उद्योग पर्व

अध्याय 118: उशीनर और शिबि का जन्म

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टादशाधिकशततमोऽध्यायाः ॥

21 श्लोक · 118 में से 196

इस अध्याय में क्या होता है

उशीनर और शिबि का जन्म

वचन पर स्थिर माधवी वह राजवैभव छोड़कर फिर कन्या बन जाती हैं और गालव के पीछे चलती हैं। गालव भोजनगर में राजा उशीनर के पास जाते हैं और पुत्रहीन राजा से कहते हैं कि यह कन्या आपको सूर्य और चन्द्र जैसे पुत्र देगी; शुल्क है एक ओर श्याम कान वाले चार सौ श्वेत घोड़े। उशीनर बताते हैं कि ऐसे घोड़े उनके पास केवल दो सौ हैं, अन्य प्रकार के सहस्रों हैं; उनका धन प्रजा के लिए है, अपने भोग के लिए नहीं। वे एक पुत्र के लिए कन्या लेते हैं। राजा महलों में माधवी के साथ रमण करते हैं और समय पर बालसूर्य जैसा पुत्र जन्मता है, जो प्रसिद्ध राजा शिबि हुए। गालव कन्या को लेकर चलते हैं और मार्ग में गरुड़ से मिलते हैं।

नारद उवाच

118.1

तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा

tathaiva tāṃ śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī |
mādhavī gālavaṃ vipramabhyayātsatyasaṅgarā

118.2

गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्

gālavo vimṛśanneva svakāryagatamānasaḥ |
jagāma bhojanagaraṃ draṣṭumauśīnaraṃ nṛpam

118.3

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् ।
इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

tamuvācātha gatvā sa nṛpatiṃ satyavikramam |
iya kanyā sutau dvau te janayiṣyati pārthivau

118.4

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च ।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप

asyāṃ bhavānavāptārtho bhavitā pretya ceha ca |
somārkapratisaṅkāśau janayitvā sutau nṛpa

118.5

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् ।
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्

śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām |
ekataḥśyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam

118.6

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे ।
यदि शक्यं महाराज क्रियतामविचारितम्

gurvartho'yaṃ samārambho na hayaiḥ kṛtyamasti me |
yadi śakyaṃ mahārāja kriyatāmavicāritam

118.7

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय

anapatyo'si rājarṣe putrau janaya pārthiva |
pitṝnputraplavena tvamātmānaṃ caiva tāraya

118.8

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः ।
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः

na putraphalabhoktā hi rājarṣe pātyate divaḥ |
na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ

118.9

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः

etaccānyacca vividhaṃ śrutvā gālavabhāṣitam |
uśīnaraḥ prativaco dadau tasya narādhipaḥ

118.10

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम

śrutavānasmi te vākyaṃ yathā vadasi gālava |
vidhistu balavānbrahmanpravaṇaṃ hi mano mama

118.11

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम ।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे

śate dve tu mamāśvānāmīdṛśānāṃ dvijottama |
itareṣāṃ sahasrāṇi subahūni caranti me

118.12

अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम्

ahamapyekamevāsyāṃ janayiṣyāmi gālava |
putravadbhirgataṃ mārgaṃ gamiṣyāmi parairaham

118.13

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम ।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः

mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama |
paurajānapadārthaṃ tu mamārtho nātmabhogataḥ

118.14

कामतो हि धनं राजा पारक्यं यः प्रयच्छति ।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च

kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati |
na sa dharmeṇa dharmātmanyujyate yaśasā na ca

118.15

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे

so'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama |
kumārīṃ devagarbhābhāmekaputrabhavāya me

118.16

तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्

tathā tu bahudhā kanyāmuktavantaṃ narādhipam |
uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat

118.17

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम्

uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam |
reme sa tāṃ samāsādya kṛtapuṇya iva śriyam

118.18

कन्दरेषु च शैलानां नदीनां निर्झरेषु च ।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च

kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca |
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca

118.19

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च ।
वातायनविमानेषु तथा गर्भगृहेषु च

harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca |
vātāyanavimāneṣu tathā garbhagṛheṣu ca

118.20

ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः

tato'sya samaye yajñe putro bālaraviprabhaḥ |
śibirnāmnābhivikhyāto yaḥ sa pārthivasattamaḥ

118.21

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च ।
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम्

upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca |
kanyāṃ prayātastāṃ rājandṛṣṭavānvinatātmajam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)