अरण्यकाण्ड

सर्ग 8: सुतीक्ष्ण से विदा

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टमः सर्गः ॥३-८॥

20 श्लोक · 8 में से 75

इस अध्याय में क्या होता है

सुतीक्ष्ण से विदा

सुतीक्ष्ण से सम्मानित श्रीराम आश्रम में रात बिताकर प्रातःकाल जागते हैं। सीता के साथ वे कमल-सुगन्ध वाले शीतल जल से स्नान करते हैं, अग्नि और देवताओं की पूजा करते हैं और मुनियों को प्रणाम करते हैं। फिर वे ऋषि से आज्ञा माँगते हैं कि सूर्य के प्रचण्ड होने से पहले दण्डकवन के अन्य मुनियों के आश्रम देखने जाएँ। सुतीक्ष्ण उन्हें गले लगाकर आशीर्वाद देते हैं। वे आगे के वन का वर्णन करते हैं, जहाँ फल-मूल प्रचुर हैं, वन फूलों से भरे हैं, मृगों के झुंड और पक्षी शान्त रहते हैं, और लौटकर फिर आने को कहते हैं। सीता दोनों भाइयों को सुन्दर तरकश, धनुष और चमकती तलवारें देती हैं। तरकश बाँधकर और टंकार करते धनुष उठाकर राम और लक्ष्मण आश्रम से निकल पड़ते हैं।

8.1

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ।
परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत

rāmastu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ |
pariṇāmya niśāṃ tatra prabhāte pratyabudhyata

8.2

उत्थाय च यथाकालं राघवः सह सीतया ।
उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना

utthāya ca yathākālaṃ rāghavaḥ saha sītayā |
upaspṛśya suśītena toyenotpalagandhinā

8.3

अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ।
काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने

atha te'gniṃ surāṃścaiva vaidehī rāmalakṣmaṇau |
kālyaṃ vidhivadabhyarcya tapasviśaraṇe vane

8.4

उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः ।
सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्

udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ |
sutīkṣṇamabhigamyedaṃ ślakṣṇaṃ vacanamabruvan

8.5

सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः ।
आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः

sukhoṣitāḥ sma bhagavaṃstvayā pūjyena pūjitāḥ |
āpṛcchāmaḥ prayāsyāmo munayastvarayanti naḥ

8.6

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ।
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्

tvarāmahe vayaṃ draṣṭuṃ kṛtsnamāśramamaṇḍalam |
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām

8.7

अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः ।
धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः

abhyanujñātumicchāmaḥ sahaibhirmunipuṃgavaiḥ |
dharmanityaistapodāntairviśikhairiva pāvakaiḥ

8.8

अविषह्यातपो यावत् सूर्यो नातिविराजते ।
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः

aviṣahyātapo yāvat sūryo nātivirājate |
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ

8.9

तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ।
ववन्दे सहसौमित्रिः सीतया सह राघवः

tāvadicchāmahe gantumityuktvā caraṇau muneḥ |
vavande sahasaumitriḥ sītayā saha rāghavaḥ

8.10

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः ।
गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्

tau saṃspṛśantau caraṇāvutthāpya munipuṃgavaḥ |
gāḍhamāśliṣya sasnehamidaṃ vacanamabravīt

8.11

अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।
सीतया चानया सार्धं छाययेवानुवृत्तया

ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha |
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā

8.12

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् ।
एषां तपस्विनां वीर तपसा भावितात्मनाम्

paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām |
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām

8.13

सुप्राज्यफलमूलानि पुष्पितानि वनानि च ।
प्रशस्तमृगयूथानि शान्तपक्षिगणानि च

suprājyaphalamūlāni puṣpitāni vanāni ca |
praśastamṛgayūthāni śāntapakṣigaṇāni ca

8.14

फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च ।
कारण्डवविकीर्णानि तटाकानि सरांसि च

phullapaṅkajakhaṇḍāni prasannasalilāni ca |
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca

8.15

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।
रमणीयान्यरण्यानि मयूराभिरुतानि च

drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca |
ramaṇīyānyaraṇyāni mayūrābhirutāni ca

8.16

गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।
आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति

gamyatāṃ vatsa saumitre bhavānapi ca gacchatu |
āgantavyaṃ ca te dṛṣṭvā punarevāśramaṃ prati

8.17

एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः ।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे

evamuktastathetyuktvā kākutsthaḥ sahalakṣmaṇaḥ |
pradakṣiṇaṃ muniṃ kṛtvā prasthātumupacakrame

8.18

ततः शुभतरे तूणी धनुषी चायतेक्षणा ।
ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः

tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā |
dadau sītā tayorbhrātroḥ khaḍgau ca vimalau tataḥ

8.19

आबध्य च शुभे तूणी चापे चादाय सस्वने ।
निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ

ābadhya ca śubhe tūṇī cāpe cādāya sasvane |
niṣkrāntāvāśramād gantumubhau tau rāmalakṣmaṇau

8.20

शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा ।
प्रस्थितौ धृतचापासी सीतया सह राघवौ

śīghraṃ tau rūpasampannāvanujñātau maharṣiṇā |
prasthitau dhṛtacāpāsī sītayā saha rāghavau

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)