उद्योग पर्व

अध्याय 119: अष्टक का जन्म और गुरुदक्षिणा पूरी

इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥

24 श्लोक · 119 में से 196

इस अध्याय में क्या होता है

अष्टक का जन्म और गुरुदक्षिणा पूरी

गालव गरुड़ को बताते हैं कि चौथाई कार्य बाकी है। गरुड़ कहते हैं कि ऐसे घोड़े और हैं ही नहीं। पूर्वकाल में ऋचीक गाधि की पुत्री सत्यवती के शुल्क में वरुण के अश्वतीर्थ से ऐसे सहस्र घोड़े लाए थे; गाधि ने उन्हें यज्ञ में दान कर दिया, तीन राजाओं ने दो-दो सौ खरीदे और चार सौ नदी पार कराते समय बह गए। इसलिए विश्वामित्र को छह सौ घोड़े दो और शेष दो सौ के बदले यह कन्या। विश्वामित्र कहते हैं कि यह पहले ही मुझे क्यों नहीं दी, चारों पुत्र मेरे होते; फिर एक पुत्र के लिए स्वीकार कर अष्टक को जन्म देते हैं। गालव माधवी की प्रशंसा करते हैं, जिसके चार पुत्रों ने उसके पिता को तार दिया, और उसे ययाति को लौटाकर वन चले जाते हैं।

नारद उवाच

119.1

गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् ।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज

gālavaṃ vainateyo'tha prahasannidamabravīt |
diṣṭyā kṛtārthaṃ paśyāmi bhavantamiha vai dvija

119.2

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि

gālavastu vacaḥ śrutvā vainateyena bhāṣitam |
caturbhāgāvaśiṣṭaṃ tadācakhyau kāryamasya hi

119.3

सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः ।
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव

suparṇastvabravīdenaṃ gālavaṃ vadatāṃ varaḥ |
prayatnaste na kartavyo naiṣa saṃpatsyate tava

119.4

पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम् ।
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः

purā hi kānyakubje vai gādheḥ satyavatīṃ sutām |
bhāryārthe varayatkanyāmṛcīkastena bhāṣitaḥ

119.5

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन्दीयतां मह्यं सहस्रमिति गालव

ekataḥśyāmakarṇānāṃ hayānāṃ candravarcasām |
bhagavandīyatāṃ mahyaṃ sahasramiti gālava

119.6

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः ।
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै

ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ |
aśvatīrthe hayām̐llabdhvā dattavānpārthivāya vai

119.7

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु ।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा

iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu |
tebhyo dve dve śate krītvā prāpte taiḥ pārthivaistadā

119.8

अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि संतारे हृतान्यासन्नितस्ततः

aparāṇyapi catvāri śatāni dvijasattama |
nīyamānāni saṃtāre hṛtānyāsannitastataḥ

119.9

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय

evaṃ na śakyamaprāpyaṃ prāptuṃ gālava karhicit |
imāmaśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya

119.10

विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम

viśvāmitrāya dharmātmanṣaḍbhiraśvaśataiḥ saha |
tato'si gatasaṃmohaḥ kṛtakṛtyo dvijottama

119.11

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत्

gālavastaṃ tathetyuktvā suparṇasahitastataḥ |
ādāyāśvāṃśca kanyāṃ ca viśvāmitramupāgamat

119.12

अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम्

aśvānāṃ kāṅkṣitārthānāṃ ṣaḍimāni śatāni vai |
śatadvayena kanyeyaṃ bhavatā pratigṛhyatām

119.13

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम्

asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ |
caturthaṃ janayatvekaṃ bhavānapi narottamam

119.14

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते ।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम्

pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te |
bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham

119.15

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा ।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः

viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā |
kanyāṃ ca tāṃ varārohāmidamityabravīdvacaḥ

119.16

किमियं पूर्वमेवेह न दत्ता मम गालव ।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः

kimiyaṃ pūrvameveha na dattā mama gālava |
putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ

119.17

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः

pratigṛhṇāmi te kanyāmekaputraphalāya vai |
aśvāścāśramamāsādya carantu mama sarvaśaḥ

119.18

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवीपुत्रमष्टकम्

sa tayā ramamāṇo'tha viśvāmitro mahādyutiḥ |
ātmajaṃ janayāmāsa mādhavīputramaṣṭakam

119.19

जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत्

jātamātraṃ sutaṃ taṃ ca viśvāmitro mahāmuniḥ |
saṃyojyārthaistathā dharmairaśvaistaiḥ samayojayat

119.20

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ

athāṣṭakaḥ puraṃ prāyāttadā somapuraprabham |
niryātya kanyāṃ śiṣyāya kauśikopi vanaṃ yayau

119.21

गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम् ।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह

gālavopi suparṇena saha niryātya dakṣiṇām |
manasā'tipratītena kanyāmidamuvāca ha

119.22

जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः ।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः

jāto dānapatiḥ putrastvayā śūrastathā'paraḥ |
satyadharmarataścānyo yajvā cāpi tathā'paraḥ

119.23

तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे

tadāgaccha varārohe tāritaste pitā sutaiḥ |
catvāraścaiva rājānastathā cāhaṃ sumadhyame

119.24

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह

gālavastvabhyanujñāya suparṇaṃ pannagāśanam |
piturniryātya tāṃ kanyāṃ prayayau vanameva ha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)