प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्
praviśya tu mahāraṇyaṃ daṇḍakāraṇyamātmavān |
rāmo dadarśa durdharṣastāpasāśramamaṇḍalam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
23 श्लोक · 1 में से 75
श्रीराम विशाल दण्डकारण्य में प्रवेश करते हैं और तपस्वियों के आश्रमों का एक मण्डल देखते हैं। कुश और वल्कल से घिरे वे आश्रम ब्रह्मतेज से ऐसे दमक रहे हैं जैसे आकाश में सूर्यमण्डल। आँगन सदा बुहारे रहते हैं, मृग और पक्षी निर्भय विचरते हैं और ऋषि नियमित आहार पर रहते हैं। श्रीराम को देखकर मुनि उनके रूप, सुकुमारता और वनवासी वेश को विस्मय से निहारते हैं। वे राम, सीता और लक्ष्मण का फल, मूल और पुष्पों से सत्कार करते हैं और विश्राम के लिए पर्णकुटी देते हैं। फिर हाथ जोड़कर कहते हैं कि राजा प्रजा का रक्षक और शरणदाता है, चाहे वह नगर में रहे या वन में; अतः आप ही हमारी रक्षा करें।
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्
praviśya tu mahāraṇyaṃ daṇḍakāraṇyamātmavān |
rāmo dadarśa durdharṣastāpasāśramamaṇḍalam
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam |
yathā pradīptaṃ durdarśaṃ gagane sūryamaṇḍalam
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा ।
मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्
śaraṇyaṃ sarvabhūtānāṃ susammṛṣṭājiraṃ sadā |
mṛgairbahubhirākīrṇaṃ pakṣisaṃghaiḥ samāvṛtam
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः ।
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः
pūjitaṃ copanṛttaṃ ca nityamapsarasāṃ gaṇaiḥ |
viśālairagniśaraṇaiḥ srugbhāṇḍairajinaiḥ kuśaiḥ
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ।
आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्
samidbhistoyakalaśaiḥ phalamūlaiśca śobhitam |
āraṇyaiśca mahāvṛkṣaiḥ puṇyaiḥ svāduphalairvṛtam
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ।
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam |
puṣpaiścānyaiḥ parikṣiptaṃ padminyā ca sapadmayā
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्
phalamūlāśanairdāntaiścīrakṛṣṇājināmbaraiḥ |
sūryavaiśvānarābhaiśca purāṇairmunibhiryutam
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः ।
तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्
puṇyaiśca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ |
tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ।
तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्
brahmavidbhirmahābhāgairbrāhmaṇairupaśobhitam |
tad dṛṣṭvā rāghavaḥ śrīmāṃstāpasāśramamaṇḍalam
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः ।
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः
abhyagacchanmahātejā vijyaṃ kṛtvā mahad dhanuḥ |
divyajñānopapannāste rāmaṃ dṛṣṭvā maharṣayaḥ
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् ।
ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्
abhijagmustadā prītā vaidehīṃ ca yaśasvinīm |
te tu somamivodyantaṃ dṛṣṭvā vai dharmacāriṇam
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः
lakṣmaṇaṃ caiva dṛṣṭvā tu vaidehīṃ ca yaśasvinīm |
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् ।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām |
dadṛśurvismitākārā rāmasya vanavāsinaḥ
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ।
आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrairanimiṣairiva |
āścaryabhūtān dadṛśuḥ sarve te vanavāsinaḥ
अत्रैनं हि महाभागाः सर्वभूतहिते रताः ।
अतिथिं पर्णशालायां राघवं संन्यवेशयन्
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ |
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
ततो रामस्य सत्कृत्य विधिना पावकोपमाः ।
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः
tato rāmasya satkṛtya vidhinā pāvakopamāḥ |
ājahruste mahābhāgāḥ salilaṃ dharmacāriṇaḥ
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः ।
मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः
maṅgalāni prayuñjānā mudā paramayā yutāḥ |
mūlaṃ puṣpaṃ phalaṃ sarvamāśramaṃ ca mahātmanaḥ
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् ।
धर्मपालो जनस्यास्य शरण्यश्च महायशाः
nivedayitvā dharmajñāste tu prāñjalayo'bruvan |
dharmapālo janasyāsya śaraṇyaśca mahāyaśāḥ
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ।
इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव
pūjanīyaśca mānyaśca rājā daṇḍadharo guruḥ |
indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।
ते वयं भवता रक्ष्या भवद्विषयवासिनः ।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः
rājā tasmād varān bhogān ramyān bhuṅkte namaskṛtaḥ |
te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ |
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ।
रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः
nyastadaṇḍā vayaṃ rājañjitakrodhā jitendriyāḥ |
rakṣaṇīyāstvayā śaśvad garbhabhūtāstapodhanāḥ
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ।
वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्
evamuktvā phalairmūlaiḥ puṣpairanyaiśca rāghavam |
vanyaiśca vividhāhāraiḥ salakṣmaṇamapūjayan
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः ।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ |
nyāyavṛttā yathānyāyaṃ tarpayāmāsurīśvaram
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)