उद्योग पर्व

अध्याय 60: धृतराष्ट्र दोनों पक्ष तौलकर शान्ति चुनते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षष्टितमोऽध्यायः ॥

24 श्लोक · 60 में से 196

इस अध्याय में क्या होता है

धृतराष्ट्र दोनों पक्ष तौलकर शान्ति चुनते हैं

संजय की बात सुनकर प्रज्ञाचक्षु धृतराष्ट्र हर वचन के गुण और दोष तौलते हैं, फिर कौरवों और पाण्डवों के बल का विचार करते हैं। वे दुर्योधन से कहते हैं कि मानवी और दैवी दोनों शक्ति में पाण्डव बढ़कर हैं। जो देवता पाण्डवों के साथ हैं, वे उनकी सहायता को आएँगे। वे अर्जुन के ध्वज पर बैठे दिव्य वानर का वर्णन करते हैं, जो धुएँ की तरह बिना रुके चलता है, उस रथ का जिसके समान पृथ्वी पर कोई नहीं, और उस धनुर्धर का जो पाँच सौ बाण उठाकर पलक झपकते छोड़ देता है, कार्तवीर्य के समान। यह सोचते हुए वे दिन रात सो नहीं पाते। कौरवों का बड़ा विनाश सामने है, कलह का अन्त केवल शान्ति से होगा, और पार्थों से शान्ति ही उन्हें सदा प्रिय है।

वैशंपायन उवाच

60.1

सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः ।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः

sañjayasya vacaḥ śrutvā prajñācakṣurjaneśvaraḥ |
tataḥ saṅkhyātumārebhe tadvaco guṇadoṣataḥ

60.2

प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति

prasaṅkhyāya ca saukṣmyeṇa guṇadoṣānvicakṣaṇaḥ |
yathāvanmatitattvena jayakāmaḥ sutānprati

60.3

बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् ।
यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः

balābalaṃ viniścitya yāthātathyena buddhimān |
yadā tu mene bhūyiṣṭhaṃ tadvaco guṇadoṣataḥ

60.4

पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः

punareva kurūṇāṃ ca pāṇḍavānāṃ ca buddhimān |
śaktiṃ śaṅkhyātumārebhe tadā vai manujādhipaḥ

60.5

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत्

devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān |
kurūñśaktyā'lpatarayā duryodhanamathābravīt

60.6

दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः

duryodhaneyaṃ cintā me śaśvanna vyupaśāmyati |
satyaṃ hyetadahaṃ manye pratyakṣaṃ nānumānataḥ

60.7

आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते ।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च

ātmajeṣu paraṃ snehaṃ sarvabhātini kurvate |
priyāmi caiṣāṃ kurvanti yathāśakti hitāni ca

60.8

एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम्

evamevopakartṝṇāṃ prāyaśo lakṣayāmahe |
icchanti bahulaṃ santaḥ pratikartuṃ mahatpriyam

60.9

अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे

agniḥ sācivyartā syātkhāṇḍave tatkṛtaṃ smaran |
arjunasyāpi bhīme'sminkurupāṇḍusamāgame

60.10

जातिगृद्ध्याऽभिपन्नाश्च पाण्‍डवानामनेकशः ।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः

jātigṛddhyā'bhipannāśca pāṇ‍ḍavānāmanekaśaḥ |
dharmādayaḥ sameṣyanti samāhūtā divaukasaḥ

60.11

भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः

bhīṣmadroṇakṛpādīnāṃ bhayādaśanisannibham |
rirakṣiṣantaḥ saṃrabhyaṃ gamiṣyantīti me matiḥ

60.12

ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः

te devaiḥ sahitāḥ pārthā na śakyāḥ prativīkṣitum |
mānuṣeṇa naravyāghrā vīryavanto'strapāragāḥ

60.13

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी

durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanuruttamam |
vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī

60.14

वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ

vānaraśca dhvaje divyo niḥsaṅge dhūmavadgatiḥ |
rathaśca caturantāyāṃ yasya nāsti samaḥ kṣitau

60.15

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयंकरः

mahāmeghanibhaścāpi nirghoṣaḥ śrūyate janaiḥ |
mahāśanisamaḥ śabdaḥta śātravāṇāṃ bhayaṃkaraḥ

60.16

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे

yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati |
devānāmapi jetāraṃ yaṃ viduḥ pārthivā raṇe

60.17

शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन्

śatāni pañca caiveṣūnyo gṛhṇannaiva dṛśyate |
nimeṣāntaramātreṇa muñcandūraṃ ca pātayan

60.18

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः

yamāha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca |
madrarājastathā śalyo madhyasthā ye ca mānavāḥ

60.19

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम्

yuddhāyāvasthitaṃ pārthaṃ pārthivairatimānuṣaiḥ |
aśakyaṃ rathaśārdūlaṃ parājetumariṃdamam

60.20

क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्

kṣipatyekena vegena pañcabāṇaśatāni yaḥ |
sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam

60.21

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् ।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे

tamarjunaṃ maheṣvāsaṃ mahendropendravikramam |
nighnantamiva paśyābhi vimarde'sminmahāhave

60.22

इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया

ityevaṃ cintayankṛtsnamahorātrāṇi bhārata |
anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā

60.23

क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते

kṣayodayo'yaṃ sumahānkurūṇāṃ pratyupasthitaḥ |
asya cetkalahanyāntaḥ śamādanyo na vidyate

60.24

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्

śamo me rocate nityaṃ pārthaistāta na vigrahaḥ |
kurubhyo hi sadā manye pāṇḍavāñśaktimattarān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)