स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् ।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे
sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram |
upagamyāśramapadaṃ gaṅgāyāmunasaṅgame
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि विंशत्यधिकशततमोऽध्यायः ॥
22 श्लोक · 120 में से 196
ययाति गंगा-यमुना संगम के एक आश्रम में माधवी का स्वयंवर करते हैं। उसके भाई पूरु और यदु माला लिए माधवी को रथ में लाते हैं, और नाग, यक्ष, मनुष्य, गन्धर्व तथा ऋषि एकत्र होते हैं। माधवी सब वरों को छोड़कर वन को अपना पति चुनती हैं। उपवासों और नियमों से वे वन में हिरणों के बीच हिरणी की भाँति रहती हैं, पवित्र नदियों का जल पीती हैं और ब्रह्मचर्य का पालन करती हैं। पूरु और यदु के वंश बढ़ते हैं। स्वर्ग में सहस्रों वर्ष बीतने पर अभिमान से मूढ़ ययाति मनुष्यों, देवताओं और ऋषियों सबका अपमान करते हैं। इन्द्र यह जान लेते हैं, राजर्षि धिक्कारते हैं, और स्वर्ग के द्वारपाल तक नहीं बता पाते कि यह कौन है। उसी क्षण ययाति का तेज नष्ट हो जाता है।
नारद उवाच
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् ।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे
sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram |
upagamyāśramapadaṃ gaṅgāyāmunasaṅgame
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्
gṛhītamālyadāmāṃ tāṃ rathamāropya mādhavīm |
pūruryaduśca bhaginīmāśrame paryadhāvatām
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः
nāgayakṣamanuṣyāṇāṃ gandharvamṛgapakṣiṇām |
śailadrumavanaukānāmāsīttatra samāgamaḥ
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्
nānāpuruṣadeśyānāmīśvaraiśca samākulam |
ṛṣibhirbrahmakalpaiśca samantādāvṛtaṃ vanam
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम्
nirdiśyamāneṣu tu sā vareṣu varavarṇinī |
varānutkramya sarvāstānvaraṃ vṛtavatī vanam
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु ।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा
avatīrya rathātkanyā namaskṛtya ca bandhuṣu |
upagamya vanaṃ puṇyaṃ tapastepe yayātijā
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी
upavāsaiśca vividhairdīkṣābhirniyamaistathā |
ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च ।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च
vaidūryāṅkurakalpāni mṛdūni haritāni ca |
carantī ślakṣṇaśaṣpāṇi tiktāni madhurāṇi ca
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च ।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च
sravantīnāṃ ca puṇyānāṃ surasāni sucīni ca |
pibantī vārimukhyāni śītāni vimalāni ca
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च
vaneṣu mṛgarājeṣu vyāghraviproṣiteṣu ca |
dāvāgniviprayukteṣu śūnyeṣu gahaneṣu ca
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम्
carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī |
cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtam
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः ।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा
yayātirapi pūrveṣāṃ rājñāṃ vṛttamanuṣṭhitaḥ |
bahuvarṣasahasrāyuryuyuje kāladharmaṇā
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः
pururyaduśca dvau vaṃśe vardhamānau narottamau |
tābhbhāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ
महीपते नरपतिर्ययातिः स्वर्गमास्थितः ।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः
mahīpate narapatiryayātiḥ svargamāsthitaḥ |
maharṣikalpo nṛpatiḥ svargāgryaphalabhugvibhuḥ
बहुवर्षसहस्राख्ये काले बहुगुणे गते ।
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु
bahuvarṣasahasrākhye kāle bahuguṇe gate |
rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu mahardhiṣu
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा ।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः
avamene narānsarvāndevānṛṣigaṇāṃstathā |
yayātirmūḍhavijñāno vismayāviṣṭacetanaḥ
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्
tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ |
te ca rājarṣayaḥ sarve dhigdhigityevamabruvan
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः
vicāraśca samutpanno nirīkṣya nahuṣātmajam |
ko'nvayaṃ kasya vā rājñaḥ kathaṃ vā svargamāgataḥ
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम् ।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत
karmaṇā kenasiddho'yaṃ kva vā'nena tapaścitam |
kathaṃ vā jñāyate svarge kena vā jñāyate'pyuta
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति
evaṃ vicāsyantaste rājānaṃ svargavāsinaḥ |
dṛṣṭvā papracchuranyonyaṃ yayātiṃ nṛpatiṃ prati
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन्
vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ |
pṛṣṭā āsanapālāśca na jānīmetyathā'bruvan
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा
sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam |
sa muhūrtādatha nṛpo hataujāścābhavattadā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)