उद्योग पर्व

अध्याय 150: श्रीकृष्ण का निर्णय: अब केवल दण्ड

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥

20 श्लोक · 150 में से 196

इस अध्याय में क्या होता है

श्रीकृष्ण का निर्णय: अब केवल दण्ड

श्रीकृष्ण अपना वृत्तान्त समाप्त करते हैं। भीष्म, द्रोण, विदुर, गान्धारी और धृतराष्ट्र की बातों को ठुकराकर दुर्योधन क्रोध से लाल आँखें लिए उठ खड़ा हुआ और सभा से चला गया; प्राणों का मोह छोड़ चुके राजा उसके पीछे गए। उसने आज्ञा दी कि आज पुष्य नक्षत्र है, अभी कुरुक्षेत्र चलो। भीष्म को सेनापति बनाकर ग्यारह अक्षौहिणी सेना चल पड़ी, आगे ताल-ध्वज वाले भीष्म शोभित थे। श्रीकृष्ण अपनी नीति बताते हैं: पहले साम, फिर भेद, और यहाँ तक प्रस्ताव कि सारा राज्य तुम रखो, केवल पाँच गाँव दे दो। उस दुष्ट ने इतना भी नहीं छोड़ा। इसलिए अब चौथा उपाय, दण्ड ही शेष है। राजा अपने विनाश के लिए कुरुक्षेत्र गए हैं; बिना युद्ध वे राज्य नहीं लौटाएँगे।

भगवानुवाच

150.1

एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च ।
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत

evamukte tu bhīṣmeṇa droṇena vidureṇa ca |
gāndhāryā dhṛtarāṣṭreṇa na vai mando'nvabuddhyata

150.2

अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः ।
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः

avadhūyotthito mandaḥ krodhasaṃraktalocanaḥ |
anvadravanta taṃ paścādrājānastyaktajīvitāḥ

150.3

आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः ।
प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः

ājñāpayacca rājñastānpārthivānnaṣṭacetasaḥ |
prayāta vai kurukṣetraṃ puṣyo'dyeti punaḥ punaḥ

150.4

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः

tataste pṛthivīpālāḥ prayayuḥ sahasainikāḥ |
bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ

150.5

अक्षौहिण्यो दशैका च कौरवाणां समागताः ।
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत

akṣauhiṇyo daśaikā ca kauravāṇāṃ samāgatāḥ |
tāsāṃ pramukhato bhīṣmastālaketurvyarocata

150.6

यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशांपते ।
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च

yadatra yuktaṃ prāptaṃ ca tadvidhatsva viśāṃpate |
uktaṃ bhīṣmeṇa yadvākyaṃ droṇena vidureṇa ca

150.7

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि

gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata |
etatte kathitaṃ rājanyadvṛttaṃ kurusaṃsadi

150.8

साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता ।
अभेदायास्य वंशस्य प्रजानां च विवृद्धये

sāma cādau prayuktaṃ me rājansaubhrātramicchatā |
abhedāyāsya vaṃśasya prajānāṃ ca vivṛddhaye

150.9

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते ।
कर्मानुकीर्तनं चैव देवमानुपसंहितम्

punarbhedaśca me yukto yadā sāma na gṛhyate |
karmānukīrtanaṃ caiva devamānupasaṃhitam

150.10

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।
तदा मया समानीय भेदिताः सर्वपार्थिवाः

yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ |
tadā mayā samānīya bheditāḥ sarvapārthivāḥ

150.11

अद्भुतानि च घोराणि दारुणानि च भारत ।
अमानुषाणि कर्माणि दर्शितानि मया विभो

adbhutāni ca ghorāṇi dāruṇāni ca bhārata |
amānuṣāṇi karmāṇi darśitāni mayā vibho

150.12

निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।
राधेयं भीषयित्वा च सौबलं च पुनः पुनः

nirbhartsayitvā rājñastāṃstṛṇīkṛtya suyodhanam |
rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ

150.13

द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः ।
भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत्

dyūtato dhārtarāṣṭrāṇāṃ nindāṃ kṛtvā tathā punaḥ |
bhedayitvā nṛpāsnarvānvāgbhirmantrema cāsakṛt

150.14

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् ।
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च

punaḥ sāmābhisaṃyuktaṃ saṃpradānamathābruvam |
abhedātkuruvaṃśasya kāryayogāttathaiva ca

150.15

ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः

te śūrā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca |
tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānamadhaścarāḥ

150.16

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च ।
यथाह राजा गाङ्गेयो विदुरश्च हितं तव

prayacchantu ca te rājyamanīśāste bhavantu ca |
yathāha rājā gāṅgeyo viduraśca hitaṃ tava

150.17

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय ।
अवश्यं भरणीया हि पितुस्ते राजसत्तम

sarvaṃ bhavatu te rājyaṃ pañca grāmānvisarjaya |
avaśyaṃ bharaṇīyā hi pituste rājasattama

150.18

एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत ।
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा

evamukto'pi duṣṭātmā naiva bhāgaṃ vyamuñcata |
daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā

150.19

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि

niryātāśca vināśāya kurukṣetraṃ narādhipāḥ |
etatte kathitaṃ rājanyadvṛttaṃ kurusaṃsadi

150.20

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः

na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava |
vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)