उद्योग पर्व

अध्याय 2: बलराम दुर्योधन से विनम्र बात की सलाह देते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्वितीयोऽध्यायः ॥

15 श्लोक · 2 में से 196

इस अध्याय में क्या होता है

बलराम दुर्योधन से विनम्र बात की सलाह देते हैं

इसके बाद बलराम बोलते हैं। वे छोटे भाई की बात को धर्म और अर्थ दोनों से युक्त, युधिष्ठिर और दुर्योधन दोनों के लिए हितकर बताते हैं। यदि पाण्डवों को आधा राज्य मिल जाए तो शान्ति होगी और प्रजा सुखी रहेगी। वे कहते हैं कि कोई हस्तिनापुर जाए, भीष्म, धृतराष्ट्र, पुत्रसहित द्रोण, विदुर, कृप, शकुनि और कर्ण को प्रणाम करे, और वृद्धों तथा पुरवासियों के सामने विनयपूर्वक बात रखे। फिर वे दोष युधिष्ठिर पर ही रखते हैं: सब मित्रों के रोकने पर भी उन्होंने पासे के निपुण शकुनि से खेलना चुना और हार गए। इसलिए दुर्योधन को युद्ध से नहीं, साम से मनाना चाहिए, क्योंकि साम से मिला अर्थ टिकता है और युद्ध से केवल विनाश होता है। उनकी बात पूरी होते ही सात्यकि क्रोध से उठ खड़े होते हैं।

बलदेव उवाच

2.1

श्रुतं भवद्भिर्गदपूर्वजस्य
वाक्यं यथा धर्मवदर्थवच्च ।
अजातशत्रोश्च हितं च युक्तं
दुर्योधनस्यापि तथैव राज्ञः

śrutaṃ bhavadbhirgadapūrvajasya
vākyaṃ yathā dharmavadarthavacca |
ajātaśatrośca hitaṃ ca yuktaṃ
duryodhanasyāpi tathaiva rājñaḥ

2.2

अर्धं हि राज्यस्य विसृज्य वीराः
कुन्तीसुतास्तस्य कृते यतन्ते ।
प्रदाय चार्धं धृतराष्ट्रपुत्रः
सुखी सहास्माभिरतीव मोदेत्

ardhaṃ hi rājyasya visṛjya vīrāḥ
kuntīsutāstasya kṛte yatante |
pradāya cārdhaṃ dhṛtarāṣṭraputraḥ
sukhī sahāsmābhiratīva modet

2.3

लब्ध्वा हि राज्यं पूरुषप्रवीराः
सम्यक्प्रवृत्तेषु परेषु चैव ।
ध्रुवं प्रशान्ताः सुखमाविशेयु-
स्तेषां प्रशान्तिश्च हितं प्रजानाम्

labdhvā hi rājyaṃ pūruṣapravīrāḥ
samyakpravṛtteṣu pareṣu caiva |
dhruvaṃ praśāntāḥ sukhamāviśeyu-
steṣāṃ praśāntiśca hitaṃ prajānām

2.4

दुर्योधनस्यापि मतं च वेत्तुं
वक्तुं च वाक्यानि युधिष्ठिरस्य ।
प्रियं च मे स्याद्यदि तत्र कश्चि-
द्व्रजेच्छमार्थं कुरुपाण्डवानाम्

duryodhanasyāpi mataṃ ca vettuṃ
vaktuṃ ca vākyāni yudhiṣṭhirasya |
priyaṃ ca me syādyadi tatra kaści-
dvrajecchamārthaṃ kurupāṇḍavānām

2.5

स भीष्ममामन्त्र्य कुरुप्रवीरं
वैचित्रवीर्यं च महानुभावम् ।
द्रोणं सपुत्रं विदुरं कृपं च
गान्धारराजं च समूतपुत्रम्

sa bhīṣmamāmantrya kurupravīraṃ
vaicitravīryaṃ ca mahānubhāvam |
droṇaṃ saputraṃ viduraṃ kṛpaṃ ca
gāndhārarājaṃ ca samūtaputram

2.6

सवे च येऽन्ये धृतराष्ट्रपुत्रा
बलप्रधाना निगमप्रधानाः ।
स्थिताश्च धर्मेषु यथा स्वकेषु
लोकप्रवीराः श्रुतशीलवृद्धाः

save ca ye'nye dhṛtarāṣṭraputrā
balapradhānā nigamapradhānāḥ |
sthitāśca dharmeṣu yathā svakeṣu
lokapravīrāḥ śrutaśīlavṛddhāḥ

2.7

एतेषु सर्वेषु समागतेषु
पौरेषु वृद्धेषु च संगतेषु ।
ब्रवीतु वाक्यं प्रणिपातयुक्तं
कुन्तीसुतस्यार्थकरं यथा स्यात्

eteṣu sarveṣu samāgateṣu
paureṣu vṛddheṣu ca saṃgateṣu |
bravītu vākyaṃ praṇipātayuktaṃ
kuntīsutasyārthakaraṃ yathā syāt

2.8

सर्वास्ववस्थासु च ते न कोप्या
ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः ।
प्रियाभ्युपेतस्य युधिष्ठिरस्य
द्यूते प्रसक्तस्य हृतं च राज्यम्

sarvāsvavasthāsu ca te na kopyā
grasto hi so'rtho balamāśritaistaiḥ |
priyābhyupetasya yudhiṣṭhirasya
dyūte prasaktasya hṛtaṃ ca rājyam

2.9

निवार्यमाणश्च कुरुप्रवीरः
सर्वैः सुहृद्भिर्ह्यमप्यतञ्झः ।
स दीव्यमानः प्रतिदीव्य चैनं
गान्धारराजस्य सुतं मताक्षम्

nivāryamāṇaśca kurupravīraḥ
sarvaiḥ suhṛdbhirhyamapyatañjhaḥ |
sa dīvyamānaḥ pratidīvya cainaṃ
gāndhārarājasya sutaṃ matākṣam

2.10

हित्वा हि कर्णं च सुयोधनं च
समाह्वयद्देवितुमाजमीढः ।
दुरोदरास्तत्र सहस्रशोऽन्ये
युधिष्ठिरो यान्विषहेत जेतुम्

hitvā hi karṇaṃ ca suyodhanaṃ ca
samāhvayaddevitumājamīḍhaḥ |
durodarāstatra sahasraśo'nye
yudhiṣṭhiro yānviṣaheta jetum

2.11

उत्सृज्य तान्सौबलमेव चायं
समाह्वयत्तेन जितोऽक्षवत्याम् ।
स दीव्यमानः प्रतिदेवनेन
अक्षेषु नित्यं स्वपराङ्भुखेषु

utsṛjya tānsaubalameva cāyaṃ
samāhvayattena jito'kṣavatyām |
sa dīvyamānaḥ pratidevanena
akṣeṣu nityaṃ svaparāṅbhukheṣu

2.12

संरम्भमाणो विजितः प्रसह्य
तत्रापराधः शकुनेर्न कश्चित् ।
तस्मात्प्रणम्यैव वचो ब्रवीतु
वैचित्रवीर्यं बहुसामयुक्तम्

saṃrambhamāṇo vijitaḥ prasahya
tatrāparādhaḥ śakunerna kaścit |
tasmātpraṇamyaiva vaco bravītu
vaicitravīryaṃ bahusāmayuktam

2.13

तथा हि शक्यो धृतराष्ट्रपुत्रः
स्वार्थें नियोक्तुं पुरुषेण तेन ।
अयुद्धमाकाङ्क्षत कौरवाणां
साम्नैव दुर्योधनमाश्वसध्वम्

tathā hi śakyo dhṛtarāṣṭraputraḥ
svārtheṃ niyoktuṃ puruṣeṇa tena |
ayuddhamākāṅkṣata kauravāṇāṃ
sāmnaiva duryodhanamāśvasadhvam

2.14

साम्ना जितोऽर्थोऽर्थकरो भवेत
युद्धेऽनयो भविता नेह सोऽर्थः

sāmnā jito'rtho'rthakaro bhaveta
yuddhe'nayo bhavitā neha so'rthaḥ

2.15

एवं ध्रुवत्येव मधुप्रवीरे
शिनिप्रवीरः सहसोत्पपात
तच्चापि वाक्यं परिनिन्द्य तस्य
समाददे वाक्यमिदं समुन्युः

evaṃ dhruvatyeva madhupravīre
śinipravīraḥ sahasotpapāta
taccāpi vākyaṃ parinindya tasya
samādade vākyamidaṃ samunyuḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)