उद्योग पर्व

अध्याय 4: द्रुपद मित्र राजाओं को बुलाने की सलाह देते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि चतुर्थोऽध्यायः ॥

26 श्लोक · 4 में से 196

इस अध्याय में क्या होता है

द्रुपद मित्र राजाओं को बुलाने की सलाह देते हैं

द्रुपद सात्यकि से सहमत हैं। दुर्योधन मीठे वचनों से कभी राज्य नहीं देगा; धृतराष्ट्र पुत्रमोह में उसी का साथ देंगे, भीष्म और द्रोण विवशता से, और कर्ण तथा शकुनि मूर्खता से। वे कहते हैं कि बलराम की सलाह यहाँ उचित नहीं, क्योंकि पापबुद्धि के आगे कोमलता व्यर्थ है। गधे से नरमी और गायों से कठोरता करने वाला जैसा उलटा करता है, वैसा ही दुर्योधन से मृदु वचन बोलने वाला करता है। अब शीघ्रगामी दूत तुरन्त मित्र राजाओं को बुलाने जाएँ: शल्य, धृष्टकेतु, जयत्सेन, सारे केकय, पूर्वी समुद्र के तट पर रहने वाले भगदत्त, और अनेक अन्य राजा जिनके नाम वे गिनाते हैं। साथ ही उनके विद्वान पुरोहित धृतराष्ट्र के पास जाएँ और दुर्योधन, भीष्म तथा द्रोण के लिए संदेश ले जाएँ।

द्रुपद उवाच

4.1

एवमेतन्महाबाहो भविष्यति न संशयः ।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति

evametanmahābāho bhaviṣyati na saṃśayaḥ |
na hi duryodhano rājyaṃ madhureṇa pradāsyati

4.2

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ

anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ |
bhīṣmadroṇau ca kārpaṇyānmaurkhyādrādheyasaubalau

4.3

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता

baladevasya vākyaṃ tu mama jñāne na yujyate |
etaddhi puruṣeṇāgre kāryaṃ sunayamicchatā

4.4

न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन ।
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम

na tu vācyo mṛduvaco dhārtarāṣṭraḥ kathaṃcana |
nahi mārdavasādhyo'sau pāpabuddhirmato mama

4.5

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि

gardabhe mārdavaṃ kuryādgoṣu tīkṣṇaṃ samācaret |
mṛdu duryodhane vākyaṃ yo brūyātpāpacetasi

4.6

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति

mṛduṃ vai manyate pāpo bhāṣamāṇamaśaktikam |
hitamarthaṃ na jānīyādabuddhirmārdave sati

4.7

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः

etaccaiva kariṣyāmo yatnaśca kriyatāmiha |
prasthāpayāma mitrebhyo balānyudyojayantu naḥ

4.8

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः

śalyasya dhṛṣṭaketośca jayatsenasya vā vibho |
kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ

4.9

स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्

sa ca duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ |
pūrvābhipannāḥ santaśca bhajante pūrvacodanam

4.10

तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः

tatvaradhvaṃ narendrāṇāṃ pūrvameva pracodane |
mahaddhi kāryaṃ voḍhavyamiti me vartate matiḥ

4.11

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने

śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ |
bhagadattāya rājñe ca pūrvasāgaravāsine

4.12

अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च ।
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो

amitaujase tathogrāya hārdikyāyāndhakāya ca |
dīrghaprajñāya śūrāya rocamānāya vā vibho

4.13

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
सेनजित्प्रतिबिन्ध्यश्च चित्रवर्मा सुवास्तुकः

ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ |
senajitpratibindhyaśca citravarmā suvāstukaḥ

4.14

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः

bāhlīko muñjakeśaśca caidyādhipatireva ca |
supārśvaśca subāhuśca pauravaśca mahārathaḥ

4.15

शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ॥
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः

śakānāṃ pahlavānāṃ karṇaveṣṭaśca pārthivaḥ ||
surāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ

4.16

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ।
दुर्जयो दन्तवक्रश्च रुक्मी च जनमेजयः

nīlaśca vīradharmā ca bhūmipālaśca vīryavān |
durjayo dantavakraśca rukmī ca janamejayaḥ

4.17

आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ।
भूरितेजा देवकश्च एकलव्यः सहात्मजैः

āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ |
bhūritejā devakaśca ekalavyaḥ sahātmajaiḥ

4.18

कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ।
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये

kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān |
kāmbhojā ṛṣikā ye ca paścimānūpakāśca ye

4.19

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ॥
जानकिश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः

jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ ||
jānakiśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ

4.20

जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः ।
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्

jānakiśca suśarmā ca maṇimānyotimatsakaḥ |
pāṃśurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān

4.21

तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि

tuṇḍaśca daṇḍadhāraśca bṛhatsenaśca vīryavān |
aparājito niṣādaśca śreṇimānvasumānapi

4.22

बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्

bṛhadbalo mahaujāśca bāhuḥ parapuraṃjayaḥ |
samudraseno rājā ca saha putreṇa vīryavān

4.23

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान्

udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ |
śrutāyuśca dṛḍhāyuśca sālvaputraśca vīryavān

4.24

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते

kumāraśca kaliṅgānāmīśvaro yuddhadurmadaḥ |
eteṣāṃ preṣyatāṃ śīghrametaddhi mama rocate

4.25

अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः ।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम्

ayaṃ ca brāhmaṇo vidvānmama rājanpurohitaḥ |
preṣyatāṃ dhṛtarāṣṭrāya vākyamasmai pradīyatām

4.26

यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः

yathā duryodhano vācyo yathā sāntanavo nṛpaḥ |
dhṛtarāṣṭro yathā vācyo droṇaśca rathināṃ varaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)