अरण्यकाण्ड

सर्ग 7: सुतीक्ष्ण मुनि के आश्रम में

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तमः सर्गः ॥३-७॥

24 श्लोक · 7 में से 75

इस अध्याय में क्या होता है

सुतीक्ष्ण मुनि के आश्रम में

भाई, सीता और मुनियों के साथ श्रीराम लम्बा मार्ग तय करते हैं, जल से भरी नदियाँ पार करते हैं और मेरु के समान ऊँचा पर्वत तथा अनेक वृक्षों वाले वन में सुतीक्ष्ण मुनि का आश्रम देखते हैं। राम अपना परिचय देते हैं। सुतीक्ष्ण उन्हें गले लगाकर कहते हैं कि मैं आपकी ही प्रतीक्षा में था और अपने अर्जित लोकों में जाने के लिए इस देह को नहीं छोड़ा। वे वे लोक राम को देना चाहते हैं; राम विनय से कहते हैं कि वे अपने लोक स्वयं जीतेंगे, बस रहने का स्थान बता दें। मुनि उन्हें यहीं रहने को कहते हैं, यद्यपि यहाँ मृगों के झुंड निर्भय आते-जाते हैं। राम कहते हैं कि उन्हें मारना मुझे उचित नहीं लगेगा, और सन्ध्या-वन्दन करके वहीं रात बिताते हैं।

7.1

रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः

rāmastu sahito bhrātrā sītayā ca paraṃtapaḥ |
sutīkṣṇasyāśramapadaṃ jagāma saha tairdvijaiḥ

7.2

स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।
ददर्श विमलं शैलं महामेरुमिवोन्नतम्

sa gatvā dūramadhvānaṃ nadīstīrtvā bahūdakāḥ |
dadarśa vimalaṃ śailaṃ mahāmerumivonnatam

7.3

ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ।
काननं तौ विविशतुः सीतया सह राघवौ

tatastadikṣvākuvarau satataṃ vividhairdrumaiḥ |
kānanaṃ tau viviśatuḥ sītayā saha rāghavau

7.4

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्

praviṣṭastu vanaṃ ghoraṃ bahupuṣpaphaladrumam |
dadarśāśramamekānte cīramālāpariṣkṛtam

7.5

तत्र तापसमासीनं मलपङ्कजधारिणम् ।
रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत

tatra tāpasamāsīnaṃ malapaṅkajadhāriṇam |
rāmaḥ sutīkṣṇaṃ vidhivat tapodhanamabhāṣata

7.6

रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।
तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम

rāmo'hamasmi bhagavan bhavantaṃ draṣṭumāgataḥ |
tanmābhivada dharmajña maharṣe satyavikrama

7.7

स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्

sa nirīkṣya tato dhīro rāmaṃ dharmabhṛtāṃ varam |
samāśliṣya ca bāhubhyāmidaṃ vacanamabravīt

7.8

स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर ।
आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम्

svāgataṃ te raghuśreṣṭha rāma satyabhṛtāṃ vara |
āśramo'yaṃ tvayā''krāntaḥ sanātha iva sāmpratam

7.9

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।
देवलोकमितो वीर देहं त्यक्त्वा महीतले

pratīkṣamāṇastvāmeva nārohe'haṃ mahāyaśaḥ |
devalokamito vīra dehaṃ tyaktvā mahītale

7.10

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।
इहोपयातः काकुत्स्थ देवराजः शतक्रतुः

citrakūṭamupādāya rājyabhraṣṭo'si me śrutaḥ |
ihopayātaḥ kākutstha devarājaḥ śatakratuḥ

7.11

उपागम्य च मे देवो महादेवः सुरेश्वरः ।
सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा

upāgamya ca me devo mahādevaḥ sureśvaraḥ |
sarvālm̐ lokāñjitānāha mama puṇyena karmaṇā

7.12

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः

teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā |
matprasādāt sabhāryastvaṃ viharasva salakṣmaṇaḥ

7.13

तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ।
प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः

tamugratapasaṃ dīptaṃ maharṣiṃ satyavādinam |
pratyuvācātmavān rāmo brahmāṇamiva vāsavaḥ

7.14

अहमेवाहरिष्यामि स्वयं लोकान् महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने

ahamevāhariṣyāmi svayaṃ lokān mahāmune |
āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane

7.15

भवान् सर्वत्र कुशलः सर्वभूतहिते रतः ।
आख्यातं शरभङ्गेन गौतमेन महात्मना

bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ |
ākhyātaṃ śarabhaṅgena gautamena mahātmanā

7.16

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।
अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः

evamuktastu rāmeṇa maharṣirlokaviśrutaḥ |
abravīnmadhuraṃ vākyaṃ harṣeṇa mahatā yutaḥ

7.17

अयमेवाश्रमो राम गुणवान् रम्यतामिति ।
ऋषिसंघानुचरितः सदा मूलफलैर्युतः

ayamevāśramo rāma guṇavān ramyatāmiti |
ṛṣisaṃghānucaritaḥ sadā mūlaphalairyutaḥ

7.18

इममाश्रममागम्य मृगसंघा महीयसः ।
अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः

imamāśramamāgamya mṛgasaṃghā mahīyasaḥ |
ahatvā pratigacchanti lobhayitvākutobhayāḥ

7.19

नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः

nānyo doṣo bhavedatra mṛgebhyo'nyatra viddhi vai |
tacchrutvā vacanaṃ tasya maharṣerlakṣmaṇāgrajaḥ

7.20

उवाच वचनं धीरो विगृह्य सशरं धनुः ।
तानहं सुमहाभाग मृगसंघान् समागतान्

uvāca vacanaṃ dhīro vigṛhya saśaraṃ dhanuḥ |
tānahaṃ sumahābhāga mṛgasaṃghān samāgatān

7.21

हन्यां निशितधारेण शरेणानतपर्वणा ।
भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः

hanyāṃ niśitadhāreṇa śareṇānataparvaṇā |
bhavāṃstatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ

7.22

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।
तमेवमुक्त्वोपरमं रामः संध्यामुपागमत्

etasminnāśrame vāsaṃ ciraṃ tu na samarthaye |
tamevamuktvoparamaṃ rāmaḥ saṃdhyāmupāgamat

7.23

अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च

anvāsya paścimāṃ saṃdhyāṃ tatra vāsamakalpayat |
sutīkṣṇasyāśrame ramye sītayā lakṣmaṇena ca

7.24

ततः शुभं तापसयोग्यमन्नं
स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा
संध्यानिवृत्तौ रजनीं समीक्ष्य

tataḥ śubhaṃ tāpasayogyamannaṃ
svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām |
tābhyāṃ susatkṛtya dadau mahātmā
saṃdhyānivṛttau rajanīṃ samīkṣya

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)