अयोध्याकाण्ड

सर्ग 42: दशरथ कैकेयी को त्यागकर कौसल्या के पास

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥

35 श्लोक · 42 में से 119

इस अध्याय में क्या होता है

दशरथ कैकेयी को त्यागकर कौसल्या के पास

जब तक राम के रथ की धूल दिखती है, दशरथ उसी को देखते रहते हैं; उसके ओझल होते ही वे भूमि पर गिर पड़ते हैं। कौसल्या उनकी दाहिनी भुजा थामती हैं। राजा कैकेयी से कहते हैं, मुझे मत छुओ; मैं तुम्हें देखना नहीं चाहता; तुम न मेरी पत्नी हो, न सम्बन्धी। यदि भरत इस राज्य से प्रसन्न हो, तो उसका दिया पिण्डदान मुझ तक न पहुँचे। धूल से सने राजा लौटते हुए सोचते हैं कि राम वन में नंगी धरती पर पत्थर का तकिया लगाकर सो रहे होंगे। वे कौसल्या के भवन ले जाए जाते हैं। आधी रात को वे पुकारते हैं: कौसल्या, मैं तुम्हें देख नहीं पा रहा; अपने हाथ से मुझे छुओ। मेरी दृष्टि राम के साथ चली गई और लौटी नहीं।

42.1

यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी

yāvat tu niryatastasya rajorūpamadṛśyata |
naivekṣvākuvarastāvat saṃjahārātmacakṣuṣī

42.2

यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने

yāvad rājā priyaṃ putraṃ paśyatyatyantadhārmikam |
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane

42.3

न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
तदार्तश्च निषण्णश्च पपात धरणीतले

na paśyati rajo'pyasya yadā rāmasya bhūmipaḥ |
tadārtaśca niṣaṇṇaśca papāta dharaṇītale

42.4

तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।
परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा

tasya dakṣiṇamanvāgāt kausalyā bāhumaṅganā |
paraṃ cāsyānvagāt pārśvaṃ kaikeyī sā sumadhyamā

42.5

तां नयेन च सम्पन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः

tāṃ nayena ca sampanno dharmeṇa vinayena ca |
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ

42.6

कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये ।
नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी

kaikeyi māmakāṅgāni mā sprākṣīḥ pāpaniścaye |
nahi tvāṃ draṣṭumicchāmi na bhāryā na ca bāndhavī

42.7

ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्

ye ca tvāmanujīvanti nāhaṃ teṣāṃ na te mama |
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmyaham

42.8

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।
अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च

agṛhṇāṃ yacca te pāṇimagniṃ paryaṇayaṃ ca yat |
anujānāmi tat sarvamasmiṃlloke paratra ca

42.9

भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम् ।
यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्

bharataścet pratītaḥ syād rājyaṃ prāpyaitadavyayam |
yanme sa dadyāt pitrarthaṃ mā māṃ taddattamāgamat

42.10

अथ रेणुसमुद्ध्वस्तं समुत्थाप्य नराधिपम् ।
न्यवर्तत तदा देवी कौसल्या शोककर्शिता

atha reṇusamuddhvastaṃ samutthāpya narādhipam |
nyavartata tadā devī kausalyā śokakarśitā

42.11

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्

hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnimiva pāṇinā |
anvatapyata dharmātmā putraṃ saṃcintya rāghavam

42.12

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu |
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā

42.13

विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्

vilalāpa sa duḥkhārtaḥ priyaṃ putramanusmaran |
nagarāntamanuprāptaṃ buddhvā putramathābravīt

42.14

वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam |
padāni pathi dṛśyante sa mahātmā na dṛśyate

42.15

यः सुखेनोपधानेषु शेते चन्दनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः

yaḥ sukhenopadhāneṣu śete candanarūṣitaḥ |
vījyamāno mahārhābhiḥ strībhirmama sutottamaḥ

42.16

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते

sa nūnaṃ kvacidevādya vṛkṣamūlamupāśritaḥ |
kāṣṭhaṃ vā yadi vāśmānamupadhāya śayiṣyate

42.17

उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः ।
विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃsuguṇṭhitaḥ |
viniḥśvasan prasravaṇāt kareṇūnāmivarṣabhaḥ

42.18

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत्

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ |
rāmamutthāya gacchantaṃ lokanāthamanāthavat

42.19

सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति

sā nūnaṃ janakasyeṣṭā sutā sukhasadocitā |
kaṇṭakākramaṇaklāntā vanamadya gamiṣyati

42.20

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्

anabhijñā vanānāṃ sā nūnaṃ bhayamupaiṣyati |
śvapadānarditaṃ śrutvā gambhīraṃ romaharṣaṇam

42.21

सकामा भव कैकेयि विधवा राज्यमावस ।
नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे

sakāmā bhava kaikeyi vidhavā rājyamāvasa |
nahi taṃ puruṣavyāghraṃ vinā jīvitumutsahe

42.22

इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्

ityevaṃ vilapan rājā janaughenābhisaṃvṛtaḥ |
apasnāta ivāriṣṭaṃ praviveśa gṛhottamam

42.23

शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम् ।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्

śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇavedikām |
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām

42.24

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्

tāmavekṣya purīṃ sarvāṃ rāmamevānucintayan |
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam

42.25

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च

mahāhradamivākṣobhyaṃ suparṇena hṛtoragam |
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca

42.26

अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः ।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्

atha gadgadaśabdastu vilapan vasudhādhipaḥ |
uvāca mṛdu mandārthaṃ vacanaṃ dīnamasvaram

42.27

कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति

kausalyāyā gṛhaṃ śīghraṃ rāmamāturnayantu mām |
nahyanyatra mamāśvāso hṛdayasya bhaviṣyati

42.28

इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः ।
कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्

iti bruvantaṃ rājānamanayan dvāradarśinaḥ |
kausalyāyā gṛhaṃ tatra nyavesyata vinītavat

42.29

ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः

tatastatra praviṣṭasya kausalyāyā niveśanam |
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ

42.30

पुत्रद्वयविहीनं च स्नुषया च विवर्जितम् ।
अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्

putradvayavihīnaṃ ca snuṣayā ca vivarjitam |
apaśyad bhavanaṃ rājā naṣṭacandramivāmbaram

42.31

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।
उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ

tacca dṛṣṭvā mahārājo bhujamudyamya vīryavān |
uccaiḥsvareṇa prākrośaddhā rāma vijahāsi nau

42.32

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ |
pariṣvajanto ye rāmaṃ drakṣyanti punarāgatam

42.33

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्

atha rātryāṃ prapannāyāṃ kālarātryāmivātmanaḥ |
ardharātre daśarathaḥ kausalyāmidamabravīt

42.34

न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa |
rāmaṃ me'nugatā dṛṣṭiradyāpi na nivartate

42.35

तं राममेवानुविचिन्तयन्तं
समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा
विनिश्वसन्तं विललाप कृच्छ्रम्

taṃ rāmamevānuvicintayantaṃ
samīkṣya devī śayane narendram |
upopaviśyādhikamārtarūpā
viniśvasantaṃ vilalāpa kṛcchram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)