva niḥsaṃjñaḥ saṃjñāvānidamabravīt
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः
ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ |
na yuddhayogyatāmasya paśyāmi saha rākṣasaiḥ
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः ।
अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः
iyamakṣauhiṇī senā yasyāhaṃ patirīśvaraḥ |
anayā sahito gatvā yoddhāhaṃ tairniśācaraiḥ
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि
ime śūrāśca vikrāntā bhṛtyā me'straviśāradāḥ |
yogyā rakṣogaṇairyoddhuṃ na rāmaṃ netumarhasi
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः
ahameva dhanuṣpāṇirgoptā samaramūrdhani |
yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि
nirvighnā vratacaryā sā bhaviṣyati surakṣitā |
ahaṃ tatra gamiṣyāmi na rāmaṃ netumarhasi
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः
bālo hyakṛtavidyaśca na ca vetti balābalam |
na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः ।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे
na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi rākṣasāḥ |
viprayukto hi rāmeṇa muhūrtamapi notsahe
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत
jīvituṃ muniśārdūla na rāmaṃ netumarhasi |
yadi vā rāghavaṃ brahman netumicchasi suvrata
चतुरङ्गसमायुक्तं मया सह च तं नय ।
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक
caturaṅgasamāyuktaṃ mayā saha ca taṃ naya |
ṣaṣṭirvarṣasahasrāṇi jātasya mama kauśika
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि ।
चतुर्णामात्मजानां हि प्रीतिः परमिका मम
kṛcchreṇotpāditaścāyaṃ na rāmaṃ netumarhasi |
caturṇāmātmajānāṃ hi prītiḥ paramikā mama
ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि ।
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते
jyeṣṭhe dharmapradhāneca na rāmaṃ netumarhasi |
kiṃvīryā rākṣasāste ca kasya putrāśca ke ca te
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव ।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्
kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava |
kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।
सर्वं मे शंस भगवन् कथं तेषां मया रणे
māmakairvā balairbrahman mayā vā kūṭayodhinām |
sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत
sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ |
tasya tad vacanaṃ śrutvā viśvāmitro'bhyabhāṣata
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ |
sa brahmaṇā dattavarastrailokyaṃ bādhate bhṛśam
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।
श्रूयते च महाराज रावणो राक्षसाधिपः
mahābalo mahāvīryo rākṣasairbahubhirvṛtaḥ |
śrūyate ca mahārāja rāvaṇo rākṣasādhipaḥ
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः
sākṣādvaiśravaṇabhrātā putro viśravaso muneḥ |
yadā na khalu yajñasya vighnakartā mahābalaḥ
तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः
tena saṃcoditau tau tu rākṣasau sumahābalau |
mārīcaśca subāhuśca yajñavighnaṃ kariṣyataḥ
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः
ityukto muninā tena rājovāca muniṃ tadā |
nahi śakto'smi saṃgrāme sthātuṃ tasya durātmanaḥ
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः
sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake |
mama caivālpabhāgyasya daivataṃ hi bhavān guruḥ
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि
devadānavagandharvā yakṣāḥ patagapannagāḥ |
na śaktā rāvaṇaṃ soḍhuṃ kiṃ punarmānavā yudhi
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः ।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः
sa tu vīryavatāṃ vīryamādatte yudhi rāvaṇaḥ |
tena cāhaṃ na śakto'smi saṃyoddhuṃ tasya vā balaiḥ
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।
कथमप्यमरप्रख्यं संग्रामाणामकोविदम्
sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ |
kathamapyamaraprakhyaṃ saṃgrāmāṇāmakovidam
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः
bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam |
atha kālopamau yuddhe sutau sundopasundayoḥ
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ
yajñavighnakarau tau te naiva dāsyāmi putrakam |
mārīcaśca subāhuśca vīryavantau suśikṣitau
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः ।
अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः
tayoranyataraṃ yoddhuṃ yāsyāmi sasuhṛdgaṇaḥ |
anyathā tvanuneṣyāmi bhavantaṃ sahabāndhavaḥ
इति नरपतिजल्पनात् द्विजेन्द्रं
कुशिकसुतं सुमहान् विवेश मन्युः ।
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्ज्वलितो महर्षिवह्निः
iti narapatijalpanāt dvijendraṃ
kuśikasutaṃ sumahān viveśa manyuḥ |
suhuta iva makhe'gnirājyasiktaḥ
samabhavadujjvalito maharṣivahniḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)