अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर
atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरशीतितमोऽध्यायः ॥
11 श्लोक · 84 में से 372
भीष्म इन्द्र और बृहस्पति का संवाद सुनाते हैं। इन्द्र पूछते हैं कि वह कौन-सा एक पद है जिसका ठीक आचरण करके मनुष्य सब प्राणियों के लिए प्रमाण बनता और महान यश पाता है। बृहस्पति उत्तर देते हैं: सान्त्व, मधुर वाणी। यह एक पद सारे लोक को सुख देता है, और इसका आचरण करने वाला सदा प्रिय रहता है। जो कभी बोलता नहीं और भौंहें चढ़ाए रहता है, वह द्वेष का पात्र बनता है। जो पहले मुस्कुराकर बोलता है, उससे लोग प्रसन्न रहते हैं। मधुर वचन के बिना दिया दान वैसे ही नहीं भाता जैसे बिना व्यंजन का भोजन। अतः दण्ड देना चाहे तब भी पहले सान्त्व का प्रयोग करे। इन्द्र ने पुरोहित की बात मानी, और भीष्म युधिष्ठिर से भी यही कहते हैं।
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर
atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira
शक्र उवाच
किंस्विदेकपढं ब्रह्मन्पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्
kiṃsvidekapaḍhaṃ brahmanpuruṣaḥ samyagācaran |
pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat
बृहस्पति उवाच
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्
sāntvamekapadaṃ śakra puruṣaḥ samyagācaran |
pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat
एतदेकपदं शक्र सर्वलोकसुखावहम् ।
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा
etadekapadaṃ śakra sarvalokasukhāvaham |
ācaransarvabhūteṣu priyo bhavati sarvadā
यो हि नाभाषते किंचित्सर्वदा भुकुटीमुखः ।
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्
yo hi nābhāṣate kiṃcitsarvadā bhukuṭīmukhaḥ |
dveṣyo bhavati bhūtānāṃ sa sāntvamiha nācaran
यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते ।
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति
yastu sarvamabhiprekṣya pūrvamevābhibhāṣate |
smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् ।
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्
dānameva hi sarvatra sāntvenānabhijalpitam |
na prīṇayati bhūtāni nirvyañjanamivāśanam
आददन्नपि भूतानां मधुरामीरयन्गिरम् ।
सर्वलोकमिमं शक्र सान्त्वेव कुरुते वशे
ādadannapi bhūtānāṃ madhurāmīrayangiram |
sarvalokamimaṃ śakra sāntveva kurute vaśe
तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि ।
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः
tasmātsāntvaṃ prayoktavyaṃ daṇḍamādhitsatā'pi hi |
prītiṃ ca janayatyevaṃ na cāsyodvijate janaḥ
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते
sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca |
samyagāsevyamānasya tulyaṃ jātu na vidyate
भीष्म उवाच
इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा ।
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर
ityuktaḥ kṛtavānsarvaṃ yathā śakraḥ purodhasā |
tathā tvamapi kaunteya samyagetatsamācara
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)