शान्ति पर्व

अध्याय 361: ब्रह्मा रुद्र को एक पुरुष का उपदेश देते हैं

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये समाप्तौ एकषष्ट्यधिकत्रिशततमोऽध्यायः ॥

23 श्लोक · 361 में से 372

इस अध्याय में क्या होता है

ब्रह्मा रुद्र को एक पुरुष का उपदेश देते हैं

ब्रह्मा रुद्र से कहते हैं कि सनातन पुरुष को न वे देख सकते हैं, न रुद्र, न कोई और; वह केवल ज्ञान से जाना जाता है। अशरीरी होकर भी वह हर शरीर में रहता है और उसके कर्म से लिप्त नहीं होता। सब ओर सिर, भुजा और नेत्र वाला वह क्षेत्रों अर्थात शरीरों में स्वच्छन्द विचरता है और उन्हें जानने से क्षेत्रज्ञ कहलाता है। सांख्य और योग से भी ब्रह्मा उसकी गति नहीं जान पाते। उसे पाने के लिए गुणमय सब कुछ, शुभ-अशुभ कर्म, सत्य और असत्य दोनों छोड़ने होते हैं। कोई उसे परमात्मा कहता है, कोई एक आत्मा; गुणों से परे, जल में कमलपत्र जैसा अलिप्त परमात्मा नारायण है, और देहधारी आत्मा बन्धन-मोक्ष में बँधता है। पुष्पिका यहाँ नारायणीय की समाप्ति बताती है।

ब्रह्मोवाच

361.1

शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः ।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते

śṛṇu putra yathāhyeṣa puruṣaḥ śāśvato'vyayaḥ |
akṣayaścāprameyaśca sarvagaśca nirucyate

361.2

न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम ।
सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः

na sa śakyastvayā draṣṭuṃ mayā'nyairvā'pi sattama |
saguṇairnirguṇairviśvo jñānadṛśyo hyasau smṛtaḥ

361.3

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः

aśarīraḥ śarīreṣu sarveṣu nivasatyasau |
vasannapi śarīreṣu na sa lipyati karmabhiḥ

361.4

ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित्

mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ |
sarveṣāṃ sākṣibhūto'sau na grāhyaḥ kenacikvacit

361.5

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्

viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ |
ekaścarati kṣetreṣu svairacārī yathāsukham

361.6

क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते

kṣetrāṇi hi śarīrāṇi bījaṃ cāpi śubhāśubham |
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate

361.7

नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित् ।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्

nāgatirna gatistasya jñeyā bhūteṣu kenacit |
sāṅkhyena vidhinā caiva yogena ca yathākramam

361.8

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम् ।
यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम्

cintayāmi gatiṃ cāsya na gatiṃ vedmi cottarām |
yathājñānaṃ tu vakṣyāmi puruṣaṃ tu sanātanam

361.9

तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः ।
महापुरुषशब्दं स बिभर्त्येकः सनातनः

tasyaikatvaṃ mahattvaṃ ca sa caikaḥ puruṣaḥ smṛtaḥ |
mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ

361.10

स्तं निर्गुणं पुरुषं चाविशन्ति

staṃ nirguṇaṃ puruṣaṃ cāviśanti

361.11

हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम् ।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः

hitvā guṇamayaṃ sarvaṃ karmaṃ hitvā śubhāśubham |
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ

361.12

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम्

acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam |
vicaredyo'samunnaddhaḥ sa gacchetpuruṣaṃ śubham

361.13

एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः

ekaṃ hi paramātmānaṃ kecidicchanti paṇḍitāḥ |
ekātmānaṃ tathā''tmānamaparedhyātmacintakāḥ

361.14

तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः

tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ |
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ

361.15

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते

na lipyate phalaiścāpi padmapatramivāmbhasā |
karmātmā tvaparo yosau mokṣabandhaiḥ sa yujyate

361.16

ससप्तदशकेनापि राशिना युज्यते च सः ।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्

sasaptadaśakenāpi rāśinā yujyate ca saḥ |
evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam

361.17

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम
वेद्यं परं बोधनीयं च वेदैः ।
मन्ता मन्तव्यं प्राशिता प्राशनीयं
घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्

yattatkṛtsnaṃ lokatantrasya dhāma
vedyaṃ paraṃ bodhanīyaṃ ca vedaiḥ |
mantā mantavyaṃ prāśitā prāśanīyaṃ
ghrātā ghreyaṃ sparśitā sparśanīyam

361.18

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं
ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।
यद्वै प्रोक्तं तात सम्यक्प्रधानं
नित्यं चैतच्छाश्वतं चाव्ययं च

draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ
jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca |
yadvai proktaṃ tāta samyakpradhānaṃ
nityaṃ caitacchāśvataṃ cāvyayaṃ ca

361.19

यद्वै सूते धातुराद्यं विधानं
तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
यद्वै लोके वैदिकं कर्म साधु
आशीर्युक्तं तद्धि तस्योपभोग्यम्

yadvai sūte dhāturādyaṃ vidhānaṃ
tadvai viprāḥ pravadante'niruddham |
yadvai loke vaidikaṃ karma sādhu
āśīryuktaṃ taddhi tasyopabhogyam

361.20

देवाः सर्वे मनुयः साधु दान्ता
स्तं प्राग्वंशे यज्ञभागं भजन्ते ।
अहं ब्रह्मा आद्य ईशः प्रजानां
तस्माज्जातस्त्वं च मत्तः प्रसूतः

devāḥ sarve manuyaḥ sādhu dāntā
staṃ prāgvaṃśe yajñabhāgaṃ bhajante |
ahaṃ brahmā ādya īśaḥ prajānāṃ
tasmājjātastvaṃ ca mattaḥ prasūtaḥ

361.21

मत्तो जगज्जङ्गमं स्थावरं च
सर्वे वेदाः सरहस्या हि पुत्र

matto jagajjaṅgamaṃ sthāvaraṃ ca
sarve vedāḥ sarahasyā hi putra

361.22

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत्

caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati |
evaṃ sa bhagavāndevaḥ svena jñānena bodhayat

361.23

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्

etatte kathitaṃ putra yathāvadanupṛcchataḥ |
sāṅkhyajñāne tathā yoge yathāvadanuvarṇitam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)