ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे
brūhi sañjaya yaccheṣaṃ vāsudevādanantaram |
yajarjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनषष्टितमोऽध्यायः ॥
14 श्लोक · 59 में से 196
धृतराष्ट्र संजय से पूछते हैं कि वासुदेव के बाद अर्जुन ने क्या कहा। संजय बताते हैं कि श्रीकृष्ण के सुनते अर्जुन ने भीष्म, धृतराष्ट्र, द्रोण, कृप, शल्य, बाह्लीक, अश्वत्थामा, शकुनि, दुःशासन, विकर्ण, जयद्रथ, भगदत्त और उन सब राजाओं का नाम लिया जो जलती पाण्डव अग्नि में मरने के लिए आए हैं, और कहा कि उन्हें उनकी ओर से यथोचित प्रणाम और कुशल कहा जाए। संजय को गले लगाकर अर्जुन ने कहा कि यदुवीर के वचन सभा में राजाओं के सामने वैसे ही कहे जाएँ, और उनके अपने भी: मिलकर ऐसा यत्न करो कि बाणरूपी अग्नि और धनुषरूपी स्रुवा से युद्ध का होम न हो। यदि युधिष्ठिर का आधा भाग नहीं दोगे, तो मेरे तीखे बाण घोड़ों, पैदलों और हाथियों सहित तुम्हें पितरों की दिशा में भेजेंगे।
धृतराष्ट्र उवाच
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे
brūhi sañjaya yaccheṣaṃ vāsudevādanantaram |
yajarjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me
सञ्जय उवाच
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः ।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः
vāsudevavacaḥ śrutvā kuntīputro dhanañjayaḥ |
uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम्
pitāmahaṃ śāntanavaṃ dhṛtarāṣṭraṃ ca sañjaya |
droṇaṃ kṛpaṃ ca śalyaṃ ca mahārājaṃ ca bāhlikam
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम्
drauṇiṃ ca saumadattiṃ ca śakuniṃ cāpi saubalam |
duśśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम्
vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam |
vindānuvindāvāvantyau durmukhaṃ cāpi pauravam
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च ।
भगदत्तं च राजानं जलसन्धं च पौरवम्
saindhavaṃ dussahaṃ caiva bhūriśravasameva ca |
bhagadattaṃ ca rājānaṃ jalasandhaṃ ca pauravam
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं
समागताः कौरवाणां प्रियार्थम् ।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते
समानीता धार्तराष्ट्रोण सूत
ye cāpyanye pārthivāstatra yoddhuṃ
samāgatāḥ kauravāṇāṃ priyārtham |
mumūrṣavaḥ pāṇḍavāgnau pradīpte
samānītā dhārtarāṣṭroṇa sūta
यथान्यायं कुशलं वन्दनं च
समागता मद्वचनेन वाच्याः
yathānyāyaṃ kuśalaṃ vandanaṃ ca
samāgatā madvacanena vācyāḥ
सहामात्यं सञ्जय श्रावयेथाः
sahāmātyaṃ sañjaya śrāvayethāḥ
एवं परिष्वज्य धनञ्जयो मां
ततोऽर्थवद्धर्मवच्चापि वाक्यम् ।
प्रोवाचेदं वासुदेवं समीक्ष्य
पार्थो धीमाँल्लोहितान्तायताक्षः
evaṃ pariṣvajya dhanañjayo māṃ
tato'rthavaddharmavaccāpi vākyam |
provācedaṃ vāsudevaṃ samīkṣya
pārtho dhīmām̐llohitāntāyatākṣaḥ
यथाश्रुतं ते वदतो महात्मनो
यदुप्रवीरस्य वचः समाहितम् ।
तथैव वाच्यं भवतापि मद्वचः
समागतेषु क्षितिपेषु सर्वशः
yathāśrutaṃ te vadato mahātmano
yadupravīrasya vacaḥ samāhitam |
tathaiva vācyaṃ bhavatāpi madvacaḥ
samāgateṣu kṣitipeṣu sarvaśaḥ
शराग्निधूमे रथनेमिनादिते
धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे
तथा समेत्य प्रयतध्वमादृताः
śarāgnidhūme rathaneminādite
dhanusstruveṇāstrabalāpahāriṇā |
yathā na homaḥ kriyate mahāmṛdhe
tathā sametya prayatadhvamādṛtāḥ
न चेत्प्रयच्छध्वममित्रघातिनो
युधिष्ठिरस्यार्धमभीप्सितं स्वकम् ।
नयामि वः साश्वपदातिकुञ्जरा-
न्दिशं पितॄणामशिवां शितैः शरैः
na cetprayacchadhvamamitraghātino
yudhiṣṭhirasyārdhamabhīpsitaṃ svakam |
nayāmi vaḥ sāśvapadātikuñjarā-
ndiśaṃ pitṝṇāmaśivāṃ śitaiḥ śaraiḥ
ततोऽहमामन्त्र्य चतुर्भुजं हरिं
धनञ्जयं चैव नमस्य सत्वरम् ।
जवेन संप्राप्त इहामरद्युते
तवान्तिकं प्रापयितुं वचो महत्
tato'hamāmantrya caturbhujaṃ hariṃ
dhanañjayaṃ caiva namasya satvaram |
javena saṃprāpta ihāmaradyute
tavāntikaṃ prāpayituṃ vaco mahat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)