उद्योग पर्व

अध्याय 5: श्रीकृष्ण द्वारका लौटते हैं, राजा एकत्र होने लगते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्येगपर्वणि प़ञ्चमोऽध्यायः ॥

19 श्लोक · 5 में से 196

इस अध्याय में क्या होता है

श्रीकृष्ण द्वारका लौटते हैं, राजा एकत्र होने लगते हैं

श्रीकृष्ण द्रुपद की सलाह की प्रशंसा करते हैं कि सुनीति चाहने वाले का यही पहला कर्तव्य है। पर यादवों का कौरवों और पाण्डवों से समान सम्बन्ध है; वे विवाह के लिए आए थे और अब घर लौटेंगे। द्रुपद आयु और बुद्धि में सबसे बड़े हैं, धृतराष्ट्र उनका आदर करते हैं और वे द्रोण तथा कृप के मित्र हैं, इसलिए संदेश वही भेजें। यदि दुर्योधन न्याय से संधि करे तो भाइयों का महासंहार टलेगा; न करे तो वह मूढ़ क्रुद्ध गाण्डीवधारी के सामने नष्ट होगा। श्रीकृष्ण द्वारका चले जाते हैं। युधिष्ठिर और विराट युद्ध की तैयारी करते हैं। दोनों पक्षों के बुलाए राजा चतुरंगिणी सेनाओं के साथ आते हैं, धरती मानो काँप उठती है, और द्रुपद अपने वृद्ध पुरोहित को कौरवों के पास भेजते हैं।

वैशंपायन उवाच

5.1

द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः ।
वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम्

drupadenaivamukte tu vākye vākyavidāṃ varaḥ |
vasudevasutastatra pṛṣṇisiṃho'bravīdidam

5.2

उपपन्नमिदं वाक्यं सोमकानां धुरंधरे ।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः

upapannamidaṃ vākyaṃ somakānāṃ dhuraṃdhare |
arthasiddhikaraṃ rājñaḥ pāṇḍavasyāmitaujasaḥ

5.3

एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम् ।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः

etacca pūrvaṃ kāryaṃ naḥ sunītimabhikāṅkṣatām |
anyathā hyācarankarma puruṣaḥ syātsubāliśaḥ

5.4

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च

kiṃ tu saṃbandhakaṃ tulyamasmākaṃ kurupāṇḍuṣu |
yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca

5.5

ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति

te vivāhārthamānītā vayaṃ sarve tathā bhavān |
kṛte vivāhe muditā gamiṣyāmo gṛhānprati

5.6

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च ।
शिष्यवत्ते वयं सर्वे भवामेह न संशयः

bhavānvṛddhatamo rājñāṃ vayasā ca śrutena ca |
śiṣyavatte vayaṃ sarve bhavāmeha na saṃśayaḥ

5.7

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च

bhavantaṃ dhṛtarāṣṭraśca satataṃ bahu manyate |
ācāryayoḥ sakhā cāsi droṇasya ca kṛpasva ca

5.8

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः ।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान्

sa bhavānpreṣayatvadya pāṇḍavārthakaraṃ vacaḥ |
sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yadbhavān

5.9

यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः ।
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः

yadi tāvacchamaṃ kuryannyāyena kurupuṅgavaḥ |
na bhavetkurupāṇḍūnāṃ saubhrātreṇa mahānkṣayaḥ

5.10

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये

atha darpānvito mohānna kuryāddhṛtarāṣṭrajaḥ |
anyeṣāṃ preṣayitvā ca paścādasmānsabhāhvaye

5.11

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि

tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ |
niṣṭhāmāpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani

5.12

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान्प्रस्थापयामास सगणं सहबान्धवम्

tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ |
gṛhānprasthāpayāmāsa sagaṇaṃ sahabāndhavam

5.13

द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः ।
चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः

dvārakaṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ |
cakruḥ sāṅghrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ

5.14

ततः संप्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः

tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ |
sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ

5.15

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः

vacanātkurusiṃhānāṃ matsyapāñcālayośca te |
samājagmurmahīpālāḥ saṃprahṛṣṭā mahābalāḥ

5.16

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्

tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahadbalam |
dhṛtarāṣṭrasutāścāpi samāninyurmahīpatīn

5.17

समाकुला मही राजन्कुरुपाण्डवकारणात् ।
तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम्

samākulā mahī rājankurupāṇḍavakāraṇāt |
tadā samabhavatkṛtsnā saṃprayāṇe mahīkṣitām

5.18

संकुला च तदा भूमिश्चतुरङ्गवलान्विता ।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः

saṃkulā ca tadā bhūmiścaturaṅgavalānvitā |
balāni teṣāṃ vīrāṇāmāgacchanti tatastataḥ

5.19

चालयन्तीव गां देवीं सपर्वतवनामिमाम् ।
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् ।
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः

cālayantīva gāṃ devīṃ saparvatavanāmimām |
tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam |
kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate sthitaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)