महावीर्यो महीपालः काशीनामीश्वरः प्रभुः ।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
mahāvīryo mahīpālaḥ kāśīnāmīśvaraḥ prabhuḥ |
divodāsa iti khyāto bhaimasenirnarādhipaḥ
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥
21 श्लोक · 117 में से 196
गालव माधवी को भीमसेन के पुत्र, काशी के धर्मात्मा राजा दिवोदास के पास ले जाते हैं। दिवोदास सत्कार कर कहते हैं कि यह बात मैं पहले सुन चुका हूँ और मुझे स्वीकार है; मेरे पास भी ऐसे केवल दो सौ घोड़े हैं, इसलिए मैं भी एक ही पुत्र उत्पन्न करूँगा। गालव विधिपूर्वक कन्या देते हैं। राजा माधवी के साथ वैसे ही रमण करते हैं जैसे देवता अपनी पत्नियों के साथ, और दिव्य तथा राजसी जोड़ों की लम्बी सूची आती है: स्वाहा के साथ अग्नि, शची के साथ इन्द्र, लक्ष्मी के साथ नारायण, रुद्राणी के साथ रुद्र, वैदेही के साथ राम, रुक्मिणी के साथ जनार्दन। माधवी प्रतर्दन को जन्म देती हैं। नियत समय पर गालव घोड़े राजा के पास छोड़कर कन्या माँगते हैं, और सत्यनिष्ठ दिवोदास उसे लौटा देते हैं।
गालव उवाच
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः ।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः
mahāvīryo mahīpālaḥ kāśīnāmīśvaraḥ prabhuḥ |
divodāsa iti khyāto bhaimasenirnarādhipaḥ
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः
tatra gacchāvahe bhadre śanairāgaccha mā śucaḥ |
dhārmikaḥ saṃyame yuktaḥ satye caiva janeśvaraḥ
नारद उवाच
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः ।
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्
tamupāgamya sa munirnyāyatastena satkṛtaḥ |
gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat
दिवोदाम उवाच
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज ।
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम
śrutametanmayā pūrvaṃ kimuktvā vistaraṃ dvija |
kāṅkṣito hi mayaiṣo'rthaḥ śrutvaiva dvijasattama
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् ।
मामेवमुपयातोऽसि भावि चैतदसंशयम्
etacca me bahumataṃ yadutsṛjya narādhipān |
māmevamupayāto'si bhāvi caitadasaṃśayam
स एव विभवोऽसमाकमश्वानामपि गालव ।
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्
sa eva vibhavo'samākamaśvānāmapi gālava |
ahamapyekamevāsyāṃ janayiṣyāmi pārthivam
नारद उवाच
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः ।
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्
tathetyuktvā dvijaśreṣṭhaḥ prādātkanyāṃ mahīpateḥ |
vidhipūrvāṃ ca tāṃ rājā kanyāṃ pratigṛhītavān
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ।
स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः
reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ |
svāhāyāṃ ca yathā vahniryathā śācyāṃ ca vāsavaḥ
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः ।
वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः
yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ |
varuṇaśca yathā gauryāṃ yathā cardhyāṃ dhaneśvaraḥ
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः
yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ |
yathā rudraśca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया ।
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा
adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaścākṣamālayā |
cyavanaśca sukanyāyāṃ pulastyaḥ sandhyayā yathā
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा ।
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा
agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavānyathā |
yathā bhṛguḥ pulomāyāmadityāṃ kaśyapo yathā
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः ।
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा
reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ |
bṛhaspatiśca tārāyāṃ śukraśca śataparvaṇā
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः ।
ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः
yathā bhūmyāṃ bhūmipatirurvaśyāṃ ca purūravāḥ |
ṛcīkaḥ satyavatyāṃ ca sarasvasyāṃ yathā manuḥ
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः ।
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः
śakuntalāyāṃ duṣyanto dhṛtyāṃ dharmaśca śāśvataḥ |
damayantyāṃ nalaścaiva satyavatyāṃ ca nāradaḥ
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया ।
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया
jaratkārurjaratkārvāṃ pulastyaśca pratīcyayā |
menakāyāṃ yathorṇāyustumburuścaiva rambhayā
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः ।
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः
vāsukiḥ śataśīrṣāyāṃ kumāryāṃ ca dhanañjayaḥ |
vaidehyāṃ ca yathā rāmo rukmiṇyāṃ ca janārdanaḥ
तथा तु रममाणस्य दिवोदासस्य भूपतेः ।
माधवी जनयामास पुत्रमेकं प्रतर्दनम्
tathā tu ramamāṇasya divodāsasya bhūpateḥ |
mādhavī janayāmāsa putramekaṃ pratardanam
अथाजगाम भगवान्दिवोदासं स गालवः ।
समये समनुप्राप्ते वचनं चेदमब्रवीत्
athājagāma bhagavāndivodāsaṃ sa gālavaḥ |
samaye samanuprāpte vacanaṃ cedamabravīt
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते
niryātayatu me kanyāṃ bhavāṃstiṣṭhantu vājinaḥ |
yāvadanyatra gacchāmi śulkārthaṃ pṛthivīpate
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् ।
कान्यां निर्यातयामास स्थितः सत्ये महीपतिः
divodāso'tha dharmātmā samaye gālavasya tām |
kānyāṃ niryātayāmāsa sthitaḥ satye mahīpatiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)