उद्योग पर्व

अध्याय 61: दुर्योधन अपनी शक्तियों का बखान करते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकषष्टितमोऽध्यायः ॥

29 श्लोक · 61 में से 196

इस अध्याय में क्या होता है

दुर्योधन अपनी शक्तियों का बखान करते हैं

दुर्योधन क्रोध में उत्तर देते हैं। यह भय छोड़ दीजिए कि देवता पार्थों की सहायता करेंगे: व्यास, नारद और परशुराम ने बताया था कि देवता काम, द्वेष, लोभ और द्रोह से मुक्त होने से ही देवता बने, वे मनुष्यों की तरह इन भावों से कभी काम नहीं करते। फिर वे आत्मप्रशंसा करते हैं। अपने मन्त्र से वे फटती पृथ्वी और पर्वत शिखरों को थाम सकते हैं और जल को स्तम्भित कर सकते हैं। उनके राज्य में मेघ इच्छानुसार बरसते हैं, प्रजा धर्मिष्ठ है और कोई आपदा नहीं। जिससे वे द्वेष करें, उसे देव, गन्धर्व, असुर या राक्षस कोई नहीं बचा सकता। समुद्र में नदियों की तरह पाण्डव उनसे मिलकर नष्ट होंगे।

वैशंपायन उवाच

61.1

पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्

pituretadvacaḥ śrutvā dhārtarāṣṭro'tyamarṣaṇaḥ |
ādhāya vipulaṃ krodhaṃ punarevedamabravīt

61.2

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।
मन्यते तद्भयं व्येतु भवतो राजसत्तम

aśakyā devasacivāḥ pārthāḥ syuriti yadbhavān |
manyate tadbhayaṃ vyetu bhavato rājasattama

61.3

अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत ।
उपेक्षया च भावानां देवा देवत्वमाप्नुवन्

akāmadveṣasaṃyogāllobhadrohācca bhārata |
upekṣayā ca bhāvānāṃ devā devatvamāpnuvan

61.4

इति द्वैपायेनो व्यासो नारदश्च महातपाः ।
जामदग्न्यश्च रामो नः कथामकथयत्पुरा

iti dvaipāyeno vyāso nāradaśca mahātapāḥ |
jāmadagnyaśca rāmo naḥ kathāmakathayatpurā

61.5

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।
कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ

naiva mānuṣavaddevāḥ pravartante kadācana |
kāmātkrodhāttathā lobhāddveṣācca bharatarṣabha

61.6

यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः

yadā hyagniśca vāyuśca dharma indro'śvināvapi |
kāmayogātpravarteranna pārthā duḥkhamāpnuyuḥ

61.7

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथंचन ।
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत

tasmānna bhavatā cintā kāryaiṣā syātkathaṃcana |
daiveṣvapekṣakā hyete śaśvadbhāveṣu bhārata

61.8

अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते ।
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति

atha cetkāmasaṃyogāddveṣo lobhaśca lakṣyate |
deveṣu daivaprāmāṇyānnaiṣāṃ tadvikramiṣyati

61.9

मयाऽभिमन्त्रतः शश्वञ्जातवेदाः प्रशाम्यति ।
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः

mayā'bhimantrataḥ śaśvañjātavedāḥ praśāmyati |
didhakṣuḥ sakalām̐llokānparikṣipya samantataḥ

61.10

यद्वा परमकं तेजो येन युक्ता दिवौकसः ।
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत

yadvā paramakaṃ tejo yena yuktā divaukasaḥ |
mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata

61.11

विदीर्यमाणां वसुधां गिरीणां शिखराणि च ।
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्

vidīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca |
lokasya paśyato rājansthāpayāmyabhimantraṇāt

61.12

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।
विनाशाय समुत्पन्नमहं घोरं महास्वनम्

cetanācetanasyāsya jaṅgamasthāvarasya ca |
vināśāya samutpannamahaṃ ghoraṃ mahāsvanam

61.13

अश्मवर्षं च वायुं च शमयामीह नित्यशः ।
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया

aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ |
jagataḥ paśyato'bhīkṣṇaṃ bhūtānāmanukampayā

61.14

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।
देवासुराणां भावानामहमेकः प्रवर्तिता

stambhitāsvapsu gacchanti mayā rathapadātayaḥ |
devāsurāṇāṃ bhāvānāmahamekaḥ pravartitā

61.15

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये

akṣauhiṇībhiryāndeśānyāmi kāryeṇa kenacit |
tatrāpo me pravartante yatra yatrābhikāmaye

61.16

भयानकानि विषये व्यालादीनि न सन्ति मे ।
मन्त्रगुप्तानि भूतानि न हिंसन्ति यंकराः

bhayānakāni viṣaye vyālādīni na santi me |
mantraguptāni bhūtāni na hiṃsanti yaṃkarāḥ

61.17

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् ।
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे

nikāmavarṣī parjanyo rājanviṣayavāsinām |
dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me

61.18

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्

aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā |
dharmaścaiva mayā dviṣṭānnotsahante'bhirakṣitum

61.19

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा ।
न स्म त्रयोदश समाः पार्था दुःखभवाप्नुयुः

yadi hyete samarthāḥ syurmaddviṣastrātumañjasā |
na sma trayodaśa samāḥ pārthā duḥkhabhavāpnuyuḥ

61.20

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते

naiva devā na gandharvā nāsurā na ca rākṣasāḥ |
śaktāstrātuṃ mayā dviṣṭaṃ satyametadbravīmi te

61.21

दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् ।
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः

dayabhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vā'śubham |
naitadvipannapūrvaṃ me mitreṣvariṣu cobhayoḥ

61.22

भविष्यतीदमिति वा यद्ब्रवीमि परन्तप ।
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः

bhaviṣyatīdamiti vā yadbravīmi parantapa |
nānyathā bhūtapūrvaṃ ca satyavāgiti māṃ viduḥ

61.23

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप

lokasākṣikametanme māhātmyaṃ dikṣu viśrutam |
āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa

61.24

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।
असदाचरितं ह्येतद्यदात्मानं प्रशंसति

na hyahaṃ ślāghano rājanbhūtapūrvaḥ kadācana |
asadācaritaṃ hyetadyadātmānaṃ praśaṃsati

61.25

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया

pāṇḍavāṃścaiva matsyāṃśca pāñcālānkekayaiḥ saha |
sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmayā

61.26

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः

saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ |
tathaiva te vinaṅkṣyanti māmāsādya sahānvayāḥ

61.27

परा बुद्धिः परं तेजो वीर्यं च परमं मम ।
परा विद्या परो योगो मम तेभ्यो विशिष्यते

parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mama |
parā vidyā paro yogo mama tebhyo viśiṣyate

61.28

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते

pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā |
astreṣu yatprajānanti sarvaṃ tanmayi vidyate

61.29

इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत ।
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः

ityukte sañjayaṃ bhūyaḥ paryapṛcchata bhārata |
jñātvā yuyutsoḥ kāryāṇi prāptakālamarindamaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)